अक्षर आकार:

अनुग्रहे नवश्लोकाः

Anugrahe Navashlokah

अनुग्रहे नवश्लोकाः

१. ॐ विश्वेश्वरी जगद्धात्रीं स्थितिसंहारकारिणीं करोतु सा नः शुभहेतुरीश्वरी शुभानि भद्राण्यभिहन्तु चापदः । २. ॐ स्तुता सुरैः पूर्वमभीष्ट संश्रयात् तथा सुरेन्द्रेण दिनेषु सेविता । करोतु० ३. ॐ या साम्प्रतं चोद्धत दैत्यतापितैः अस्माभिरीशा च सुरैर्नमस्यते । करोतु० ४. ॐ या च स्मृता तत्क्षणमेव हन्ति नः सर्वापदो भक्ति विनम्रमूर्तिभिः । करोतु० ५. ॐ सर्वाबाधाप्रशमनं त्रैलोक्यस्याखिलेश्वरि । करोतु० ६. ॐ सर्वमङ्गल माङ्गल्ये शिवे सर्वार्थ साधिके । करोतु० ७. ॐ सृष्टि स्थिति विनाशानां शक्तिभूते सनातनि । करोतु० ८. ॐ शरणागतदीनार्त परित्राण परायणे । करोतु० ९. ॐ सर्वस्वरूपे सर्वेशे सर्वशक्ति समन्विते । करोतु सा नः शुभहेतुरीश्वरी शुभानि भद्राण्यभिहन्तु चापदः ॥ इति अनुग्रहे नवश्लोकाः समाप्ता ।