अक्षर आकार:

अन्नपूर्णास्तोत्रम् ३

Annapurnastotram 3

अन्नपूर्णास्तोत्रम् ३

मन्दार-कल्प-हरिचन्दन-पारिजात- मध्ये शशाङ्क-मणिमण्डित-वेदिसंस्थे । अर्धेन्दु-मौलि-सुललाट-षडर्धनेत्रे भिक्षां प्रदेहि गिरिजे! क्षुधिताय मह्यम् ॥ १॥ केयूर-हार-कटाङ्गद -कर्णपूरे काञ्ची कलाप-मणिकान्त-लसद्दुकूले । दुग्धा-ऽन्नपात्र-वर-काञ्चन-दर्विहस्ते भिक्षां प्रदेहि गिरिजे! क्षुधिताय मह्यम् ॥ २॥ आली-कदम्ब-परिसेवित-पार्श्वभागे शक्रादिभि-मुकुलिताञ्जलिभिः पुरस्तात् । देवि! त्वदीय-चरणौ शरणं प्रपद्ये भिक्षां प्रदेहि गिरिजे! क्षुधिताय मह्यम् ॥ ३॥ गन्धर्व-देव-ऋषिनारद-कौशिकाऽत्रि व्यासा-ऽम्वरीष -कलशोद्भव -कश्यपाद्याः । भक्त्या स्तुवन्ति निगमाऽऽगम-सूक्तमन्त्रै- र्भिक्षां प्रदेहि गिरिजे! क्षुधिताय मह्यम् ॥ ४॥ लीलावचांसि तव देवि! ऋगादिवेदाः सृष्ट्यादि-कर्मरचना भवदीय-चेष्टा । त्वत्तेजसा जगदिदं प्रतिभाति नित्यं भिक्षां प्रदेहि गिरिजे! क्षुधिताय मह्यम् ॥ ५॥ शब्दात्मिके शशिकलाभरणार्धदेहे शम्भोरुरस्थल -निकेतन -नित्यवासे । दारिद्र्यदुःख-भयहारिणि का त्वदन्या भिक्षां प्रदेहि गिरिजे! क्षुधिताय मह्यम् ॥ ६॥ सन्ध्यात्रये सकल-भूसुर-सेव्यमाने स्वाहा स्वधामि पितृदेवगणार्तिहन्त्री । जायाः सुताः परिजनातिथयोऽन्नकामाः भिक्षां प्रदेहि गिरिजे! क्षुधिताय मह्यम् ॥ ७॥ सद्भक्तकल्पलतिके भुवनैकवन्द्ये भूतेश -हृत्कमलमग्न -कुचाग्रभृङ्गे कारुण्यपूर्णनयने किमुपेक्षसे मां भिक्षां प्रदेहि गिरिजे! क्षुधिताय मह्यम् ॥ ८॥ अम्ब! त्वदीय -चरणाम्बुजसंश्रयेण व्रह्मादयोऽप्यविकलां श्रियमाश्रयन्ते । तस्मादहं तव नतोऽस्मि पदारविन्दं भिक्षां प्रदेहि गिरिजे! क्षुधिताय मह्यम् ॥ ९॥ एकाग्रमूलनिलयस्य महेश्वरस्य प्राणेश्वरी प्रणत-भक्तजनाय शीघ्रम् । कामाक्षि-रक्षित-जगत्-त्रितयेऽन्नपूर्णे! भिक्षां प्रदेहि गिरिजे! क्षुधिताय मह्यम् ॥ १०॥ भक्त्या पठन्ति गिरिजा-दशकं प्रभाते मोक्षार्थिनो बहुजनाः प्रथितोऽन्नकामाः । प्रीता महेशवनिता हिमशैलकन्या तेषां ददाति सुतरां मनसेप्सितानि ॥ ११॥ इति श्रीशङ्कराचार्यविरचितमन्नपूर्णास्तोत्रं सम्पूर्णम् ।