अक्षर आकार:

अम्बिकाताटङ्कः

Ambikatatankah

अम्बिकाताटङ्कः

सिंहारूढा सुतयुगविभूषिता कम्रनम्रमध्यगता । साऽम्बा देवी तीर्थाधिवासिनी हरतु मम दुरितम ॥ १॥ ॐ ह्रीं जय जय परमेश्वरि ! श्रीअम्बिके ! आम्रहस्ते ! महासिंहयानस्थिते ! किङ्किर्णानूपुरक्बाणकेयूरहाराङ्गदानेकसद्भूषणैर्विभूषिताङ्गे ! सर्वसल्लक्षणैर्णेर्लक्षिताङ्गे ! जिनेन्द्रस्य भक्ते ! कले ! निष्कले ! निष्प्रपञ्च ! महाग्रानने ! मिद्धगन्धर्वविद्याधरे- न्द्रार्चिते ! मन्त्रमूर्ते ! शिवे ! शङ्करे ! सिद्धिबुद्धिधृतिकीर्तिकान्तिविस्तारिणि ! शान्तिनिधितुष्टिपुष्टिहृष्टिप्रिये ! शोभने ! सुप्रहासे ! जरे ! जम्भिनि ! स्तम्भिनि । ! मोहिनि ! दीपनि ! शोषणि ! त्रासिनि ! मोटिनि ! भञ्जिनि ! दुष्टसञ्चूर्णिनि ! क्षुद्र- विद्रावणि ! शत्रुसञ्चूर्णिनि ! धार्मिकारक्षिणि ! देवि ! अम्बे ! महाविक्रमे ! भीम- नादे ! सुनादे ! अघोरे ! सुघोरे ! सुरौद्रे ! सुरौद्रानने ! चण्डिके ! चण्डरूपे ! सुनेत्रे ! सुवक्त्रे ! सुगात्रे ! पवित्रे ! नमन्मध्यभागे ! जयन्ति ! जयन्ताकुमारी ! त्रैपुराङ्गि ! गौरि ! गान्धारि ! गन्धर्वि ! यक्षेश्वरि ! ॐ कालि ! कालि ! महाकालि ! योगेश्वरि ! जनमार्गस्थिते ! सुप्रशस्ते ! धनुर्बाणदण्डासिचक्राम्बुजानेकशस्त्रोदिते ! सृष्टिसंहारकर्त्रि ! दिव्ये ! देन्द्रनागेन्द्रभूपेन्द्रचन्द्रस्तुते ! सुवर्णे ! पवित्रे ! महामूल- विद्यास्थिते ! वषट्कारस्वाहाकारस्वधाकारह्रीङ्कारकेङ्कारबीजाजान्विते ! दुःखदारिद्रयदौ- भाग्यनिर्नाशिनि ! लक्ष्मीधृतिकीर्तिकान्तिविस्तारिणि ! ह्रीं नमो यक्षेश्वरि ! ह्रीं देवि ! कुष्माण्डिके ! । हूँ नमो देवि ! अम्बिके । ह्रः सदा सर्वसिद्धिप्रदे ! अलं रक्ष रक्ष मां देवि ! वादे विवादे रणे कानने शत्रुमध्ये श्मशाने अग्नौ गिरौ रात्रौ सन्ध्याकाले विद्वस्तं निरस्तं नभःस्थे निषण्णं प्रमत्तं भयैर्व्याध्रसिंहैर्वराहैश्च रुद्धं तथा व्यालवेतालभूपालभीतं ज्वरेणाभिभूतं कृतान्तेन नीतं नरेण उक्तं नरैराक्षसैर्दैवि ! अम्बालये ! त्वत्प्रसादात् शान्तिकं पौष्टिकं वश्यमाकर्षणं स्तम्भनं मोहनं दुष्टसञ्चूर्णनं धार्मिकारक्षणम् । इति अम्बिकाताटङ्कः सम्पूर्णः ।