अम्बिकास्तुतिः
ॐ महातीर्थरैवतगिरिमण्डने ! जैनमार्गस्थिते ! विघ्नभीखण्डने ! ।
नेमिनाथाङ्घ्रिराजीवसेवापरे ! त्वं जयाम्बे ! जगञ्जन्तुरक्षाकरे ! ॥ १॥
ह्रीं महामन्त्ररूपे ! शिवे ! शङ्करे ! देवि ! वाचालसत्किङ्किणीनूपुरे ! ।
तारहारावलीराजितोरःस्थले ! कर्णताडङ्करुचिरम्यगण्डस्थले ! ॥ २॥
अम्बिके ! ह्राँ स्फुरद्वीजविद्ये ! स्वयं ह्रीं समागच्छ मे देहि दुःखक्षयम् ।
ह्रां ह्रूँ तं द्रावय द्रावयोपद्रवान् ह्रीं द्रुहि क्षुद्रसर्पेभकण्ठीरवान् ॥ ३॥
क्लीँ प्रचण्डे ! प्रसीद प्रसीद क्षणं ब्लूँ सदा प्रसन्ने ! विधेहीक्षणम् ।
सः सतां दत्तकल्याणमालोदये ! ह्स्क्ल्ह्रीं नमस्तेऽम्बिके ! अङ्कस्थपुत्रद्वये ॥ ४॥
इत्थमद्भूतमाहात्म्यमन्त्रस्तुते ! क्रोँसमालीढषट्कोणयन्त्रस्थिते ! ।
ह्रींयुतेऽम्बे ! मरुन्मण्डलालङ्कृते ! देहि मे दर्शन ह्रीं त्रिरेखवृते ! ॥ ५॥
नाशिताशेषमिथ्यादृशां दुर्मदे ! शान्तिकीर्तिद्युतिस्वस्तिसिद्धिप्रदे ! ।
दुष्टविद्याबलोच्छेदनप्रत्यले ! नन्द नन्दाम्बिके ! निश्चले ! निर्मले ! ॥ ६॥
देवि ! कूष्माण्डि ! दिव्यांशुके ! भैरवे ! दुःसहे दुर्जये ! तप्तहेमच्छवे ! ।
नाममन्त्रेण निर्नाशितोपद्रवे ! पाहि मामंहिपीठस्थकण्ठीरवे ! ॥ ७॥
देवदेवीगणैः सेविताङ्घ्रिद्वये जागरूकप्रभावैकलक्ष्मीमये ! ।
पालिताशेषजैनेन्द्रचैत्यालये ! रक्ष मां रक्ष मां देवि ! अम्बालये ! ॥ ८॥
अत्र स्तुतौ गुप्तीकृतो मन्त्रस्त्वेवम्-
ॐ ह्रीं अम्बिके ! ह्रां ह्रीं ह्रां ह्रीं क्लीँ ब्लूँ सः ह्स्क्ल्ह्रीं नमः ।
इति अम्बिकास्तुतिः सम्पूर्णा ।
सोशल मीडिया पर शेयर करें:
सहेजें एवं डाउनलोड करें (Save & Export):