अक्षर आकार:

श्रीअम्बिकास्तवनम्

Shri Ambikastavanam

श्रीअम्बिकास्तवनम्

महामात्यश्रीवस्तुपालविरचितं पुण्ये गिरीशशिरसि प्रथितावतारामासूत्रितत्रितजगतीदुरिनापहाराम् । दौर्गत्यपातिजनताजनितावलम्वामम्वामहं महिमहैमवतीं ! महेयम् ॥ १॥ यद्वक्त्रकुञ्जरहरोदूगतसिंहनादोऽप्युन्मादिविघ्नकरियूथकधाममाथम् । कृऽष्माण्डि खण्डयतु दुर्विनयेन कण्ठः कण्ठीरवः स तव भक्तिनतेषु भीतिम् ॥ २॥ कृष्माण्डि ! मण्डनमभूत्तव पादपद्मयुग्मं यदीयहृदयावनिमण्डलस्य । पद्मालया नवनिवासविशेपलाभलुब्धा न धावति कुतोऽपि ततः परेण ॥ ३॥ दारिद्र्यदुर्दमतमःशमनप्रदीपाः सन्तानकाननघनाघनवारिधाराः । दुःखोपतप्तजनबालमृणालदण्डाः कृष्माण्डि ! पातु पदपद्मनस्वांशवस्ते ॥ ४॥ देवि ! प्रकाशयति सन्ततमेष कामं वामेतरस्तव करश्चरणानतानाम् । कुर्वन् पुरः प्रगुणितां सहकारलुम्बिमम्बे ! विलम्बविकलस्य फलस्य लाभम् ॥ ५॥ हन्तुं जनस्य दुरितां त्वरिता त्वमेव निन्ये त्वमेव जिनशासनरक्षणाय । देवि ! त्वमेव पुरुषोत्तममाननीया कामं विभासि विभया सभया त्वमेव ॥ ६॥ तेषां मृगेश्वरगरज्वरमारिवैरिदुर्वार्वारणजलज्वलनोद्भवा भीः । उच्छुरङ्खलं न खलु खेलति येषु धत्से वात्सल्यपल्लवितमम्बकमम्बिके ! त्वम् ॥ ७॥ देवि ! त्वदूर्जितजितप्रतिपन्थितीर्थयात्राविधौ बुधजनाननरङ्गसङ्गि । एतत्वयि स्तुतिनिभाद्भुतकल्पवल्लीहल्लीसकं सकलसङ्घमनोमुदेऽस्तु ॥ ८॥ वरदे ! कल्पवल्लि ! त्वं स्तुतिरूपे ! सरस्वति !। पादाग्रानुगतं भक्तं लम्भयस्वातुलैः फलैः ॥ ९॥ स्तोत्रं श्रोत्ररसायनं श्रुतसरस्वानम्बिकायाः पुर- श्चक्रे गूर्जरचक्रवर्तिसचिवः श्रीवस्तुपालः कविः । प्राप्तः प्रातरधीयमानमनघं यच्चित्तवृत्तिं सता- माधत्ते विभुतां च ताण्डवयति श्रेयःश्रियं पुष्यति ॥ १०॥ इति महामात्यश्रीवस्तुपालविरचिता अम्बिकास्तुतिः सम्पूर्णा ।