अक्षर आकार:

अम्बास्तोत्रम्

Ambastotram

अम्बास्तोत्रम्

ॐ श्रीगणेशाय नमः । अम्ब प्रसीद वरदा भवदुःखहन्त्री कामान्ममाशु परिपूरय कामधेनो । अद्यैव मे रिपुगणा विलयं प्रयान्तु वीर्यं जयं च विपुलं च यशः प्रदेहि ॥ १॥ अम्ब प्रसीद महतीं श्रियमत्र लोके सर्वातिगां वितरतादितरानपेक्षम् । सम्पत्करीं सुखकरीं भवतीमुपास्ते यस्तस्य दुर्लभमिह त्रिदिवेऽपि नास्ति ॥ २॥ अम्ब प्रसीद शतकोटिधरादिदेव- सम्भाविताङ्घ्रियुगळे सकलेष्टदात्रि । यस्मिन्प्रसीदति नाग्भवती भवानी धन्यः स एव जगतां च स एव सेव्यः ॥ ३॥ अम्ब प्रसीद सकृदम्बुजनाभवक्षः- क्रीडागृहे कमलवासिसमाप्तम्नि हेमवर्णे । सम्पत्तिकल्पलतिके त्वदपाङ्गरेखां ब्रह्मादयोऽपि परिगृह्य भवन्ति धन्याः ॥ ४॥ इति अम्बास्तोत्रं सम्पूर्णम् ।