अक्षर आकार:

अम्बापञ्चरत्नस्तोत्रम्

ambApa~ncharatnastotram

अम्बापञ्चरत्नस्तोत्रम्

अम्बाशम्बरवैरितातभगिनी श्रीचन्द्रबिम्बानना बिम्बोष्ठी स्मितभाषिणी शुभकरी कादम्बवाट्याश्रिता । ह्रीङ्काराक्षरमन्त्रमध्यसुभगा श्रोणीनितम्बाङ्किता मामम्बापुरवासिनी भगवती हेरम्बमातावतु ॥ १॥ कल्याणी कमनीयसुन्दरवपुः कात्यायनी कालिका काला श्यामलमेचकद्युतिमती कादित्रिपञ्चाक्षरी । कामाक्षी करुणानिधिः कलिमलारण्यातिदावानला मामम्बापुरवासिनी भगवती हेरम्बमातावतु ॥ २॥ काञ्चीकङ्कणहारकुण्डलवती कोटीकिरीटान्विता कन्दर्पद्युतिकोटिकोटिसदना पीयूषकुम्भस्तना । कौसुम्भारुणकाञ्चनाम्बरवृता कैलासवासप्रिया मामम्बापुरवासिनी भगवती हेरम्बमातावतु ॥ ३॥ या सा शुम्भनिशुम्भदैत्यशमनी या रक्तबीजाशनी या श्री विष्णुसरोजनेत्रभवना या ब्रह्मविद्याऽऽसनी । या देवी मधुकैटभासुररिपुर्या माहिषध्वंसिनी मामम्बापुरवासिनी भगवती हेरम्बमातावतु ॥ ४॥ श्रीविद्या परदेवताऽऽदिजननी दुर्गा जया चण्डिका बाला श्रीत्रिपुरेश्वरी शिवसती श्रीराजराजेश्वरी । श्रीराज्ञी शिवदूतिका श्रुतिनुता श‍ृङ्गारचूडामणिः मामम्बापुरवासिनी भगवती हेरम्बमातावतु ॥ ५॥ अम्बापञ्चकमद्भुतं पठति चेद्यो वा प्रभातेऽनिशं दिव्यैश्वर्यशतायुरुत्तममिदं विद्यां श्रियं शाश्वतम् । लब्ध्वा भूमितले स्वधर्मनिरतां श्रीसुन्दरीं भामिनीं अन्ते स्वर्गफलं लभेत्स विबुधैः संस्तूयमानो नरः ॥ ६॥ इति अम्बापञ्चरत्नस्तोत्रं समाप्तम् ॥