अक्षर आकार:

अकुलवीर तन्त्रम्

akulavIra tantram

अकुलवीर तन्त्रम्

श्रीमच्छन्दपादकेभ्यो नमः । श्रीमीनसहजनन्दं स्वकीयाङ्गसमुद्भवम् । सर्वमाधारगम्भीरमचलं व्यपकं परम् । अथातः सम्प्रवयामि अकुलवीरं महद्भूतम् । गुह्याद् गुह्यतरं गुह्यं सिद्धसद्भावसन्ततिः ॥ १॥ अनग्रहाय लोकानां सिद्धनाथेन भाषितम् । गोपनीयं प्रयत्नेन यदीच्छन् शाश्वतं पदम् ॥ २॥ संसारार्णवमग्नातां भूतानां महदाश्रयम् । यथा नदीनदाः सर्वे सागरे समुपागताः ॥ ३॥ तथा अकुलवीरेषु सर्वधर्मा लयङ्गताः । सर्वाधारमशेषस्य जगतः सर्वदा प्रभुः ॥ ४॥ सहजानन्दं न विन्दन्ति सर्वधर्मसमासृताः । अनानन्तमलैर्ग्रस्ता महामायान्धच्छदिताः ॥ ५॥ शास्त्रजालेन सन्तुष्टा मोहितास्त्यजयन्तिताः (?) । न विन्दन्ति पदं शान्तं कौलानां निष्कलं गुरुम् ॥ ६॥ संवादयन्ति ये केचिन् न्यायवैशेषिकास्तथा । बौधास्तु अरिहन्ता ये सोमसिद्धान्तवादिनः ॥ ७॥ मीमांस पञ्चस्त्रोताश्च वामसिद्धान्तदक्षिणाः । इतिहासपुराणञ्च भूततत्त्वन्तु गारुडम् ॥ ८॥ एभिः शैवागमैः सर्वैः परोक्षञ्च क्रियान्विताइः । सविकल्पसिद्धिर्सञ्चारन्तत् सर्वं पापबन्धवित् ॥ ९॥ विकल्पबहुलाः सर्वैर्मिथ्यावादा निरर्थकाः । न ते मुञ्चन्ति संसारे अकुलवीरविवर्जिताः ॥ १०॥ सर्वज्ञं सर्वमासृत्य सर्वतो हितलक्षणम् । सर्वेषां सिद्धिस्तत्रस्था सर्वसिद्धिञ्च तत्र वै ॥ ११॥ यत्नासौ अकुलवीरो दृश्यते सर्वतोमुखम् । तं विदित्वा परं रूपं मनो निश्चलतां व्रजेत् ॥ १२॥ शब्दरूपरसस्पर्शगन्धञ्चैवात्र पञ्चमम् । सर्वभावाश्च तत्रैव प्रलीणाः प्रलयं गताः ॥ १३॥ भावाभावविनिर्मुक्त उदयास्तमनवर्जितः । स्वभावमतिमतं शान्तं मनो यस्य मनोमयम् ॥ १४॥ अकुलवीरमिति ख्यातं सर्वाधारपापरम् । नाधारलक्षभेदन्तु न नादगोचरे पठेत् ॥ १५॥ हृदि स्थाने न वक्त्रे च घण्टिका तालरन्ध्रके । न इडा पिङ्गला शान्ता न चास्तीति गमागमे ॥ १६॥ न नाभिचक्रकण्ठे च न शिरे नैव मस्तके । तथा चक्षुरुन्मीलने च न नासाग्रनिरीक्षणे ॥ १७॥ न पूरककुम्भके तत्र रेचके [च] तथा पुनः । न बिन्दुभेदके ग्रन्थौ ललाटे न तु वह्निके ॥ १८॥ प्रवेशनिर्गमे नैव नावाहनविसर्जनम् । न करणैर्नासनं मुद्रैर्नमासे भिन्नतालुके ॥ १९॥ न निरोधो न चोद्धारो नातीतां चालनं न हि । न प्रेर्यप्रेरकञ्चैव न स्थानन्नैव चश्रयम् ॥ २०॥ न चात्मनैव तद् ग्राह्यं ग्राह्यातीतपदं भवेत् । एतत् पक्षविर्निर्मुक्तं हेतुदृष्टान्तवर्जितम् ॥ २१॥ न दूरे न च वै निकटे न भरितो न च रिक्तकः । न उन्नोन सोऽधिक एभिः पक्षैर्विवर्जितम् ॥ २२॥ यश्च विंशात्मको ह्येष पुद्गल नास्ति यत्र वै । यत्र लक्षं न विद्येत अकुलवीर स उच्च्यते ॥ २३॥ यस्यैवं संशितं कऽश्चित् समरस संशितः । स ब्रह्मा सो हरिश्चैशः स रुद्रो स च ईश्वरः ॥ २४॥ स शिवः परमदेवः स सोमार्काग्निकस्तथा । स च साङ्ख्यः पुराणाश्च अर्हन्तबुद्ध एव च ॥ २५॥ स्वयं देवी स्वयं देवः स्वयं शिष्यः स्वयं गुरुः । स्वयं ध्यानं स्वयं ध्याता स्वयं सर्वत्र देवता ॥ २६॥ यादृशेन तु भावेन पुरुषो भावयेत् सदा । तादृशां फलमाव्प्नोति नात्र कार्यविचारणात् ॥ २७॥ अस्यैव हि हि नामानि पृथग्भूतानि योगिभिः । अनाम तस्य गियन्ते भ्रान्तिज्ञानविमोहितैः ॥ २८॥ धर्माधर्मसमाक्लिष्टाविकल्पतमश्छादिताः । तेन मुञ्चन्ति संसारं नरकं योनिसङ्कुलम् ॥ २९॥ अकुलवीरं महद्भूतं यदा पश्यन्ति सर्वगम् । स बाह्याभ्यन्तरे नित्यं एकाकारं चराचरम् ॥ ३०॥ निस्तरङ्गं निराभासं पदभेदविवर्जितम् । सर्वावयवनिर्मुक्तं निर्लयं निर्वकारजम् ॥ ३१॥ अदृष्टनिर्गुणं शान्तं तत्त्वातीतं निरञ्जनम् । सर्वज्ञं परिपूर्णञ्च स्वभावश्चैवमक्षयम् ॥ ३२॥ कार्यकारणनिर्मुक्तमचिन्त्यमनामयम् । मायातीतं निरालम्बं व्यापकं सर्वतोमुखम् ॥ ३३॥ समत्वं एकभूतञ्च ऊहापोहविवर्जितम् । अकुलवीरं महद्भूतं अस्तिनास्तिविवर्जितम् ॥ ३४॥ न मनो न च वै बुद्धिर्न चिन्ताचेतनादिकम् । न कालः कलनाशक्तिर्न शिवो न च इन्द्रियः ॥ ३५॥ न भूते गृह्यते सो हि न सुखं दुःखमेव च । न रसो हि न सुखं दुःखमेव च ॥ ३६॥ न रसो विरसश्चैव न कृतो न च जायते । न च्छाय न च तापस्तु न शीतो न च उष्णवान् ॥ ३७॥ न दृश्यते मन स्तत्र उदयास्तमनवर्जितम् । न सीमा दृश्यते तत्र न च तिर्थ्यं न चहिवहि ॥ ३८॥ अद्वैतमचलं शान्तं सङ्गदोषविवर्जितम् । निराकुलं निर्विकल्पञ्च निबद्धञ्च मलक्षणम् ॥ ३९॥ अनाथं सर्वनाथञ्च उन्मनां मदवर्जितम् । अनिगृढमसन्धिञ्च स्थावरं जङ्गमेव च ॥ ४०॥ ज्वलज्वलनभूम्या च आपोञ्चैव तथैव च । सर्वं समरसं पूर्णं अकुलवीरन्तु केवलम् ॥ ४१॥ यस्यैषा सम्।स्थिता मुक्तिः स मुक्तो भवबन्धनात् । न तस्य मातापिता व बान्धवं न च देवता ॥ ४२॥ न यज्ञं नोपवासञ्च न क्रिया वर्णभेदकम् । त्यक्त्वा विकल्पस।घातं अकुलवीरलयं गताः ॥ ४३॥ न जपो नार्चनं स्नानं न होमं नैव साधनम् । अग्निप्रवेशनं नास्ति हेतन्तभृगु नोदनम् ॥ ४४॥ नियमोऽपि न तस्यास्ति नोपवासो विधीयते । पितृकार्यं न करोताति तीर्थयात्राव्रतानि च ॥ ४५॥ धर्माधर्मफलं नास्ति न स्नानं नोदकक्रिया । स्वयं त्यज सर्वकार्याणि लोकाचाराणि यानि च ॥ ४६॥ समयाचारविचारञ्च कृतका बन्धकानि तु । सङ्कल्पञ्च निकल्पञ्च ये चान्ये किल धर्मिणः ॥ ४७॥ भवे योगी निराचारो पशुचारविवर्जितः । सिद्धिश्चविविधाकार पाताले च रसायनम् ॥ ४८॥ प्रत्यक्षञ्च या लब्धं न गृह्नीयात् कदाचन । सर्वञ्च पाशजालञ्च अधोमार्गप्रदायकः ॥ ४९॥ एतेषु मोचना नास्ति अकुलवीरविवर्जिताः । यथा मृताः न जानन्ति स्वादं कटुमधुरस्य तु ॥ ५०॥ तथा अकुलवीरन्तु न जानन्ति स्वभावगम् । यथा मदिरा महान्तस्य कथितं नेवशकृते ॥ ५१॥ रस्यपरमानन्दमतिगुह्यं सुगोपितम् । लोकानां च हितार्थाय सिद्धनाथेन भाषितम् ॥ ५२॥ निर्विकल्पं पदं शान्तं यत्र लीनं परापरम् । मोक्षस्य तन्महास्थानं मन्त्ररूपविवर्जितम् ॥ ५३॥ तत्रैव सृष्टिरूपेण पुनस्तत्र लयं गता । किन्तेन बहुनोक्तेन सर्वबन्धविवर्जितम् ॥ ५४॥ अकुलवीरं यदा लब्धं तदा किं कौलिकैः क्रमैः । लभ्द्वा तु मोक्षसद्भावं अकुलवीरं महापहम् ॥५५॥ कौलमार्गे द्वयो सन्ति कृतका सहजा तथा । कुण्डलि कृतका ज्ञेया सहजा समरस स्थिता ॥ ५६॥ प्रेर्यप्रेरकभावस्था कृतका साऽभिधीयते । ततः स पातयेद् भूमै मुद्रामन्त्रैर्नियोगितैः ॥ ५७॥ आहुते पतने चान्ये कर्णजापेन धूपकैः । एतत् साध्यमिदं तत्त्वं एतद् ध्यानञ्च धारणा ॥ ५८॥ अनेकैः कर्मसङ्घातैः नानामार्गविभावनैः । विकल्पकललोल्लोया उद्भ्रान्ता भ्रान्तचेतसः ॥ ५९॥ हृदि शोकेन सन्तप्ता व्यासङ्गाच्च महाभयैः । हर्षविषादसम्पन्ना शोच्यमाना मुहुर्मुहुः ॥ ६०॥ तावद्भ्रमन्ति संसारे कल्पाकल्पैर्भवार्णवैः । दग्धबीजेषु सम्भूतिर्यथा नैव प्रजायते ॥ ६१॥ मूलछिन्ने यथा वृक्षे न प्ररोहं विद्यते । अकुलवीरगतं भिन्नं नानाभावानुबन्धनैः ॥ ६२॥ न बध्यते यथा विमले रसं विप्रलयं गतम् । तद्वदकुलवीरे च सत्त्वे भ्राभ्राख्य यद्गतः ॥ ६३॥ तिमिरेण यथाच्छन्नमुदितार्कं न पश्यति । अज्ञानमनस्तद्वद् भ्रान्तिजालविमोहिता ॥ ६४॥ अकुले वीरे च सम्प्राप्ते सर्वमेतद्विनिश्यति । दधिमधे यथा सर्पिः काष्ठे चाग्नि स्थितो यथा ॥ ६५॥ पुष्पे गन्धस्तिले तैलं वृक्षे चाया समाश्रिता । मद्यमध्ये यथानन्दं दीपे प्रभा समाश्रिता ॥ ६६॥ पद्ममध्ये च कुण्डल्या अङ्गप्रत्यङ्गमेव च । रक्तार्थाकुलवीरे च तत्सर्वं विनियोजितम् ॥ ६७॥ भावाऽभावादिसम्।युक्तैः प्रत्ययैर्द्दृष्टिगोचरैः । अकुलवीरं न जानन्ति कृतकैर्मोहितात्मनः ॥ ६८॥ पाशजालनिबद्धाश्च महामायविमोहिताः । न जानन्ति पदं शान्तमचिन्त्यं नित्यसम्भवः ॥ ६९॥ सर्वव्यापिभावस्थं स्थानवर्णविवर्जितम् । सर्वभूतस्थितं ह्येकमध्ययं धेयवर्जितम् ॥ ७०॥ स च सर्वगतो भावः स्थिरे पूर्णो निरन्तरे । तत्र मनो विलीनन्तु अचलं भवतन्मयम् ॥ ७१॥ मनोवृद्धिस्तथा चिन्त्यं क्षिप्ता तन्मयतां गता । यथा तिष्ठति तत्त्वस्थः शिवनिष्कलमव्यये ॥ ७२॥ तदा तन्मयतां याति निर्मलं निश्चलं पदम् । अकुलवीरं महद्भुतमेकवीरं च सर्वगम् ॥ ७३॥ दुर्लभं सुरसिद्धानां योगिनीनाञ्च गोचरम् । केचिद् वदन्तीदं धर्ममिदं शास्त्रमिदं तपः ॥ ७४॥ अयं लोकमिमं स्वर्गमिदं साध्यमिदं फलम् । इदं ज्ञानञ्च विज्ञानं शुद्धाशुद्धमिदं परम् ॥ ७५॥ ज्ञेयञ्च तत्त्वकूटञ्च यत्र ध्यानञ्च धारणा । तदासौ योगिनी ह्येकः नान्यस्तु हि द्वितीयकः ॥ ७६॥ अनागतन्तु गतञ्चैव न हच्छेन्न च तिष्ठति । न भूतं न भविष्यञ्च स्थितिप्रलयवर्जितम् ॥ ७७॥ न चाहं प्रचितैर्दोषैः लिप्तते न कदाचन । नाहं कश्चिन्न मे कश्चिन्न बद्धो न च बाधकः ॥ ७८॥ न मुक्ति वै न च न मुक्तमे मोक्षस्य च स्पृहा । गच्छंस्तिष्ठन् स्थपन् जाग्रद्भूञ्जानओ मैथुनेऽपि वा ॥ ७९॥ भयदारिद्रशोकैश्च विविधैर्भक्षणैस्तथा । चिकित्सा नैव कुर्वीत इन्द्रियार्थैः कदाचन ॥ ८०॥ आचरेत् सर्ववर्णैस्तु न तु भक्ष्यं विचारयेत् । एवं स चरते योगी यथारण्ये हुताशनः ॥ ८१॥ पिण्डबधाञ्च नानास्ति अवस्था मुर्खवासनाम् । सोमशून्यस्तथा वह्निप्राणायमवर्जितम् ॥ ८२॥ अप्रमेयनिराभासं धारणाध्यानवर्जितम् । येन जन्मसहस्राणि भक्त्या सम्पूजितो गुरुः ॥ ८३॥ ते लभन्ति महाज्ञानं अकुलवीरन्तु मोक्षदम् । योगिनीराकिणीचक्रे यस्य भक्तिः सुनिश्चला ॥ ८४॥ अकुलवीरं महद्भूतं गम्भीरं गहनामयम् । पिण्डातीतं यदा ज्ञेयमपिण्डं पिण्डवर्जितम् ॥ ८५॥ पदव्यञ्जननिर्मुक्तं विमलं सततोदितम्। तल्लिने तन्मयात्मानं विन्दते श्वाश्वतं पदम् ॥ ८६॥ चितातीतं भवेत् सो हि योगसंयोगवर्जितम् । निर्वाणं वासनाहीनं तृप्तात्म च निरामयः ॥ ८७॥ तेन लब्धा न सन्देहोऽमला मलच्छेदनाः । तस्य प्रवर्त्तते क्षिप्तं तस्यैव सर्वसर्वगम् ॥ ८८॥ वेदसिद्धान्तशास्त्राणि नानाविधानि शिखानि च । तानि सर्वाणि मोहानि कायक्लेशैर्निरर्थकम् ॥ ८९॥ विद्याहञ्ख़ारग्रस्तास्तु गर्विताः कुगतिं गताः । अनर्थेन च सन्तुष्टा बहुग्रन्थार्थचिन्तकाः ॥ ९०॥ अकुलवीरं न विन्दन्ति कृतकैर्मोहितामनः । गर्वितानं कुतो ज्ञानं ग्रन्थकोटिशतैरपि ॥ ९१॥ कर्पूरकुङ्कुमादीनां वस्त्रताम्बूलमेव च । खरवद्भवति तद्भारं सर्वं तस्य निरर्थकम् । अकुलवीरञ्च देहस्थं यदा पश्यति सर्वगम् ॥ ९२॥ धर्माधर्मफलं नास्ति नोदकं तीर्थसेवना । न क्रिया सत्यश्चैवं वा कर्मकाण्डे न भावना ॥ ९३॥ न तस्य कर्मकर्माणि लोकाचाराणि यानि च । चरिताः समयाचारा जनैर्भ्रान्तिविमोहितैः ॥ ९४॥ अकुलवीरं न जानन्ति किं विशिष्टं कुतः स्थितम् । कृतका बन्धना लोके कल्पिताश्च कुपण्डितैः ॥ ९५॥ सम्।कल्पविकल्पञ्च कलाकर्माणि यानि च । सिद्धयो विविधा लोके पातालं च रसायनम् ॥ ९६॥ प्रत्यक्षञ्च यदा लब्धं न विगृह्णीयात् कदाचन । सर्वे ते पाशबद्धाश्च अधोमार्गप्रदायकाः ॥ ९७॥ न चैतैर्मुक्तिः सम्।सारे अकुलं बीरवर्जिताः । यथा मदिरमानन्दं कथितं नैव जायते ॥ ९८॥ तद्वदकुलवीराख्यं स्वसम्।वेद्यनिरोपणम् । न जानन्ति नरा मूढाः सारात् सारतरं परम् ॥ ९९॥ तावद् भ्रान्तिविमुग्धात्मा यावत्तलं न विन्दति । चितातीते यदा योगी स योगी योगचिन्तकः ॥ १००॥ विरक्ता वासना यस्य तृप्तात्म च निरामयः । तावद् भ्रमन्ति मोहात्मा नानाभावानुबन्धनैः ॥ १०१॥ यावत् सममेकत्वं परमानन्दं न विन्दति । मुर्खाणां च यथाशास्त्रं कुमारीसुरतिं यथा ॥ १०२॥ अकुलवीरं विन्दन्ति कथ्यमानैः कुमारिकाः । दिशवेशाविनिर्मुल्तं स्थानवर्णविवर्जितम् ॥ १०३॥ निराकुलं निर्विकल्पं निर्गुणञ्च सुनिर्मलम् । अनाथं सर्वनाथञ्च प्रमादोन्मादवर्जितम् ॥ १०४॥ घननिविडनिसन्धिस्थावरे जङ्गमेषु च । जले ज्वलने तथा पवने भूम्याकाशे तथैव च ॥ १०५॥ सर्वत्र समरसं भरितमकुलवीरन्तु केवलम् । न ज्ञातं येन देहस्थं स मुक्तः सर्वबन्धनात् ॥ १०६॥ न तस्य क्रियाबन्धेन न वेद्यं न च वेदना । न यज्ञो नोपवासश्च न चर्या न क्रियोदयः ॥ १०७॥ न वर्णो वर्णभेदश्च अकुलवीरं यदागतम् । न जापो नार्चानग्नीनां न होमो नैव साधनम् ॥ १०८॥ नाग्निप्रवेशनन्तस्य मन्त्रपूजाचरणोदकम् । नियमाश्च न तस्यास्ति क्षेत्रपीठे च सेवनैः ॥ १०९॥ न क्रिया नार्चनाकाद्यैर्न तीर्थानि व्रतानि च । निरालम्बपदं शान्तं तथातीतं निरञ्जनम् ॥ ११०॥ सर्वज्ञपरिपूर्णञ्च स्वभावेन विलक्ष्यते । कार्यकारणनिर्मुक्तमचिन्तितञ्च अनामयम् ॥ १११॥ मायातीतं निरालम्बं व्यापकं सर्वतोमुखम् । स्वदेहे संस्थितं शान्तमकुलवीरं तदुच्यते ॥ ११२॥ समस्तमेकदाभूतं द्वैताभावविवर्जितम् । अकुलवीरं महद्भूतमस्तिनास्तिविवर्जितम् ॥ ११३॥ मनोबुद्धिचित्तस्तचित्ता नैव स्वचेतना । न कालकलना चैव न शक्तिश्च न चेन्द्रियः ॥ ११४॥ न भूते गृह्यते सो हि न दुःखं सुखमेव च । न रसोऽधिरसश्चैव कृतकं नैव कारकम् ॥ ११५॥ न च्छाया नातपो वह्निर्न च शीतोष्णववेदना । न दिनं रात्रिमित्युक्तमुदयास्तमनवर्जितम् ॥ ११६॥ न मनो दृश्यते तत्र नोर्द्ध्वमध्यं च ज्ञायते । अक्षोभ्यमचलं शान्तमीदृशं तत्त्वनिर्णयम् ॥ ११७॥ यादृशेन तु भावेन पुरुषो भावयेत् सदा । तादृशं फलमाप्नोति नात्र कार्यविचारणात् ॥ ११८॥ एवञ्च कुलसद्भावमवाच्यं परमामृतम् । अगम्यं गम्यते कस्माद् भ्रान्तिज्ञानविहोहिताः ॥ ११९॥ न दूरे न निकटे चैव प्रत्यक्षं न परोक्षता । न भरितो न रिक्तो वा निपुणो नापि चाधिकः ॥ १२०॥ एतत्पक्षविनिर्मुक्तो हेतुदृष्टान्तवर्जितः । कृतकैर्मोहिता मूढाः कर्मकाण्डरतास्तु ये ॥ १२१॥ न तेषां मुक्तिः संसारे नरके योनिसङ्कुले । अकुलवीरं महद्भूतं यदा पश्यति सर्वगम् ॥ १२२॥ सबाह्याभ्यन्तरैकत्वं सर्वत्रैव व्यवस्थितम् । निस्तरङ्गं निराभासं पदच्छेदविवर्जितम् ॥ १२३। सर्वावयवनिर्मुक्तं निर्विकारञ्च निर्मलम् । अदृश्यं निर्गुणं नित्यं निर्णिरोधञ्च निश्चलम् ॥ १२४॥ न ध्यानं धारणा नैव न स्थानं वर्णमेव च । न रेचकं पूरकञ्चैव नरोद्घातञ्च कुम्भकम् ॥ १२५॥ न चान्तमादिमध्यस्थं न सतो वृद्धिरेव च । ग्राह्यग्राहकनिर्मुक्तग्रन्थातीतञ्च यद्भवेत् ॥ १२६॥ एतैः सर्वैर्विनिर्मुक्तं हेतुदृष्टान्तवर्जितम् । सबाह्याभ्यन्तरैकत्वं सर्वत्रैव व्यवस्थितम् ॥ १२७॥ समरसानन्द्ररूपेण एकाकारं चराचरे । ये च ज्ञातं स्वदेहस्थमकुलवीरं महद्भूतम् ॥ १२८॥ यस्या वशं स्थितः कश्चित् समरसं रससंस्थितम् । स ब्रह्मा स हरिश्चैव स रुद्रञ्चैवेश्वरस्तथा ॥ १२९॥ स शिवः शाश्वतो देवः स च सोमार्कशङ्करः । स विशाख्यो मयुराक्षो अर्हन्तो बुधमेव च ॥ १३०॥ स्वयं देवि स्वयं देवः स्वयं शिष्यः स्वयं गुरुः । स्वयं ध्यानं स्वयं ध्याता स्वयं सर्वेश्वरो गुरुः ॥ १३१॥ सर्वज्ञः सर्वमासृत्य सर्वतो हितलक्षणः । सर्वयोगिनी तत्रस्था सर्वे सिद्धाश्च तत्र वै ॥ १३२॥ सर्वं सर्वा^र्थकं चैव सर्वज्ञानश्च तत्र वै । यथासौ महार्थञ्च अकुलवीरमिति स्मृतम् ॥ १३३॥ शब्दः स्पर्शो रसो रूपं गन्धो वद्याणिपम च । सर्वे भीराश्च तत्रैव ये प्रलीनाः प्रलयं गताः ॥ १३४॥ नाधारे ध्येयलक्ष्ये च न नादगोचरे परे । न हृदि नाभिकण्ठे वा वक्त्रे घण्टिकरन्ध्रयोः ॥ १३५॥ न इडा पिङ्गला चैव सुष्मण च गमागमैः । न नाभिचक्रे कण्ठे च न शिरे बिन्दुके तथा ॥ १३६॥ चक्षुकर्णोन्मीलनं नैवं नासिकाग्रनिरीक्षणे । न पूरके कुम्भके चैव रेचके च तथा पुनः ॥ १३७॥ न बिन्दुभेदग्रन्थौ च ललाटे न च चन्द्रमाः । प्रवेशे निर्गमे चैव शिखा ऊर्द्ध्वे न बिन्दुके ॥ १३८॥ न करैर्न सरैर्मुद्रैः नाकाशो वायुमण्डले । न चापे चन्द्रसूर्ये च भावाभावे समागमे ॥ १३९॥ अनौपम्यं निरालम्बं पक्षापक्षविवर्जितम् । अज्ञानमलग्रस्तात्मा महामायविमोहिताः ॥ १४०॥ शास्त्रार्थेन विमुढात्मा मोहिता विदुषो जनाः । न विदन्ति पदं शान्तं कैवल्यं निश्क्रियं गुरुम् ॥ १४१॥ सङ्ख्यादयश्च ये केचित् न्यायवैशेषिकास्तथा । बौद्धारहन्ताश्च ये केचित् सोमसिद्धान्तदक्षिणाः ॥ १४२॥ मीमांसा पञ्चरात्रञ्च वामदक्षिणकौलिकाः । इतिहासपुराणानि भूततत्त्वञ्च गारुडम् ॥ १४३॥ एते चैव समाः सर्वे केचित् वाऽपि क्रियान्विताः । विकल्पसिद्धिदाः सर्वे तद्विदुर्न च पण्डिताः ॥ १४४॥ विकल्पबहलाः सर्वे मिथ्यावादनिरर्थकाः । न ते मुच्यन्ति संसारे अकुलवीरविवर्जिताः ॥ १४५॥ यानि कानि च स्थानानि गिरिर्नगरसागरम् । सर्वत्र संस्थितं नित्यं स्थावरे जङ्गमेषु च ॥ १४६॥ पञ्चभूतात्मकं सर्वे यत् किञ्चित् सचराचरम् । शिवाद्यदेवपर्यन्तं सर्वं तत्रैव संस्थितम् ॥ १४७॥ ईदृशं योगिनं दृष्ट्वा उपसर्पन्ति ये नराः । गन्दैः पुष्पैश्च धूपैश्च खानपानादिभक्षणैः ॥ १४८॥ तर्पयन्ति च ये भक्तास्त्रिविधैश्चैवान्तरात्मना । तेऽपि बन्दैः प्रमुच्यन्ति मुक्तिमार्गी न काड्क्षिणः ॥ १४९॥ ब्रहेन्द्रविष्णुरुद्रञ्च अरहन्ता बुद्धमेव च । विषाख्यो मयूराक्ष ये च ऋषयस्तपोधनाः ॥ १५०॥ देवादिभो नरेन्द्राश्च ये चान्ये मोक्षकाङ्क्षिणः । ते सर्वे मोक्षमिच्छन्ति अकुलवीरन्तु मोक्षदम् ॥ १५१॥ अथान्यं सम्प्रवक्ष्यामि भिन्नावस्थां स्वभागः । पूर्वं यदुक्ता सर्वे अन्वयमार्गे त्वकौलिके ॥ १५२॥ * * * * * * * * * * * * * * * * * नात्र संशयः ॥ १५३॥ न जरास्तेषां न मृत्युश्च न शोको दुःखमेव च । सर्वव्याधिहरश्चैव न पुनर्भवसम्भवः ॥ १५४॥ अकुलवीरं स्थितं दिव्यं सिद्धनाथप्रसादतः । सर्वतः सर्वदा शुद्धः सर्वतः सर्वदा प्रभुः ॥ १५५॥ इति मच्छेन्द्रपादावतारिते कामरूपिस्थाने योगिनीप्रसादाल्लब्धं अकुलवीरं समाप्तम् ।