अक्षर आकार:

अक्षमालास्तुतिः

Akshamalastutih

अक्षमालास्तुतिः

श्रीगायत्रीं त्रयीं विद्यां प्रणम्य परमेश्वरीम् । ``अक्षमाला-स्तुतिं'' दिव्यां करोमि सुखदां सताम् ॥ १॥ अथाऽव्यक्ताऽऽदिशक्तिर्या महादेवीन्दिरेश्वरीम् । उमोर्ध्वकेशी ऋग्वेदा ``ऋ''रूपा ऋद्धिदायिनी ॥ २॥ ऌप्तधर्माऽस्ति ``ऌ''नाम्नी त्वेकाक्षरविहारिणी । ऐन्द्री ह्योङ्काररूपा या चौपासनफलप्रदा ॥ ३॥ अण्डमध्यस्थिता देवी ``अ''कारमनुरूपिणी । षोडशीं लोकपूज्यां तां सर्वदा संस्मराम्यहम् ॥ ४॥ ततो व्यञ्जनवर्णस्थां कमलां खगवाहनाम् । गङ्गां च धर्मदां देवीं ``ङ''क्षरां प्रणमाम्यहम् ॥ ५॥ चण्डिकां सततं वन्दे देवीं छन्दोऽनुगां पराम् । जयन्तीं क्षणनिर्घोषां ``ञ''रूप-वृषवाहनाम् ॥ ६॥ टङ्कवर्णान्वितां दिव्यां ``ठ-ठ''शब्द-निनादिनीम् । डमरूभूषणां देवीं ढक्काहस्तां नमाम्यहम् ॥ ७॥ ``ण''वर्णरूपिणीं दिव्यां तप्तकाञ्चनभूषणाम् । थावरां सततं वन्दे दण्डकारण्यवासिनीम्! ॥ ८॥ धर्मशीलां नदीरूपां परब्रह्मात्मिकां तथा । फलदां बहुनेत्रां च भवानीं प्रणतोऽस्म्यहम् ॥ ९॥ मालिनी तां महामायां पञ्चविंशतिवर्णिकाम् । नत्वा पुनः स्मराम्यत्र यक्षवर्णात्मिकाद्भुताम् ॥ १०॥ यक्षिणां योगमायां तां रामां लक्ष्मीं सुखप्रदाम् । वरदां शारदां दिव्यां षण्मुखीं च सरस्वतीम् ॥ ११॥ हरि-रुद्रप्रियां देवीं क्षमाशीलां नवात्मिकाम् । पञ्चाशद्वर्णरूपां तां स्मरामि सर्वदा शुभाम् ॥ १२॥ यस्य स्मरणमात्रेण प्रसन्नां वर्णमात्रिका । सम्भूयात् सा सदा लोके सर्वमङ्गलकारिणी ॥ १३॥ नेत्रद्वयखयुग्मेऽब्दे श्री द्विजेन्द्रविनिर्मिता । ज्येष्ठमासेऽत्र काश्यां वै प्रोद्गता साऽक्षमालिका ॥ १४॥ इति रत्नमयीं देवीं गायत्रीतुष्टिकारिणीम् । स्तुतिं पठेन्नरो नित्यं ब्रह्मसायुज्यमाप्नुयात् ॥ १५॥ इति श्रीगार्ग्यमुनि द्विजेन्द्रकविकृता अक्षमालास्तुतिः सम्पूर्णा ।