अभीष्टप्रार्थनाष्टकम्
कदा गोष्ठे गोष्ठक्षितिपगृहदेव्या किल तया
सबाष्पं कुर्वत्या विलसति सुते लालनविधिम् ।
मुहुर्दृष्टं रोहिण्यपीहितनिवेशामवनतं
निषेवे ताम्बूलैरहमपि विशाखाप्रियसखीम् ॥ १॥
कदा गान्धर्वायां शुचि विरचयन्त्यां हरिकृते
मुदा हारान्वृन्दैः सह सवयसामात्मसदने ।
विचित्य श्रीहस्ते मणिमिह मुहुः सम्पुटचया-
दहो विन्यस्यन्ती सफलयति सेयं भुजलताम् ॥ २॥
कदा लीलाराज्ये व्रजविपिनरूपे विजयिनी
निजं भाग्यं साक्षादिह विदधती वल्लभतया ।
समन्ताद्क्रीडन्ती पिकमधुपमुख्याभिरभितः
प्रजाभिः सञ्जुष्टा प्रमदयति सा मां मदधिपा ॥ ३॥
कदा कृष्णातीरे त्रिचतुरसखीभिः सममहो
प्रसूनां गुम्फन्तीं रविसखसुतामानततया ।
समेत्य प्रच्छन्नं सपदि परिरिप्सोर्बकरिपो-
र्निषेधे भ्रूभङ्गं भृशमनुभजेऽहम् व्यजनिनी ॥ ४॥
कदा शुभ्रे तस्मिन्पुलिनवलये रासमहसा
सुवर्णाग्गीसङ्घेष्टहमहमिकामत्तमतिषु ।
हरौ याते नीलोत्पलनिकसतां जित्वरगुणा-
द्गुणादस्मान्दिव्यद्रविणमिव राधा मदयति ॥ ५॥
कदा भाण्डीरस्य प्रथितरुचिरोत्सङ्गनिलये
वरामध्यासीनं कुसुममयतूलीमतुलितम् ।
प्रिये चित्रं पत्रं लिखति निहितस्वङ्गलतिकां
विशाखाप्राणालीं भजति दिशती वर्णकमसौ ॥ ६॥
कदा तुङ्गे तुङ्गे रहसि गिरिशृङ्गे व्रततिजा-
न्प्रिये पूर्वा लीला निगमयति संस्तव्य निलयान्।
मदेनाविष्पष्टं सकलितपदं व्रीडिततया
द्रुतमौत्क्येनैषा विरचयति पृच्छां मम पुरः ॥ ७॥
गतिर्यन्मे नित्या यदखिलमपि स्वं सवयसाम्
मदीश्वर्याः प्रेष्ठप्रणयकृतसौभाग्यवरिमा ।
हरेर्यत्प्रेमश्रीर्निवसतिरमुष्यस्तुलनया
सदा तस्मिन्कुण्डे लसतु ललिताली मम दृशी ॥ ८॥
इति श्रीरघुनाथदासगोस्वामिविरचितस्तवावल्यां
अभीष्टप्रार्थनाष्टकम् सम्पूर्णम् ।
सोशल मीडिया पर शेयर करें:
सहेजें एवं डाउनलोड करें (Save & Export):