अक्षर आकार:

श्रीअष्टलक्ष्मीस्तुतिः

shrIaShTalakShmIstutiH

श्रीअष्टलक्ष्मीस्तुतिः

आदिलक्ष्मीः । सुमनोवन्दितसुन्दरि माधवि चन्द्रसहोदरि हेममयि मुनिगणकाङ्क्षितमोक्षप्रदायिनि मञ्जुलभाषिणि वेदनुते । पङ्कजवासिनि देवसुपूजिते सद्गुणवर्षिणि शान्तियुते जय जय हे मधुसूदनकामिनि आदिलक्ष्मि परिपालय माम् ॥ धनलक्ष्मीः । अयि कलिकल्मषनाशिनि कामिनि वैदिकरूपिणि वेदमयि क्षीरसमुद्भवमङ्गलरूपिणि मन्त्रनिवासिनि मन्त्रनुते । मङ्गलदायिनि अम्बुजवासिनि देवगणाश्रितपादयुगे जय जय हे मधुसूदनकामिनि धान्यलक्ष्मि परिपालय माम् ॥ धैर्यलक्ष्मीः । जय वरवर्णिनि वैष्णवि भार्गवि मन्त्रस्वरूपिणि मन्त्रमयि सुरगणविनुते अतिशयफलदे ज्ञानविकासिनि शास्त्रनुते । भवभयहारिणि पापविमोचिनि साधुसमाश्रितपादयुगे जय जय हे मधुसूदनकामिनि धैर्यलक्ष्मि परिपालय माम् ॥ गजलक्ष्मीः । जय जय दुर्गतिनाशिनि कामिनि बहुदे शुभकलहंसगते रथगजतुरगपदादिसमावृतपरिजनमण्डितराजनुते । सुरवरधनपतिपद्मजसेविततापनिवारकपादयुगे जय जय हे मधुसूदनकामिनि गजलक्ष्मि परिपालय माम् ॥ सन्तानलक्ष्मीः । अयि खगवाहे मोहिनि चक्रिणि रागविवर्धिनि सन्मतिदे गुणगणवारिधे लोकहितैषिणि नारदतुम्बुरुगाननुते । सकलसुरासुरदेवमुनीश्वरभूसुरवन्दितपादयुगे जय जय हे मधुसूदनकामिनि सन्तानलक्ष्मि परिपालय माम् ॥ विजयलक्ष्मीः । कमलनिवासिनि सद्गतिदायिनि विज्ञानविकासिनि काममयि अनुदिनमर्चितकुङ्कुमभासुरभूषणशोभि सुगात्रयुते । सुरमुनिसंस्तुतवैभवराजितदीनजानाश्रितमान्यपदे जय जय हे मधुसूदनकामिनि विजयलक्ष्मि परिपालय माम् ॥ ऐश्वर्यलक्ष्मीः । प्रणतसुरेश्वरि भारति भार्गवि शोकविनाशिनि रत्नमयि मणिगणभूषितकर्णविभूषणकान्तिसमावृतहासमुखि । नवनिधिदायिनि कलिमलहारिणि कामितवरदे कल्पलते जय जय हे मधुसूदनकामिनि ऐश्वर्यलक्ष्मि परिपालय माम् ॥ धनलक्ष्मीः । धिमिधिमिधिन्धिमिदुन्दुमदुमदुमदुन्दुभिनादविनोदरते बम्बम्बों बम्बम्बों प्रणवोच्चारशङ्खनिनादयुते । वेदपुराणस्मृतिगणदर्शितसत्पदसज्जनशुभफलदे जय जय हे मधुसूदनकामिनि धनलक्ष्मि परिपालय माम् ॥ इति श्रीअष्टलक्ष्मीस्तुतिः सम्पूर्णा ।