अक्षर आकार:

श्रीअष्टलक्ष्मीमन्त्रसिद्धिविधानम्

shrIaShTalakShmImantrasiddhividhAnam

श्रीअष्टलक्ष्मीमन्त्रसिद्धिविधानम्

आदौ श्रीरमानाथध्यानं श्रीवत्सवक्षसं विष्णुं चक्रशङ्खसमन्वितम् । वामोरुविलसल्लक्ष्म्याऽऽलिङ्गितं पीतवाससम् ॥ सुस्थिरं दक्षिणं पादं वामपादं तु कुञ्जितम् । दक्षिणं हस्तमभयं वामं चालिङ्गितश्रियम् ॥ शिखिपीताम्बरधरं हेमयज्ञोपवीतिनम् । एवं ध्यायेद्रमानाथं पश्चात्पूजां समाचरेत् ॥ ऋषिः - छन्दः - देवता - विनियोगः अस्य श्रीअष्टलक्ष्मीमहामन्त्रस्य - दक्षप्रजापतिः ऋषिः - गायत्री छन्दः - महालक्ष्मीर्देवता - श्रीं बीजं - ह्रीं शक्तिः - नमः कीलकं - श्रीमहालक्ष्मीप्रसादेन अष्टैश्वर्यप्राप्तिद्वारा मनोवाक्कायसिद्ध्यर्थे जपे विनियोगः ॥ करन्यासः श्रीं ह्रीं श्रीं कमले श्रीं ह्रीं श्रीं अङ्गुष्टाभ्यां नमः । श्रीं ह्रीं श्रीं कमलालये श्रीं ह्रीं श्रीं तर्जनीभ्यां नम ॥ श्रीं ह्रीं श्रीं प्रसीद श्रीं ह्रीं श्रीं मध्यमाभ्यां नमः । श्रीं ह्रीं श्रीं प्रसीद श्रीं ह्रीं श्रीं अनामिकाभ्यां नमः । श्रीं ह्रीं श्रीं महालक्ष्म्यै श्रीं ह्रीं श्रीं कनिष्ठिकाभ्यां नमः । श्रीं ह्रीं श्रीं नमः श्रीं ह्रीं श्रीं करतलकरपृष्ठाभ्यां नमः ॥ हृदयादि न्यासः श्रीं ह्रीं श्रीं कमले श्रीं ह्रीं श्रीं हृदयाय नमः । श्रीं ह्रीं श्रीं कमलालये श्रीं ह्रीं श्रीं शिरसे स्वाहा । श्रीं ह्रीं श्रीं प्रसीद श्रीं ह्रीं श्रीं शिखायै वषट् । श्रीं ह्रीं श्रीं प्रसीद श्रीं ह्रीं श्रीं कवचाय हुम् । श्रीं ह्रीं श्रीं महालक्ष्म्यै श्रीं ह्रीं श्रीं नेत्रत्रयाय वौषट् । श्रीं ह्रीं श्रीं नमः श्रीं ह्रीं श्रीं अस्त्राय फट् । भूर्भुवस्सुवरोमिति दिग्बन्धः ॥ ध्यानम् - वन्दे लक्ष्मीं वरशशिमयीं शुद्धजाम्बूनदाभां तेजोरूपां कनकवसनां सर्वभूषोज्ज्वलाङ्गीम् । बीजापूरं कनककलशं हेमपद्मे दधानां आद्यां शक्तिं सकलजननीं विष्णुवामाङ्कसंस्थाम् ॥ पूजा ॐ श्रीं ह्रीं क्लीं ऐं सौः जगत्प्रसूत्यै महालक्ष्म्यै ॐ - लं पृथ्वीतत्त्वात्मकं गन्धं समर्पयामि नमः । ॐ श्रीं ह्रीं क्लीं ऐं सौः जगत्प्रसूत्यै महालक्ष्म्यै ॐ - हं आकाशतत्त्वात्मकं पुष्पं समर्पयामि नमः । ॐ श्रीं ह्रीं क्लीं ऐं सौः जगत्प्रसूत्यै महालक्ष्म्यै ॐ - यं वायुतत्त्वात्मकं धूपमाघ्रापयामि नमः । ॐ श्रीं ह्रीं क्लीं ऐं सौः जगत्प्रसूत्यै महालक्ष्म्यै ॐ - रं वह्नितत्त्वात्मकं दीपं दर्शयामि नमः । ॐ श्रीं ह्रीं क्लीं ऐं सौः जगत्प्रसूत्यै महालक्ष्म्यै ॐ - वं अमृततत्त्वात्मकं नैवेद्यं समर्पयामि नमः । ॐ श्रीं ह्रीं क्लीं ऐं सौः जगत्प्रसूत्यै महालक्ष्म्यै ॐ - सं सर्वतत्त्वात्मकं सर्वोपचारपूजां समर्पयामि नमः । अष्टनामार्चना ॐ आदिलक्ष्म्यै नमः । ॐ सन्तानलक्ष्म्यै नमः । ॐ गजलक्ष्म्यै नमः । ॐ धनलक्ष्म्यै नमः । ॐ धान्यलक्ष्म्यै नमः । ॐ विजयलक्ष्म्यै नमः । ॐ वीरलक्ष्म्यै नमः । ॐ ऐश्वर्यलक्ष्म्यै नमः । षोडश मातृकार्चना अं कामाकर्षिण्यै नमः । आं बुद्ध्याकर्षिण्यै नमः । इं अहङ्काराकर्षिण्यै नमः । ईं शब्दाकर्षिण्यै नमः । उं स्पर्शाकर्षिण्यै नमः । ऊं रूपाकर्षिण्यै नमः । ऋं रसाकर्षिण्यै नमः । ॠं गन्धाकर्षिण्यै नमः । ऌं चित्ताकर्षिण्यै नमः । ॡं धैर्याकर्षिण्यै नमः । एं स्मृत्याकर्षिण्ये नमः । ऐं नामाकर्षिण्ये नमः । ॐ बीजाकर्षिण्ये नमः । औं आत्माकर्षिण्ये नमः । अं अमृताकर्षिण्ये नमः । अः शरीराकर्षिण्यै नमः । कुम्भादि कुम्भगोप्त्री त्वं गृहाणास्मत्कृतं जपम् । सिद्धिर्भवतु मे देवि त्वत्प्रसादान्मयि स्थिरा ॥ जपप्रकारम् गुरु प्रार्थना - ॐ नमः श्रीगुरुदेवाय परमपुरुषाय नमः । अष्टैश्वर्यलक्ष्मी देवताः । वशीकराय सर्वारिष्टविनाशनाय त्रैलोक्यवशायै स्वाहा ॥ मूलमन्त्रम् । १ ॐ श्रीं ह्रीं श्रीं कमले कमलालये प्रसीद प्रसीद श्रीं ह्रीं श्रीं ॐ महालक्ष्म्यै नमः । २ ॐ श्रीं ह्रीं क्लीं ऐं सौः जगत्प्रसूत्यै स्वाहा । ३ ॐ श्रीं ह्रीं ऐं महालक्ष्म्यै कमलधारिण्ये सिम्हवाहिन्यै स्वाहा । वैदिकमन्त्रम् महादेव्यै च विद्महे विष्णुपत्न्यै च धीमहि । तन्नो लक्ष्मीः प्रचोदयात् ॥ महालक्ष्मि नमस्तुभ्यं नमस्तुभ्यं सुरेश्वरि । हरिप्रिये नमस्तुभ्यं नमस्तुभ्यं दयानिधे ॥ पद्मासने पद्मकरे सर्वलोकैकपूजिते । सान्निध्यं कुरु मे चित्ते विष्णुवक्षस्थलालये ॥ भगवद्दक्षिणे पार्श्वे ध्यायेच्छ्रियमवस्थिताम् । ईश्वरीं सर्वभूतानां जननीं सर्वदेहिनाम् ॥ इति श्रीअष्टलक्ष्मीमन्त्रसिद्धिविधानं सम्पूर्णम् ।