अक्षर आकार:

श्रीअष्टलक्ष्मीमहामन्त्रम्

shrIaShTalakShmImahAmantram

श्रीअष्टलक्ष्मीमहामन्त्रम्

(ऋषिः - छन्दः - देवता - ध्यान सहितम्) श्रीलक्ष्मीनारायणः अस्य श्रीरमानाथमहामन्त्रस्य - नारायण ऋषिः - विराट् छन्दः - लक्ष्मीनारायणो देवता - अं बीजं - उं शक्तिः - मं कीलकं - अस्य श्रीलक्ष्मीनारायणप्रसादसिद्ध्यर्थे जपे विनियोगः । ॐ अङ्गुष्टाभ्यां नमः ॐ नं तर्जनीभ्यां नमः ॐ रं मध्यमाभ्यां नमः ॐ यं अनामिकाभ्यां नमः ॐ णं कनिष्ठिकाभ्यां नमः ॐ यं करतलकरपृष्ठाभ्यां नमः ॐ हृदयाय नमः ॐ नं शिरसे स्वाहा ॐ रं शिखायै वषट् ॐ यं कवचाय हुं ॐ णं नेत्राभ्यां वौषट् ॐ यं अस्त्राय फट् ॐ भूर्भुवस्युवरोमिति दिग्बन्धः ॥ ध्यानम् श्रीवत्सवक्षसं विष्णुं चक्रशङ्खसमन्वितम् । वामोरुविलसल्लक्ष्म्याऽऽलिङ्गितं पीतवाससम् ॥ सुस्थिरं दक्षिणं पादं वामपादं तु कुञ्जितम् । दक्षिणं हस्तमभयं वामं चालिङ्गितश्रियम् ॥ शिखिपीताम्बरधरं हेमयज्ञोपवीतिनम् । एवं ध्यायेद्रमानाथं पश्चात्पूजां समाचरेत् ॥ मूलमन्त्रम् - ॐ नमो नारायणाय । श्री आदिलक्ष्मीः अस्य श्री आदिलक्ष्मीमहामन्त्रस्य - भार्गव ऋषिः - अनुष्टुबादि नाना छन्दांसि - श्री आदिलक्ष्मीर्देवता - श्रीं बीजं - ह्रीं शक्तिः - ऐं कीलकं - श्रीमदादि महालक्ष्मीप्रसादसिद्ध्यर्थे जपे विनियोगः । ॐ श्रीं अङ्गुष्ठाभ्यां नम ॐ ह्रीं तर्जनीभ्यां नमः ॐ ऐं मध्यमाभ्यां नम ॐ श्रीं अनामिकाभ्यां नमः ॐ ह्रीं कनिष्ठिकाभ्यां नमः ॐ ऐं करतलकरपृष्ठाभ्यां नमः ॐ श्रीं हृदयाय नमः ॐ ह्रीं शिरसे स्वाहा ॐ ऐं शिखायै वषट् ॐ श्रीं कवचाय हुं ॐ ह्रीं नेत्राभ्यां वौषट् ॐ ऐं अस्त्राय फट् ॐ भूर्भुवस्युवरोमिति दिग्बन्धः ॥ ध्यानम् द्विभुजां च द्विनेत्रां च साभयां वरदान्विताम् । पुष्पमालाधरां देवीं अम्बुजासनसंस्थिताम् ॥ पुष्पतोरणसम्युक्तां प्रभामण्डलमण्डिताम् । सर्वलक्षणसम्युक्तां सर्वाभरणभूषिताम् ॥ पीताम्बरधरां देवीं मकुटीचारुबन्धनाम् । सौन्दर्यनिलयां शक्तिं आदिलक्ष्मीमहं भजे ॥ मूलमन्त्रं - ॐ श्रीं आदिलक्ष्म्यै नमः । श्रीसन्तानलक्ष्मी अस्य श्रीसन्तानलक्ष्मीमहामन्त्रस्य - भृगु ऋषिः - निचृत् छन्दः - श्रीसन्तानलक्ष्मीः देवता - श्रीं बीजं - ह्रीं शक्तिः - क्लीं कीलकं - अस्य श्रीसन्तानलक्ष्मीप्रसादसिद्ध्यर्थे जपे विनियोगः । ॐ स्रां अङ्गुष्टाभ्यां नमः ॐ स्रीं तर्जनीभ्यां नमः ॐ स्रूं मध्यमाभ्यां नमः ॐ स्रैं अनामिकाभ्यां नमः ॐ स्रौं कनिष्ठिकाभ्यां नमः ॐ स्रः करतलकरपृष्ठाभ्यां नमः ॐ स्रां हृदयाय नमः ॐ स्रीं शिरसे स्वाहा ॐ स्रूं शिखायै वषट् ॐ स्रैं कवचाय हुं ॐ स्रौं नेत्राभ्यां वौषट् ॐ स्रः अस्त्राय पट् ॐ भूर्भुवस्सुवरोमिति दिग्बन्धः ॥ ध्यानम् जटामकुटसम्युक्तां स्थिरासन्समन्विताम् । अभयं कटकञ्चैव पूर्णकुम्भं करद्वये ॥ कञ्चुकं सन्नवीतञ्च मौक्तिकञ्चापि धारिणीम् । दीपचामरहस्ताभिः सेवितां पार्श्वयोर्द्वयोः ॥ बालसेनानिसङ्काशां करुणापूरिताननाम् । महाराज्ञीं च सन्तानलक्ष्मीमिष्टार्थसिद्धये ॥ मूलमन्त्रम् - ॐ श्रीं सन्तानलक्ष्म्यै नमः । श्रीगजलक्ष्मीः अस्य श्रीगजलक्ष्मीमहामन्त्रस्य - शुक्र ऋषिः - अनुष्टुप् छन्दः - गजलक्ष्मीः देवता - कं बीजं - मं शक्तिः - लं कीलकं - श्रीगजलक्ष्मीप्रसादसिद्ध्यर्थे जपे विनियोगः । ॐ क्रां अङ्गुष्ठाभ्यां नमः । ॐ क्रीं तर्जनीभ्यां नमः । ॐ क्रूं मध्यमाभ्यां नमः । ॐ क्रैं अनामिकाभ्यां नमः । ॐ क्रौं कनिष्ठिकाभ्यां नमः । ॐ क्रः करतलकरपृष्ठाभ्यां नमः ॥ ॐ क्रां हृदयाय नमः । ॐ क्रीं शिरसे स्वाहा । ॐ क्रूं शिखायै वषट् । ॐ क्रैं कवचाय हुं । ॐ क्रौं नेत्राभ्यां वौषट् । ॐ क्रः अस्त्राय पट् । ॐ भूर्भुवस्सुवरोमिति दिग्बन्धः ॥ ध्यानम् । चतुर्भुजां महालक्ष्मीं गजयुग्मसुपूजिताम् । पद्मपत्राभनयनां वराभयकरोज्ज्वलाम् ॥ ऊर्ध्वं करद्वये चाब्जं दधतीं शुक्लवस्त्रकम् । पद्मासने सुखासीनां गजलक्ष्मीमहं भजे ॥ मूलमन्त्रं - ॐ श्रीं गजलक्ष्म्यै नमः । श्रीधनलक्ष्मीः अस्य श्रीधनलक्ष्मीमहामन्त्रस्य - परब्रह्म ऋषिः - अनुष्टुप्छन्दः - श्रीधनलक्ष्मीः देवता - लं बीजं - धं शक्तिः - मं कीलकं - श्रीधनलक्ष्मीप्रसादसिद्ध्यर्थे जपे विनियोगः । ॐ त्रां अङ्गुष्ठाभ्यां नमः ॐ त्रीं तर्जनीभ्यां नमः ॐ त्रूं मध्यमाभ्यां नमः ॐ त्रैं अनामिकाभ्यां नमः ॐ त्रौं कनिष्ठिकाभ्यां नमः ॐ त्रः करतलकरपृष्ठाभ्यां नमः ॐ त्रां हृदयाय नमः ॐ त्रीं शिरसे स्वाहा ॐ त्रूं शिखायै वषट् ॐ त्रैं कवचाय हुं ॐ त्रौं नेत्राभ्यां वौषट् ॐ त्रः अस्त्राय फट् ॐ भूर्भुवस्सुवरोमिति दिग्बन्धः ॥ ध्यानम् किरीटमुकुटोपेतां स्वर्णवर्णसमन्विताम् । सर्वाभरणसम्युक्तां सुखासनसमन्विताम् ॥ परिपूर्णञ्च कुम्भञ्च दक्षिणेन करेण तु । चक्रं बाणञ्च ताम्बूलं तदा वामकरेण तु ॥ शङ्खं पद्मञ्च चापञ्च कुण्डिकामपि धारिणीम् । सकञ्चुकस्तनीं ध्यायेत् धनलक्ष्मीं मनोहराम् ॥ मूलमन्त्रम् - ॐ श्रीं धनलक्ष्म्यै नमः । श्रीधान्यलक्ष्मीः अस्य श्रीधान्यलक्ष्मीमहामन्त्रस्य - परब्रह्म ऋषिः - अनुष्टुप्छन्दः - श्री धान्यलक्ष्मीः देवता - धं बीजं - लं शक्तिः - मं कीलकं - श्रीधान्यलक्ष्मीप्रसादसिद्ध्यर्थे जपे विनियोगः । ॐ द्रां अङ्गुष्टाभ्यां नमः । ॐ द्रीं तर्जनीभ्यां नमः । ॐ द्रूं मध्यमाभ्यां नमः । ॐ द्रैं अनामिकाभ्यां नमः । ॐ द्रौं कनिष्ठिकाभ्यां नमः । ॐ द्रः करतलकरपृष्ठाभ्यां नमः ॥ ॐ द्रां हृदयाय नमः । ॐ द्रीं शिरसे स्वाहा । ॐ द्रूं शिखायै वषट् । ॐ द्रैं कवचाय हुं । ॐ द्रौं नेत्राभ्यां वौषट् । ॐ द्रः अस्त्राय फट् । ॐ भूर्भुवस्सुवरोमिति दिग्बन्धः ॥ ध्यानम् । वरदाभयसम्युक्तां किरीटमकुटोज्ज्वलाम् । अम्बुजञ्चेक्षुशालिञ्च कदम्बफलद्रोणिकाम् ॥ पङ्कजञ्चाष्टहस्तेषु दधानां शुक्लरूपिणीम् । कृपामूर्तिं जटाजूटां सुखासनसमन्विताम् ॥ सर्वालङ्कारसम्युक्तां सर्वाभरणभूषिताम् । मदमत्तां मनोहारिरूपां धान्यश्रियं भजे ॥ मूलमन्त्रम् - ॐ श्रीं धान्यलक्ष्म्यै नमः । श्रीविजयलक्ष्मीः । अस्य श्रीविजयलक्ष्मीमहामन्त्रस्य - नारद ऋषिः - नाना छन्दांसि - श्रीविजयलक्ष्मीः देवता - लं बीजं - क्षं शक्तिः - यं कीलकं - सर्वकार्यसिद्धिद्वारा श्रीविजयलक्ष्मीप्रसादसिद्ध्यर्थे जपे विनियोगः । ॐ व्रां अङ्गुष्ठाभ्यां नमः । ॐ व्रीं तर्जनीभ्यां नमः । ॐ व्रूं मध्यमाभ्यां नमः । ॐ व्रैं अनामिकाभ्यां नमः । ॐ व्रौं कनिष्ठिकाभ्यां नमः । ॐ व्रः करतलकरपृष्ठाभ्यां नमः ॥ ॐ व्रां हृदयाय नमः । ॐ व्रीं शिरसे स्वाहा । ॐ व्रूं शिखायै वषट् । ॐ व्रैं कवचाय हुं । ॐ व्रौं नेत्राभ्यां वौषट् । ॐ व्रः अस्त्राय फट् । ॐ भूर्भुवस्युवरोमिति दिग्बन्धः ॥ ध्यानम् । अष्टबाहुयुतां देवीं सिम्हासनवरस्थिताम् । सखासनां सुकेशीञ्च किरीटमुकुटोज्ज्वलाम् ॥ श्यामाङ्गीं कोमलाकारां सर्वाभरणभूषिताम् । खड्गं पाशं तदा चक्रमभयं सव्यहस्तके ॥ खेटकञ्चाङ्कुशं शङ्खं वरदं वामहस्तके । राजरूपधरां शक्तिं प्रभासौन्दर्यशोभिताम् ॥ हंसारूढां स्मरेद्देवीं विजयां विजयप्रदे ॥ मूल्मन्त्रं - ॐ श्रीं विजयलक्ष्म्यै नमः । श्रीधैर्य(वीर)लक्ष्मीः अस्य श्रीवीरलक्ष्मीमहामन्त्रस्य - नारद ऋषिः - तृष्टुप्छन्दः - श्रीवीरलक्ष्मीः देवता - लं बीजं - रं शक्तिः - लं कीलकं - आरोग्यभाग्यसिद्धिद्वारा श्रीवीरलक्ष्मीप्रसादसिद्ध्यर्थे जपे विनियोगः । ॐ व्रां अङ्गुष्ठाभ्यां नमः । ॐ व्रीं तर्जनीभ्यां नमः । ॐ व्रूं मध्यमाभ्यां नमः । ॐ व्रैं अनामिकाभ्यां नमः । ॐ व्रौं कनिष्ठिकाभ्यां नमः । ॐ व्रः करतलकरपृष्ठाभ्यां नमः ॥ ॐ व्रां हृदयाय नमः । ॐ व्रीं शिरसे स्वाहा । ॐ व्रूं शिखायै वषट् । ॐ व्रैं कवचाय हुं । ॐ व्रौं नेत्राभ्यां वौषट् । ॐ व्रः अस्त्राय फट् । ॐ भूर्भुवस्युवरोमिति दिग्बन्धः ॥ ध्यानम् । अष्टबाहुयुतां लक्ष्मीं सिम्हासनवरस्थिताम् । तप्तकाञ्चनसङ्काशां किरीटमकुटोज्ज्वलाम् ॥ स्वर्णकञ्चुकसंयुक्तां सन्नवीततरां शुभाम् । अभयं वरदं चैव भुजयोः सव्यवामयोः ॥ चक्रं शूलञ्च बाणञ्च शङ्खं चापं कपालकम् । दधतीं धैर्यलक्ष्मीं च नवतालात्मिकां भजे ॥ मूलमन्त्रम् - ॐ श्रीं वीरलक्ष्म्यै नमः । श्री ऐश्वर्य(महा)लक्ष्मीः अस्य श्रीमहालक्ष्मीमहामन्त्रस्य - ब्रह्मा ऋषिः - जगती छन्दः - श्रीमहालक्ष्मीः देवता - ह्रां बीजं - ह्रीं शक्तिः - ह्रूं कीलकं - श्रीमहालक्ष्मीप्रसादसिद्ध्यर्थे जपे विनियोगः । ॐ क्ष्रां अङ्गुष्टाभ्यां नमः । ॐ क्ष्रीं तर्जनीभ्यां नमः । ॐ क्ष्रूं मध्यमाभ्यां नमः । ॐ क्ष्रैं अनामिकाभ्यां नमः । ॐ क्ष्रौं कनिष्ठिकाभ्यां नमः । ॐ क्ष्रः करतलकरपृष्ठाभ्यांनमः ॥ ॐ क्ष्रां हृदयाय नमः । ॐ क्ष्रीं शिरसे स्वाहा । ॐ क्ष्रूं शिखायै वषट् । ॐ क्ष्रैं कवचाय हुं । ॐ क्ष्रौं नेत्राभ्यां वौषट् । ॐ क्ष्रः अस्त्राय फट् । ॐ भूर्भुवस्युवरोमिति दिग्बन्धः ॥ ध्यानम् । चतुर्भुजां द्विनेत्राञ्च वराभयकरान्विताम् । अब्जद्वयकराम्भोजां अम्बुजासनसंस्थिताम् ॥ ससुवर्णघटोराभ्यां प्लाव्यमानां महाश्रियम् । सर्वाभरणशोभाढ्यां शुभ्रवस्त्रोत्तरीयकाम् ॥ चामरग्रहनारीभिः सेवितां पार्श्वयोर्द्वयोः । आपादलम्बिवसनां करण्डमकुटां भजे ॥ मूलमन्त्रम् - अं श्रीं श्रीमहालक्ष्म्यै नमः ॥ इति श्रीअष्टलक्ष्मीमहामन्त्रं सम्पूर्णम् ।