अक्षर आकार:

श्रीऊर्ध्वपुण्ड्राणां नारायणादि नामद्वादशस्थानानि

Shri UrdhvapundrAnam Narayanadi NAmadvadashasthanAni

श्रीऊर्ध्वपुण्ड्राणां नारायणादि नामद्वादशस्थानानि

श्रीरङ्गे द्वारकायां च श्रीकूर्मे च तथा स्थितः । सिंहाद्रौ च हिमाद्रौ च प्रयागे तुलसीवने ॥ १॥ गृहीत्वा मृत्तिकां भक्त्या विष्णुपादजलैः सह । गायत्रीमूलमन्त्राभ्यां त्रिवारमभिमन्त्र्य च ॥ २॥ धृत्वा पुण्ड्राणि चाङ्गेषु विष्णुसायुज्यमाप्नुयात् । ललाटे केशवं ध्यायेन्नारायणमथोदरे ॥ ३॥ वक्षःस्थले माधवञ्च गोविन्दं कण्ठकूबरे । विष्णुञ्च दक्षिणे कुक्षौ बाहौ च मधुसूदनम् ॥ ४॥ त्रिविक्रमं कन्धरेतु वामनं वामपार्श्वके । श्रीधरं वामबाहौ तु हृषीकेशं तु कन्धरे ॥ ५॥ पृष्ठे तु पद्मनाभः स्यात्रिके दामोदरं न्यसेत् । तत्प्रक्षालनतोयेन वासुदेवेति मूर्धनि ॥ ६॥ तत्तपुण्ड्राणि तन्मूर्तिं ध्यात्वा मन्त्रेण धारयेत् ॥ ७॥ इति श्रीऊर्ध्वपुण्ड्राणां नारायणादिनामद्वादशस्थानानि समाप्तिमगुः ॥ UrdhvapuNDramantraH : The vertical line separator below indicates column separation. कोष्टकः - mantra . chUrNamantra . place . number sequence of name . times the finger needs to touch the place as mentioned in श्रीस्वधर्माबोधे श्रीयुगलतिलक मन्त्रःसङ्क्षेपतः ऊर्ध्वपुण्ड्रमन्त्रः । श्रीचूर्णमन्त्रः । स्थानानि । नं.। अं. प्र. ॐ केशवाय नमः । श्रियै नमः । ललाटे । १। ४ ॐ नारायणाय नमः । अमृतोद्भवाय नमः । उदरे । २। १० ॐ माधवाय नम । कमलायै नमः । वक्षस्थले । ३। ८ ॐ गोविन्दाय नमः । चन्द्रलोदर्यै नमः । कण्ठे । ४। ४ ॐ विष्णवे नमः । विष्णुपत्न्यै नमः । दक्षिणपार्श्वे । ५। १० ॐ मधुसूदनाय नमः । वैष्णव्यै नमः । दक्षिणबाहौ । ६। ८ ॐ त्रिविक्रमाय नमः । वरारोहायै नमः । दक्षिणकण्ठे । ७। ४ ॐ वामनाय नमः । हरिवल्लभायै नमः । वामपार्श्वे । ८। १० ॐ श्रीधराय नमः । शार्ङ्गिण्यै नमः । वामबाहौ । ९। ८ ॐ हृषीकेशाय नमः । देवदेविकायै नमः । वामकण्ठे । १०। ४ ॐ पद्मनाभाय नमः । सुरसुन्दर्यै नमः । पृष्ठे । ११। ४ ॐ दामोदराय नमः । महालक्ष्म्यै नमः । कण्ठपृष्ठे । १२। ४ इति श्री द्वादश ऊर्ध्वपुण्ड्रमन्त्राः सम्पूर्णतामागुः ॥ श्री राधाकृष्णार्पणमस्तु ॥ From shrI sarasa stotrasangrahaH (Lucknow, 1909).