अक्षर आकार:

श्रीषोडशी त्रिपुरसुन्दरी ध्यानम्

shrIShoDashI tripurasundarI dhyAnam

श्रीषोडशी त्रिपुरसुन्दरी ध्यानम्

१. बालार्कमण्डलाभासां चतुर्बाहां त्रिलोचनाम् । पाशाङ्कुशशरांश्चापं धारयन्तीं शिवां भजे ॥ २. बालार्कायुततेजसं त्रिनयनां रक्ताम्बरोल्लासिनीम् । नानालङ्कृतिराजमानवपुषं बालोडुराट्शेखराम् ॥ हस्तैरिक्षुधनुः सृणिं सुमशरं पाशं सदा बिभ्रतीम् । श्रीचक्रस्थितसुन्दरीं त्रिजगतामाधारभूतां भजे ॥ इति श्रीषोडशी त्रिपुरसुन्दरी ध्यानम् ॥