अक्षर आकार:

श्रीषोडशीशतनामस्तोत्रम्

shrIShoDashIshatanAmastotram

श्रीषोडशीशतनामस्तोत्रम्

भृगुरुवाच - चतुर्वक्त्र जगन्नाथ स्तोत्रं वद मयि प्रभो । यस्यानुष्ठानमात्रेण नरो भक्तिमवाप्नुयात् ॥ १॥ ब्रह्मोवाच - सहस्रनाम्नामाकृष्य नाम्नामष्टोत्तरं शतम् । गुह्याद्गुह्यतरं गुह्यं सुन्दर्याः परिकीर्तितम् ॥ २॥ अस्य श्रीषोडश्यष्टोत्तरशतनामस्तोत्रस्य शम्भुरृषिः अनुष्टुप् छन्दः श्रीषोडशी देवता धर्मार्थकाममोक्षसिद्धये विनियोगः ॥ ॐ त्रिपुरा षोडशी माता त्र्यक्षरा त्रितया त्रयी । सुन्दरी सुमुखी सेव्या सामवेदपरायणा ॥ ३॥ शारदा शब्दनिलया सागरा सरिदम्बरा । शुद्धा शुद्धतनुस्साध्वी शिवध्यानपरायणा ॥ ४॥ स्वामिनी शम्भुवनिता शाम्भवी च सरस्वती । समुद्रमथिनी शीघ्रगामिनी शीघ्रसिद्धिदा ॥ ५॥ साधुसेव्या साधुगम्या साधुसन्तुष्टमानसा । खट्वाङ्गधारिणी खर्वा खड्गखर्परधारिणी ॥ ६॥ षड्वर्गभावरहिता षड्वर्गपरिचारिका । षड्वर्गा च षडङ्गा च षोढा षोडशवार्षिकी ॥ ७॥ क्रतुरूपा क्रतुमयी ऋभुक्षक्रतुमण्डिता । कवर्गादि पवर्गान्ता अन्तस्थानन्तरूपिणी ॥ ८॥ अकाराकाररहिता कालमृत्युजरापहा । तन्वी तत्त्वेश्वरी तारा त्रिवर्षा ज्ञानरूपिणी ॥ ९॥ काली कराली कामेशी छाया संज्ञाप्यरुन्धती । निर्विकल्पा महावेगा महोत्साहा महोदरी ॥ १०॥ मेघा बलाका विमला विमलज्ञानदायिनी । गौरी वसुन्धरा गोप्त्री गवाम्पतिनिषेविता ॥ ११॥ भगाङ्गा भगरूपा च भक्तिभावपरायणा । छिन्नमस्ता महाधूमा तथा धूम्रविभूषणा ॥ १२॥ धर्मकर्मादि रहिता धर्मकर्मपरायणा । सीता मातङ्गिनी मेधा मधुदैत्यविनाशिनी ॥ १३॥ भैरवी भुवना माताऽभयदा भवसुन्दरी । भावुका बगला कृत्या बाला त्रिपुरसुन्दरी ॥ १४॥ रोहिणी रेवती रम्या रम्भा रावणवन्दिता । शतयज्ञमयी सत्त्वा शतक्रतुवरप्रदा ॥ १५॥ शतचन्द्रानना देवी सहस्रादित्यसन्निभा । सोमसूर्याग्निनयना व्याघ्रचर्माम्बरावृता ॥ १६॥ अर्धेन्दुधारिणी मत्ता मदिरा मदिरेक्षणा । इति ते कथितं गोप्यं नाम्नामष्टोत्तरं शतम् ॥ १७॥ सुन्दर्याः सर्वदं सेव्यं महापातकनाशनम् । गोपनीयं गोपनीयं गोपनीयं कलौ युगे ॥ १८॥ सहस्रनामपाठस्य फलं यद्वै प्रकीर्तितम् । तस्मात्कोटिगुणं पुण्यं स्तवस्यास्य प्रकीर्तनात् ॥ १९॥ पठेत्सदा भक्तियुतो नरो यो निशीथकालेऽप्यरुणोदये वा । प्रदोषकाले नवमीदिनेऽथवा लभेत भोगान्परमाद्भुतान्प्रियान् ॥ २०॥ इति ब्रह्मयामले पूर्वखण्डे षोडश्यष्टोत्तरशतनामस्तोत्रं समाप्तम् ॥