अक्षर आकार:

श्रीषोडशीसहस्रनामस्तोत्रम्

shrIShoDashIsahasranAmastotram

श्रीषोडशीसहस्रनामस्तोत्रम्

॥ श्रीमहात्रिपुरसुन्दर्यै नमः॥ ॥ पूर्व पीठिका ॥ कैलासशिखरे रम्ये नानारत्नोपशोभिते। कल्पपादपमध्यस्थे नानापुष्पोपशोभिते ॥ १॥ मणिमण्डपमध्यस्थे मुनिगन्धर्वसेविते । कदाचित्सुखमासीनं भगवन्तं जगद्गुरुम् ॥ २॥ कपालखट्वाङ्गधरं चन्द्रार्धकृतशेखरम् । हस्तत्रिशूलडमरुं महावृषभवहनम् ॥ ३॥ जटाजूटधरन्देवं कण्ठभूषणवासुकिम् । विभूतिभूषणन्देवं नीलकण्ठन्त्रिलोचनम् ॥ ४॥ द्वीपिचर्मपरीधानं शुद्धस्फटिकसन्निभम् । सहस्रादित्यसङ्काशं गिरिजार्द्धाङ्गभूषणम् ॥ ५॥ प्रणम्य शिरसा नाथं कारणं विश्वरूपिणम् । कृताञ्जलि पुटो भूत्वा प्राहैनं शिखवाहनः ॥ ६॥ ॥ कार्तिकेय उवाच ॥ देवदेव जगन्नाथ! सृष्टिस्थितिलयात्मक । त्वमेव परमात्मा च त्वं गतिः सर्वदेहिनाम् ॥ ७॥ त्वङ्गतिः सर्वलोकानां दीनानां च त्वमेव हि । त्वमेव जगदाधारस्त्वमेव विश्वकारणम् ॥ ८॥ त्वमेव पूज्यः सर्वेषां त्वदन्यो नास्ति मे गतिः । किं गुह्यम्परमं लोके किमेकं सर्वसिद्धिदम् ॥ ९॥ किमेकं परमं श्रेष्ठं को योग: स्वर्गमोक्षद: । विना तीर्थेन तपसा विना दानैर्विना मखै: ॥ १०॥ विना लयेन ध्यानेन नरः सिद्धिमवाप्नुयात् । कस्मादुत्पद्यते सृष्टि: कस्मिंश्च प्रलयो भवेत् ॥ ११॥ कस्मादुत्तीर्यते देव ! संसारार्णवसङ्कटात् । तदहं श्रोतुमिच्छामि कथयस्व महेश्वर ! ॥ १२॥ ॥ ईश्वर उवाच ॥ साधु साधु त्वया पृष्टं पार्वतीप्रियनन्दन । अस्ति गुह्यतमम्पुत्र! कथयिष्याम्यसंशयम् ॥ १३॥ सत्वं रजस्तमश्चैव ये चान्ये महदादयः । ये चान्ये बहवो भूताः सर्वे प्रकृतिसम्भवाः ॥ १४॥ सैव देवी पराशक्तिः महात्रिपुरसुन्दरी । सैव प्रसूयते विश्वं विश्वं सैव प्रपास्यति ॥ १५॥ सैव संहरते विश्वं जगदेतच्चराचरम् । आधारः सर्वभूतानां सैव रोगार्तिहारिणी ॥ १६॥ इच्छाज्ञानक्रियाशक्तिरब्रह्मविष्णुशिवात्मिका । त्रिधा शक्तिस्वरूपेण सृष्टिस्थितिविनाशिनी ॥ १७॥ सृज्यते ब्रह्मरूपेण विष्णुरूपेण पाल्यते । ह्रियते रुद्ररूपेण जगदेतच्चराचरम् ॥ १८॥ यस्या योनौ जगत्सर्वमद्यापि परिवर्तते । यस्यां प्रलीयते चान्ते यस्यां च जायते पुनः ॥ १९॥ यां समाराध्य त्रैलोक्ये सम्प्राप्यं पदमुत्तमम् । तस्या नामसहस्रं तु कथयामि श‍ृणुष्व तत् ॥ २०॥ ॥ विनियोगः ॥ ॐ अस्य श्रीमहात्रिपुरसुन्दरीसहस्रनामस्तोत्रमन्त्रस्य श्रीभगवान् दक्षिणामूर्तिः ऋषिः । जगतीछन्दः । समस्तप्रकटगुप्तसम्प्रदाय कुलकौलोत्तीर्णनिर्गर्भरहस्याचिन्त्यप्रभावती देवता । ॐ बीजं । ह्रीं शक्तिः । क्लीं कीलकं । धर्मार्थकाममोक्षार्थे जपे विनियोगः ।pAThe ॥ ऋष्यादि न्यासः ॥ ॐ श्रीमहात्रिपुरसुन्दरीसहस्रनामस्तोत्रमन्त्रस्य श्रीभगवान् दक्षिणामूर्ति ऋषये नमः शिरसि । ॐ जगतीच्छन्दसे नमः मुखे। ॐसमस्तप्रकटगुप्तसम्प्रदायकुलकौलोत्तीर्णनिर्गर्भरहस्याचिन्त्यप्रभावतीदेवतायै नमः हृदये । ॐ ॐ बीजाय नमः नाभौ ।var वीजाय ॐ ह्रीं शक्त्ये नमः गुह्ये । ॐ क्लीं कीलकाय नमः पादयोः । ॐ धर्मार्थकाममोक्षार्थे जपे विनियोगाय नमः सर्वाङ्गे ।pAThe ॥ ध्यानम् ॥ ॐ आधारे तरुणार्कबिम्बरुचिरं हेमप्रभं वाग्भवम् । बीजं मन्मथमिन्द्रगोपसदृशं हृत्पङ्कजे संस्थितम् ॥ विष्णुब्रह्मपदस्थशक्तिकलितं सोमप्रभाभासुरम् । ये ध्यायन्ति पदत्रयं तव शिवे ! ते यान्ति सौख्यं पदम् ॥ ॥ मानस पूजनम् ॥ ॐ लं पृथिव्यात्मकं गन्धं परब्रह्मस्वरूपिणी श्रीषोडशीदेवी प्रीतये समर्पयामि नमः । ॐ हं आकाशतत्त्वात्मकं पुष्पं परब्रह्मस्वरूपिणी श्रीषोडशीदेवी प्रीतये समर्पयामि नमः । ॐ यं वायुतत्त्वात्मकं धूपं परब्रह्मस्वरूपिणी श्रीषोडशीदेवी प्रीतये घ्रापयामि नमः । ॐ रं अग्नितत्त्वात्मकं दीपं परब्रह्मस्वरूपिणी श्रीषोडशीदेवी प्रीतये दर्शयामि नमः । ॐ वं जलतत्त्वात्मकं नैवेद्यं परब्रह्मस्वरूपिणी श्रीषोडशीदेवी प्रीतये निवेदयामि नमः । ॐ सं सर्वतत्त्वात्मकं ताम्बूलं परब्रह्मस्वरूपिणी श्रीषोडशीदेवी प्रीतये समर्पयामि नमः । ॥ मूलपाठः ॥ कल्याणी कमला काली कराली कामरूपिणि । कामाख्या कामदा काम्या कामना कामचारिणी ॥ १॥ कालरात्रिर्महारात्रि कपाली कामरूपिणी ।var कालरात्रिः महारात्रिः कौमारी करुणा मुक्तिः कलिकल्मषनाशिनी ॥ २॥ कात्यायनी कराधारा कौमुदी कमलप्रिया । किर्तिदा बुद्धिदा मेधा नीतिज्ञा नीतिवत्सला ॥ ३॥ माहेश्वरी महामाया महातेजा महेश्वरी । महाजिह्वा महाघोरा महादंष्ट्रा महाभुजा ॥ ४॥ महामोहान्धकारघ्नी महामोक्षप्रदायिनी । महादारिद्र्यनाशा च महाशत्रुविमर्दिनी ॥ ५॥ महामाया महावीर्या महापातकनाशिनी । महामखा मन्त्रमयी मणिपूरकवासिनी ॥ ६॥ मानसी मानदा मान्या मनश्चक्षूरणेचरा । गणमाता च गायत्री गणगन्धर्वसेविता ॥ ७॥ गिरिजा गिरिशा साध्वी गिरिस्था गिरिवल्लभा । चण्डेश्वरी चण्डरूपा प्रचण्डा चण्डमालिनी ॥ ८॥ चर्विका चर्चिकाकारा चण्डिका चारुरूपिणी । यज्ञेश्वरी यज्ञरूपा जपयज्ञपरायणा ॥ ९॥ यज्ञमाता यज्ञभोक्त्री यज्ञेशी यज्ञसम्भवा । सिद्धयज्ञा क्रियासिद्धिर्यज्ञाङ्गी यज्ञरक्षिका ॥ १०॥ यज्ञक्रिया च यज्ञा च यज्ञायज्ञक्रियालया । जालन्धरी जगन्माता जातवेदा जगत्प्रिया ॥ ११॥ जितेन्द्रिया जितक्रोधा जननी जन्मदायिनी । गङ्गा गोदावरी चैव गोमती च शतद्रुका ॥ १२॥ घर्घरा वेदगर्भा च रेचिका समवासिनी । सिन्धुर्मन्दाकिनी क्षिप्रा यमुना च सरस्वती ॥ १३॥ भद्रा रागा विपाशा च गण्डकी विन्धयवासिनी । var भद्रा १०० नर्मदा ताप्ती कावेरी वेत्रवती सुकौशिकी ॥ १४॥varवेत्रवत्या महेन्द्रतनया चैव अहल्या चर्मकावती । अयोध्या मथुरा माया काशी काञ्ची अवन्तिका ॥ १५॥ पुरी द्वारावती तीर्था महाकिल्विषनाशिनी । पद्मिनी पद्ममध्यस्था पद्मकिञ्जल्कवासिनी ॥ १६॥ पद्मवक्त्रा चकोराक्षी पद्मस्था पद्मसम्भवा । ह्रीङ्कारी कुण्डलाधारा हृत्पद्मस्था सुलोचना ॥ १७॥ श्रीङ्कारी भूषणा लक्ष्मीः क्लीङ्कारी क्लेशनाशिनी । हरिवक्त्रोद्भवा शान्ता हरिवक्त्रकृतालया ॥ १८॥ हरिवक्त्रोपमा हाला हरिवक्ष:स्थलास्थिता । वैष्णवी विष्णुरूपा च विष्णुमातृस्वरूपिणी ॥ १९॥ विष्णुमाया विशालाक्षी विशालनयनोज्ज्वला । विंश्वेश्वरी च विश्वात्मा विश्वेशी विश्वरूपिणी ॥ २०॥ विश्वनाथा शिवाराध्या शिवनाथा शिवप्रिया । शिवमाता शिवाख्या च शिवदा शिवरूपिणी ॥ २१॥ भवेश्वरी भवाराध्या भवेशी भवनायिका । भवमाता भवगम्या भवकण्टकनाशिनी ॥ २२॥ भवप्रिया भवानन्दा भवानी भवमोहिनी । गायत्री चैव सावित्री ब्रह्माणी ब्रह्मरूपिणी ॥ २३॥ ब्रह्मेशी ब्रह्मदा ब्रह्मा ब्रह्माणी ब्रह्मवादिनी । दुर्गस्था दुर्गरूपा च दुर्गा दुर्गार्तिनाशिनी ॥ २४॥ सुगमा दुर्गमा दान्ता दया दोग्ध्री दुरापहा । दुरितघ्नी दुराध्यक्षा दुरा दुष्कृतनाशिनी ॥ २५॥ पञ्चास्या पञ्चमी पूर्णा पूर्णपीठनिवासिनी । var पूर्णपीठनिवासिनी २०० सत्त्वस्था सत्त्वरूपा च सत्त्वगा सत्त्वसम्भवा ॥ २६॥ रजस्था च रजोरूपा रजोगुणसमुद्भवा । तमस्था च तमोरूपा तामसी तामसप्रिया ॥ २७॥ तमोगुणसमुद्भूता सात्विकी राजसी कला । काष्ठा मुहूर्ता निमिषा अनिमेषा ततः परम् ॥ २८॥ अर्धमासा च मासा च संवत्सरस्वरूपिणी । योगस्था योगरूपा च कल्पस्था कल्परूपिणी ॥ २९॥ नानारत्नविचित्राङ्गी नानाऽऽभरणमण्डिता । विश्वात्मिका विश्वमाता विश्वपाशविनाशिनी ॥ ३०॥ विश्वासकारिणी विश्वा विश्वशक्तिविचारणा । जपाकुसुमसङ्काशा दाडिमीकुसुमोपमा ॥ ३१॥ चतुरङ्गी चतुर्बाहुश्चतुराचारवासिनी । सर्वेशी सर्वदा सर्वा सर्वदासर्वदायिनी ॥ ३२॥ माहेश्वरी च सर्वाद्या शर्वाणी सर्वमङ्गला । नलिनी नन्दिनी नन्दा आनन्दानन्दवर्द्धिनी ॥ ३३॥ व्यापिनी सर्वभुतेषु भवभारविनाशिनी । सर्वश‍ृङ्गारवेषाढ्या पाशाङ्कुशकरोद्यता ॥ ३४॥ सूर्यकोटिसहस्राभा चन्द्रकोटिनिभानना । गणेशकोटिलावण्या विष्णुकोट्यरिमर्दिनी ॥ ३५॥ दावाग्निकोटिदलिनी रुद्रकोट्युग्ररूपिणी । समुद्रकोटिगम्भीरा वायुकोटिमहाबला ॥ ३६॥ आकाशकोटिविस्तारा यमकोटिभयङ्करी । मेरुकोटिसमुछ्राया गणकोटिसमृद्धिदा ॥ ३७॥ निष्कस्तोका निराधरा निर्गुणा गुणवर्जिता । अशोका शोकरहिता तापत्रयविवर्जिता ॥ ३८॥ वसिष्ठा विश्वजननी विश्वाख्या विश्ववर्द्धिनी । चित्रा विचित्रा चित्राङ्गी हेतुगर्भाकुलेश्वरी ॥ ३९॥var विचित्र-चित्राङ्गी इच्छाशक्तिः ज्ञानशक्तिः क्रियाशक्तिः शुचिस्मिता । शुचिः स्मृतिमयी सत्या श्रुतिरूपा श्रुतिप्रिया ॥ ४०॥ महासत्वमयी सत्वा पञ्चतत्त्वोपरिस्थिता । पार्वती हिमवत्पुत्री पारस्था पाररूपिणी ॥ ४१॥ जयन्ती भद्रकाली च अहल्या कुलनायिका । varजयन्ती ३०० भूतधात्री च भूतेशी भूतस्था भूतभाविनी ॥ ४२॥ महाकुण्डलिनीशक्तिर्महाविभवर्द्धिनी । var महाकुण्डलिनीशक्तिः महाविभवर्द्धिनी हंसाक्षी हंसरूपा च हंसस्था हंसरूपिणी ॥ ४३॥ सोमसूर्याग्निमध्यस्था मणिमण्डलवासिनी । द्वादशारसरोजस्था सूर्यमण्डलवासिनी ॥ ४४॥ अकलङ्का शशाङ्काभा षोडशारनिवासिनी । डाकिनी राकिनी चैव लाकिनी काकिनी तथा ॥ ४५॥ शाकिनी हाकिनी चैव षट् चक्रेषु निवासिनी । सृष्टि स्थितिविनाशिनी सृष्ट्यन्ता सृष्टिकारिणी ॥ ४६॥ श्रीकण्ठप्रिया हृतकण्ठा नन्दाख्या विन्दुमालिनी । चतुष्षष्टि कलाधारा देहदण्डसमाश्रिता ॥ ४७॥var चतुष्षटि माया काली धृतिर्मेधा क्षुधा तुष्टिर्महाद्युतिः । हिङ्गुला मङ्गला सीता सुषुम्नामध्यगामिनी ॥ ४८॥ परघोरा करालाक्षी विजया जयदायिनी । हृतपद्मनिलया भीमा महाभैरवनादिनी ॥ ४९॥ आकाशलिङ्गसम्भूता भुवनोद्यानवासिनी । महत्सूक्ष्मा च कङ्काली भीमरूपा महाबला ॥ ५०॥ मेनकागर्भसम्भूता तप्तकाञ्चनसन्निभा । अन्तरस्था च कूटबीजा चित्रकूटाचलवासिनी ॥ ५१॥ वर्णाख्या वर्णरहिता पञ्चाशद्वर्णभेदिनी । विद्याधरी लोकधात्री अप्सरा अप्सरः प्रिया ॥ ५२॥ दीक्षा दाक्षायणी दक्षा दक्षयज्ञविनाशिनी । यशःपूर्णा यशोदा च यशोदागर्भसम्भवा ॥ ५३॥ देवकी देवमाता च राधिका कृष्णवल्लभा । अरुन्धती शचीन्द्राणी गान्धारी गन्धमालिनी ॥ ५४॥ ध्यानातीता ध्यानगम्या ध्यानज्ञा ध्यानधारिणी । लम्बोदरी च लम्बोष्ठी जाम्बवन्ती जलोदरी ॥ ५५॥ महोदरी मुक्तकेशी मुक्तकामार्थसिद्धिदा । तपस्विनी तपोनिष्ठा सुपर्णा धर्मवासिनी ॥ ५६॥ var तपोनिष्ठा ४०० बाणचापधरा धीरा पाञ्चाली पञ्चमप्रिया । गुह्याङ्गी च सुभीमाङ्गी गुह्यतत्त्वा निरञ्जना ॥ ५७॥ अशरीरा शरीरस्था संसारार्णवतारिणी । अमृता निष्कला भद्रा सकला कृष्णपिङ्गला ॥ ५८॥ चक्रप्रिया च चक्राह्वा पञ्चचक्रादिदिरिणी । पद्मरागप्रतीकाशा निर्मलाकाश सन्निभा ॥ ५९॥ अधःस्था ऊर्ध्वरूपा च ऊरध्वपद्मनिवासिनी । कार्यकारणकर्तृत्वे शश्वद्-रूपेषु-संस्थिता ॥ ६०॥var शश्वद्रूपेषुसंस्थिता रसज्ञा रसमध्यस्था गन्धस्था गन्धरूपिणी । परब्रह्मस्वरूपा च परब्रह्मनिवासिनी ॥ ६१॥ शब्दब्रह्मस्वरूपा च शब्दस्था शब्दवर्जिता । सिद्धिर्बुद्धिर्पराबुद्धिः सन्दीप्तिर्मध्यसंस्थिता ॥ ६२॥var सिद्धिः बुद्धिःपराबुद्धिः स्वगुह्या शाम्भवीशक्तिः तत्त्वस्था तत्त्वरूपिणी । शाश्वती भूतमाता च महाभूताधिपप्रिया ॥ ६३॥ शुचिप्रेता धर्मसिद्धिः धर्मवृद्धिः पराजिता । कामसन्दीपनी कामा सदाकौतूहलप्रिया ॥ ६४॥ जटाजूटधरा मुक्ता सूक्ष्मा शक्तिविभूषणा । द्वीपिचर्मपरीधाना चीरवल्कलधारिणी ॥ ६५॥ त्रिशूलडमरूधरा नरमालाविभूषणा । अत्युग्ररूपिणी चोग्रा कल्पान्तदहनोपमा ॥ ६६॥ त्रैलोक्यसाधिनी साध्या सिद्धिसाधकवत्सला । सर्वविद्यामयी सारा चासुराणां विनाशिनी ॥ ६७॥ दमनी दामिनी दान्ता दया दोग्घ्री दुरापहा । अग्निजिह्वोपमा घोराघोर घोर तरानना॥ ६८॥var घोराघोर-घोर-तरानना नारायणी नारसिंही नृसिंहहृदयेस्थिता । योगेश्वरी योगरूपा योगमाता च योगिनी ॥ ६९॥ खेचरी खचरी खेला निर्वाणपदसंश्रया । नागिनी नागकन्या च सुवेशा नागनायिका ॥ ७०॥ विषज्वालावती दीप्ता कलाशतविभूषणा । तीव्रवक्त्रा महावक्त्रा नागकोटित्वधारिणी ॥ ७१॥ ५०० महासत्वा च धर्मज्ञा धर्मातिसुखदायिनी । कृष्णमूर्द्धा महामूर्द्धा घोरमूर्द्धा वरानना ॥ ७२॥ सर्वेन्द्रियमनोन्मत्ता सर्वेन्द्रियमनोमयी । सर्वसङ्ग्रामजयदा सर्वप्रहरणोद्यता ॥ ७३॥ सर्वपीडोपशमनी सर्वारिष्टनिवारिणी । सर्वैश्वर्यसमुत्पन्ना सर्वग्रहविनाशिनी ॥ ७४॥ मातङ्गी मत्तमातङ्गी मातङ्गीप्रियमण्डला । अमृतोदधिमध्यस्था कटिसूत्रैरलङ्कृता ॥ ७५॥ अमृतोदधिमध्यस्था प्रवालवसनाम्बुजा । मणिमण्डलमध्यस्था ईषत्प्रहसितानना ॥ ७६॥ कुमुदा ललिता लोला लाक्षालोहितलोचना । दिग्वासा देवदूती च देवदेवाधिदेवता ॥ ७७॥ सिंहोपरिसमारूढा हिमाचलनिवासिनी । अट्टाट्टहासिनी घोरा घोरदैत्यविनाशिनी ॥ ७८॥ अत्यग्ररक्तवस्त्राभा नागकेयूरमण्डिता । मुक्ताहारलतोपेता तुङ्गपीनपयोधरा ॥ ७९॥ रक्तोत्पलदलाकारा मदाघूर्णितलोचना । समस्तदेवतामूर्तिः सुरारिक्षयकारिणी ॥ ८०॥ खड्गिनी शूलहस्ता च चक्रिणी चक्रमालिनी । repeated खड्गिनी शङ्खिनी चापिनी बाणा वज्रणी वज्रदण्डिनी ॥ ८१॥var चापिणी वाणा आन्नदोदधतिमध्यस्था कटिसूत्रधारापरा । var आन्नदोदधिमध्यस्था नानाभरणदीप्ताङ्गा नानमणिविभूषिता ॥ ८२॥ जगदानन्दसम्भूता चिन्तामणिगुणान्विता । त्रैलोक्यनमिता तुर्या चिन्मयानन्दरूपिणी ॥ ८३॥ त्रैलोक्यनन्दिनीदेवी दुःख दुःस्वप्ननाशिनी । var दुःख दुस्वप्ननाशिनी घोराग्निदाहशमनी राज्यदेवार्थसाधिनी ॥ ८४॥ महाऽपराधराशिघ्नी महाचौरभयापहा । रागादि दोषरहिता जरामरणवर्जिता ॥ ८५॥ चन्द्रमण्डलमध्यस्था पीयूषार्णवसम्भवा । सर्वदेवैःस्तुतादेवी सर्वसिद्धैर्नमस्कृता ॥ ८६॥ अचिन्त्यशक्तिरूपा च मणिमन्त्रमहौषधि । अस्तिस्वस्तिमयीबाला मलयाचलवासिनी ॥ ८७॥ धात्री विधात्री संहारी रतिज्ञा रतिदायिनी । रुद्राणी रुद्ररूपा च रुद्ररौद्रार्तिनाशिनी ॥ ८८॥ सर्वज्ञाचैवधर्मज्ञा रसज्ञा दीनवत्सला । अनाहता त्रिनयना निर्भारा निर्वृतिःपरा ॥ ८९॥ पराऽघोरा करालाक्षी सुमती श्रेष्ठदायिनी । मन्त्रालिका मन्त्रगम्या मन्त्रमाला सुमन्त्रिणी ॥ ९०॥ var मन्त्रगम्या ६०० श्रद्धानन्दा महाभद्रा निर्द्वन्द्वा निर्गुणात्मिका । धरिणी धारिणी पृथ्वी धरा धात्री वसुन्धरा ॥ ९१॥ मेरूमन्दरमध्यस्था स्थितिः शङ्करवल्लभा । श्रीमती श्रीमयी श्रेष्ठा श्रीकरी भावभाविनी ॥ ९२॥ श्रीदा श्रीमा श्रीनिवासा श्रीवती श्रीमताङ्गतिः ।var श्रीशा उमा सारङ्गिणी कृष्णा कुटिला कुटिलालिका ॥ ९३॥ त्रिलोचना त्रिलोकात्मा पुण्यापुण्यप्रकीर्तिता पुण्यपुण्याप्रकीर्तिता ।var पुण्यपुण्याप्रकीर्तिता अमृता सत्यसङ्कल्पा सा सत्या ग्रन्थिभेदिनी ॥ ९४॥ परेशी परमासाध्या पराविद्या परात्परा । सुन्दराङ्गी सुवर्णाभा सुरासुरनमस्कृता ॥ ९५॥ प्रजा प्रजावती धान्या धनधान्यसमृद्धिदा । ईशानी भुवनेशानी भवानी भुवनेश्वरी ॥ ९६॥ अनन्तानन्तमहिता जगत्सारा जगद्भवा । अचिन्त्यात्माचिन्त्यशक्तिः चिन्त्याचिन्त्यस्वरूपिणी ॥ ९७॥ ज्ञानगम्या ज्ञानमूर्तिः ज्ञानिनी ज्ञानशालिनी । असिता घोररूपा च सुधाधारा सुधावहा ॥ ९८॥ भास्करी भास्वरी भीतिर्भास्वदक्षानुशायिनी । अनसूया क्षमा लज्जा दुर्लभाभरणात्मिका ॥ ९९॥ विश्वध्नी विश्ववीरा व विश्वाशा विश्वसंस्थिता । शीलस्था शीलरूपा च शीला शीलप्रदायिनी ॥ १००॥ बोधिनी बोधकुशला रोधिनीबोधिनी तथा । विद्योतिनी विचित्रात्मा विद्युत्पटलसन्निभा ॥ १०१॥ विश्वयोनिर्महायोनिः कर्मयोनिः प्रियात्मिका । var?विश्वयोनिः महायोनिः कर्मयोनिः प्रियात्मिका रोहिणी रोगशमनी महारोगज्वरापहा ॥ १०२॥ रसदा पुष्टिदा पुष्टिर्मानदा मानवप्रिया । var पुष्टिः मानदा कृष्णाङ्गवाहिनी कृष्णाऽकला कृष्णसहोदरा ॥ १०३॥ var कृषणाऽकला ६९९ ७०० शाम्भवी शम्भुरूपा च शम्भुस्था शम्भुसम्भवा । विश्वोदरी योगमाता योगमुद्रा सुयोगिनी ॥ १०४॥ वागीश्वरी योगनिद्रा योगिनीकोटिसेविता । कौलिका नन्दकन्या च श‍ृङ्गारपीठवासिनी ॥ १०५॥ क्षेमङ्करी सर्वरूपा दिव्यरूपा दिगम्बरी । धूम्रवक्त्रा धूम्रनेत्रा धूम्रकेशी च धूसरा ॥ १०६॥ पिनाकी रुद्रवेताली महावेतालरूपिणी । तपिनी तापिनी दीक्षा विष्णुविद्यात्मनाश्रिता ॥ १०७॥ मन्थरा जठरा तीव्राऽग्निजिह्वा च भयापहा । पशुघ्नी पशुपाला च पशुहा पशुवाहिनी ॥ १०८॥ पितामाता च धीरा च पशुपाशविनाशिनी । चन्द्रप्रभा चन्द्ररेखा चन्द्रकान्तिविभूषिणी ॥ १०९॥ कुङ्कमाङ्कितसर्वाङ्गी सुधासद्गुरुलोचना । शुक्लाम्बरधरादेवी वीणापुस्तकधारिणी ॥ ११०॥ ऐरावतपद्मधरा श्वेतपद्मासनस्थिता । रक्ताम्बरधरादेवी रक्तपद्मविलोचना ॥ १११॥ दुस्तरा तारिणी तारा तरुणी ताररूपिणी । सुधाधारा च धर्मज्ञा धर्मसङ्घोपदेशिनी ॥ ११२॥ भगेश्वरी भगाराध्या भगिनी भगनायिका । भगबिम्बा भगक्लिन्ना भगयोनिर्भगप्रदा ॥ ११३॥var भगयोनिः भगप्रदा भगेशी भगरूपा च भगगुह्या भगावहा । भगोदरी भगानन्दा भगस्था भगशालिनी ॥ ११४॥ सर्वसङ्क्षोभिणीशक्तिः सर्वविद्राविणी तथा । मालिनी माधवी माध्वी मधुरूपा महोत्कटा ॥ ११५॥ भेरुण्डा चन्द्रिका ज्योत्स्ना विश्वचक्षुस्तमोऽपहा ।var विश्वचक्षुस्तमोपहा सुप्रसन्ना महादूती यमदूती भयङ्करी ॥ ११६॥ उन्मादिनी महारूपा दिव्यरूपा सुरार्चिता । चैतन्यरूपिणी नित्या क्लिन्ना काममदोद्धता ॥ ११७॥ मदिरानन्दकैवल्या मदिराक्षी मदालसा । var मदिराक्षी ८०० सिद्धेश्वरी सिद्धविद्या सिद्धाद्या सिद्धसम्भवा ॥ ११८॥ सिद्धर्द्धिः सिद्धमाता च सिद्धःसर्वार्थसिद्धिदा । मनोमयी गुणातीता परञ्ज्योतिःस्वरूपिणी ॥ ११९॥ परेशी परगापारा परासिद्धिः परागतिः । विमला मोहिनी आद्या मधुपानपरायणा ॥ १२०॥ वेदवेदाङ्गजननी सर्वशास्त्रविशारदा । सर्वदेवमयीविद्या सर्वशास्त्रमयी तथा ॥ १२१॥ सर्वज्ञानमयीदेवी सर्वधर्ममयीश्वरी । सर्वयज्ञमयी यज्ञा सर्वमन्त्राधिकारिणी ॥ १२२॥ सर्वसम्पतप्रतिष्ठात्री सर्वविद्राविणी परा । सर्वसङ्क्षोभिणीदेवी सर्वमङ्गलकारिणी ॥ १२३॥ त्रैलोक्याकर्षिणी देवी सर्वाह्लादनकारिणी । सर्वसम्मोहिनीदेवी सर्वस्तम्भनकारिणी॥ १२४॥ त्रैलोक्यजृम्भिणी देवी तथा सर्ववशङ्करी । त्रैलोक्यरञ्जनीदेवी सर्वसम्पत्तिदायिनी ॥ १२५॥ सर्वमन्त्रमयिदेवी सर्वद्वन्द्वक्षयङ्करी । सर्वसिद्धिप्रदादेवी सर्वसम्पत्प्रदायिनी ॥ १२६॥ सर्वप्रियङ्करीदेवी सर्वमङ्गलकारिणी । सर्वकामप्रदादेवी सर्वदुःखविमोचिनी ॥ १२७॥ सर्वमृत्युप्रशमनी सर्वविघ्नविनाशिनी । सर्वाङ्गसुन्दरीमाता सर्वसौभाग्यदायिनी ॥ १२८॥ सर्वज्ञा सर्वशक्तिश्च सर्वैश्वर्यफलप्रदा । सर्वज्ञानमयीदेवी सर्वव्याधिविनाशिनी ॥ १२९॥ सर्वाधारस्वरूपा च सर्वपापहरा तथा । सर्वानन्दमयीदेवी सर्वेच्छाया:स्वरूपिणी ॥ १३०॥ सर्वलक्ष्मीमयीविद्या सर्वेप्सितफलप्रदा । सर्वारिष्टप्रशमनी परमानन्ददायिनी ॥ १३१॥ त्रिकोणनिलया त्रिस्था त्रिमाता त्रितनुस्थिता। त्रिवेणी त्रिपथा गुण्या त्रिमूर्तिः त्रिपुरेश्वरी ॥ १३२॥ त्रिधाम्नी त्रिदशाध्यक्षा त्रिवित्त्रिपुरवासिनी । त्रयीविद्या च त्रिशिरा त्रैलोक्या च त्रिपुष्करा ॥ १३३॥ त्रिकोटरस्था त्रिविधा त्रिपुरा त्रिपुरात्मिका । त्रिपुराश्री त्रिजननी त्रिपुरात्रिपुरसुन्दरी ॥ १३४॥ महामाया महामेधा महाचक्षुः महोक्षजा । महावेधा पराशक्तिः पराप्रज्ञा परम्परा ॥ १३५॥ महालक्ष्या महाभक्ष्या महाकक्ष्याऽकलेश्वरी । var महाकक्ष्याऽकलेश्वरी ९०० ९०१ कलेश्वरी कलानन्दा कलेशी कलसुन्दरी ॥ १३६॥ कलशा कलशेशी च कुम्भमुद्रा कृशोदरी ।varकृषोदरी कुम्भपा कुम्भमध्येशी कुम्भानन्दप्रदायिनी॥ १३७॥ कुम्भजानन्दनाथा व कुम्भजानन्दवर्द्धिनी । कुम्भजानन्दसन्तोषा कुम्भजतर्पिणीमुदा ॥ १३८॥ वृत्तिः वृत्तीश्वरीऽमोघा विश्ववृत्त्यन्ततर्पिणी। विश्वशान्ति विशालाक्षी मीनाक्षी मीनवर्णदा ॥ १३९॥ विश्वाक्षी दुर्धरा धूमा इन्द्राक्षी विष्णुसेविता । विरञ्चिसेविता विश्वा ईशाना ईशवन्दिता ॥ १४०॥ महाशोभा महालोभा महामोहा महेश्वरी । महाभीमा महाक्रोधा मन्मथा मदनेश्वरी ॥ १४१॥ महानला महाक्रोधा विश्वसंहारताण्डवा । repeated महाक्रोधा सर्वसंहारवर्णेशी सर्वपालनतत्परा ॥ १४२॥ सर्वादिः सृष्टिकर्त्री च शिवाद्या शम्भुस्वामिनी । महानन्देश्वरी मृत्युर्महास्पन्देश्वरी सुधा ॥ १४३॥var मृत्युः महास्पन्देश्वरी पर्णापर्ण परावर्णाऽपर्णेशी पर्णमानसा । वराही तुण्डदा तुण्डा गणेशी गणनायिका ॥ १४४॥ वटुका वटुकेशी च क्रौचदारणजन्मदा । क ए इ ल महामाया ह स क ह ल मायया ॥ १४५॥ दिवयानामा सदाकामा श्यामा रामा रमा रसा । स क ल ह्रीं तत्स्वरूपा च।श्रीं ह्रीं नामादि रूपिणी ॥ १४६॥ कालज्ञा कालहामूर्तिः सर्वसौभाग्यदा मुदा । उर्वा उर्वेश्वरी खर्वा खर्वपर्वा खगेश्वरी ॥ १४७॥ गरुडा गारुडीमाता गरुडेश्वरपूजिता । अन्तरिक्षान्तरपदा प्रज्ञा प्रज्ञानदा परा ॥ १४८॥ विज्ञाना विश्वविज्ञाना अन्तराक्षा विशारदा । अन्तर्ज्ञानमयी सौम्या मोक्षानन्दविवर्द्धिनी ॥ १४९॥ शिवशक्तिमयीशक्तिः एकानन्दप्रवर्तिनी । श्रीमाता श्रीपराविद्या सिद्धाश्री सिद्धसागरा । सिद्धलक्ष्मी सिद्धविद्या सिद्धा सिद्धेश्वरी सुधा ॥ १५०॥ var सुधा १००९ ॥ फलश्रुतिः ॥ इदं त्रिपुरासुन्दर्याः स्तोत्रनामसहस्रकम् । गुह्याद्गुह्यतरं पुत्र! तव प्रीत्यै प्रकीर्तितम् ॥ १॥ गोपनीयं प्रयत्नेन पठनीयं प्रयत्नतः । नातः परतरं पुण्यं नातःपरतरं तपः ॥ २॥ नातः परतरं स्तोत्रं नातः परतरं गतिः । स्तोत्रं सहस्रनामाख्यं मम वक्त्राद्विनिर्गतम् ॥ ३॥ यः पठेत्प्रयतो भक्त्या श‍ृणुयाद्वा समाहितः । मोक्षार्थीं लभते मोक्षं स्वर्गार्थी स्वर्गमाप्नुयात् ॥ ४॥ कामांश्च प्राप्नुयातकामी धनार्थी च लभेद्धनम् । विद्यार्थी लभते विद्यां यशोऽर्थी लभते यशः ॥ ५॥ कन्यार्थी लभते कन्यां सुतार्थी लभते सुतम् । गुर्विणी जनयेत्पुत्रं कन्या विन्दति सत्पतिम् ॥ ६॥ मूर्खोऽपि लभते शास्त्रं हीनोऽपि लभते गतिम् । सङ्क्रान्त्यां वार्कामावस्यां अष्टम्यां च विशेषतः ॥ ७॥ पौर्णमास्यां चतुर्दश्यां नवम्यां भौमवासरे । पठेद्वा पाठयेद्वापि श‍ृणुयाद्वा समाहितः ॥ ८॥var श‍ृणुयाद् वा समाहितः स मुक्तो सर्वपापेभ्यः कामेश्वरसमो भवेत् । लक्ष्मीवान् धर्मवांश्चैव वल्लभस्सर्वयोषिताम् ॥ ९॥ तस्य वश्यं भवेदाशु त्रैलोक्यं सचराचरम् । रुद्रं दृष्टवा यथा देवा विष्णुं दृष्ट्वा च दानवाः ॥ १०॥varदृष्टा यथाहिर्गरुडं दृष्ट्वा सिंह दृष्ट्वा यथा गजाः । कीटवत्प्रपलायन्ते तस्य वक्त्रावलोकनात् ॥ ११॥ अग्निचौरभयं तस्य कदाचिन्नैव सम्भवेत् । पातका विविधाः शन्तिर्मेरुपर्वतसन्निभाः ॥ १२॥ यस्मात्तच्छृणुयाद्विघ्नांस्तृणं वह्निहुतं यथा । एकदा पठनादेव सर्वपापक्षयो भवेत् ॥ १३॥ दशधा पठनादेव वाचा सिद्धः प्रजायते । शतधा पठनाद्वापि खेचरो जायते नरः ॥ १४॥ सहस्रदशसङ्ख्यातं यः पठेद्भक्तिमानसः । माताऽस्य जगतां धात्री प्रत्यक्षा भवति ध्रुवम् ॥ १५॥ लक्षपूर्णे यथा पुत्र! स्तोत्रराजं पठेत्सुधीः । भवपाशविनिर्मुक्तो मम तुल्यो न संशयः ॥ १६॥ सर्वतीर्थेषु यत्पुण्यं सकृज्जप्त्वा लभेन्नरः । सर्ववेदेषु यत्प्रोक्तं तत्फलं परिकीर्तितम् ॥ १७॥ भूत्वा च बलवान पुत्र धनवान्सर्वसम्पदः । देहान्ते परमं स्थानं यत्सुरैरपि दुर्लभम् ॥ १८॥ स यास्यति न सन्देहः स्तवराजस्य किर्त्तनात् ॥ १९॥ ॥ इति श्रीवामकेश्वरतन्त्रे षोडश्याः सहस्रनामस्तोत्रं सम्पूर्णम् ॥