अक्षर आकार:

श्रीषोडशीअष्टोत्तरशतनामावली

shrIShoDashIaShTottarashatanAmAvalI

श्रीषोडशीअष्टोत्तरशतनामावली

श्रीत्रिपुरायै नमः । श्रीषोडश्यै नमः । श्रीमात्रे नमः । श्रीत्रयक्षरायै नमः । श्रीत्रितयायै नमः । श्रीत्रय्यै नमः । श्रीसुन्दर्यै नमः । श्रीसुमुख्यै नमः । श्रीसेव्यायै नमः । श्रीसामवेदपरायणायै नमः । १० श्रीशारदायै नमः । श्रीशब्दनिलयायै नमः । श्रीसागरायै नमः । श्रीसरिदम्बरायै नमः । श्रीशुद्धायै नमः । श्रीशुद्धतनवे नमः । श्रीसाध्व्यै नमः । श्रीशिवध्यानपरायणायै नमः । श्रीस्वामिन्यै नमः । श्रीश्म्भुवनितायै नमः । २० श्रीशाम्भव्यै नमः । श्रीसरस्वत्यै नमः । श्रीसमुद्रमथिन्यै नमः । श्रीशीघ्रगामिन्यै नमः । श्रीशीग्रसिद्धिदायै नमः । श्रीसाधुसेव्यायै नमः । श्रीसाधुगम्यायै नमः । श्रीसाधुसन्तुष्टमानसायै नमः । श्रीखट्वाङ्गधारिण्यै नमः । श्रीखर्वायै नमः । ३० श्रीखड्गखर्परधारिण्यै नमः । श्रीषड्वर्गभावरहितायै नमः । श्रीषड्वर्गपरिचारिकायै नमः । श्रीषड्वर्गायै नमः । श्रीषडङ्गायै नमः । श्रीषोढायै नमः । श्रीषोडशवार्षिक्यै नमः । श्रीऋतुरूपायै नमः । श्रीक्रतुमत्यै नमः । श्रीऋभुक्षक्रतुमण्डितायै नमः । ४० श्रीकवर्गादिपवर्गान्तायै नमः । श्रीअन्तःस्थायै नमः । श्रीअन्तरूपिण्यै नमः । श्रीअकाराकाररहितायै नमः । श्रीकालमृत्युजरापहायै नमः । श्रीतन्व्यै नमः । श्रीतत्त्वेश्वर्यै नमः । श्रीतारायै नमः । श्रीत्रिवर्षायै नमः । श्रीज्ञानरूपिण्यै नमः । ५० श्रीकाल्यै नमः । श्रीकराल्यै नमः । श्रीकामेश्यै नमः । श्रीछायायै नमः । श्रीसंज्ञायै नमः । श्रीअरुन्धत्यै नमः । श्रीनिर्विकल्पायै नमः । श्रीमहावेगायै नमः । श्रीमहोत्साहायै नमः । श्रीमहोदर्यै नमः । ६० श्रीमेधायै नमः । श्रीबलाकायै नमः । श्रीविमलायै नमः । श्रीविमलज्ञानदायिन्यै नमः । श्रीगौर्यै नमः । श्रीवसुन्धरायै नमः । श्रीगोप्त्र्यै नमः । श्रीगवाम्पतिनिषेवितायै नमः । श्रीभगाङ्गायै नमः । श्रीभगरूपायै नमः । ७० श्रीभक्तिपरायणायै नमः । श्रीभावपरायणायै नमः । श्रीछिन्नमस्तायै नमः । श्रीमहाधूमायै नमः । श्रीधूम्रविभूषणायै नमः । श्रीधर्मकर्मादिरहितायै नमः । श्रीधर्मकर्मपरायणायै नमः । श्रीसीतायै नमः । श्रीमातङ्गिन्यै नमः । श्रीमेधायै नमः । ८० श्रीमधुदैत्यविनाशिन्यै नमः । श्रीभैरव्यै नमः । श्रीभुवनायै नमः । श्रीमात्रे नमः । श्रीअभयदायै नमः । श्रीभवसुन्दर्यै नमः । श्रीभावुकायै नमः । श्रीबगलायै नमः । श्रीकृत्यायै नमः । श्रीबालायै नमः । ९० श्रीत्रिपुरसुन्दर्यै नमः । श्रीरोहिण्यै नमः । श्रीरेवत्यै नमः । श्रीरम्यायै नमः । श्रीरम्भायै नमः । श्रीरावणवन्दितायै नमः । श्रीशतयज्ञमय्यै नमः । श्रीसत्त्वायै नमः । श्रीशतक्रतुवरप्रदायै नमः । श्रीशतचन्द्राननादेव्यै नमः । १०० श्रीसहस्रादित्यसन्निभायै नमः । श्रीसोमनयनायै नमः । श्रीसूर्याग्निनयनायै नमः । श्रीव्याघ्रचर्माम्बरावृतायै नमः । श्रीअर्द्धन्दुधारिण्यै नमः । श्रीमत्तायै नमः । श्रीमदिरायै नमः । श्रीमदिरेक्षणायै नमः । १०८