अक्षर आकार:

छिन्नमस्ताध्यानम्

ChinnamastAdhyAnam

छिन्नमस्ताध्यानम्

१. प्रत्यालीढपदां सदैव दधतीं छिन्नं शिरः कर्त्रिकां दिग्वस्त्रां स्वकबन्धशोणितसुधाधारां पिबन्तीं मुदा । नागाबद्धशिरोमणिं त्रिनयनां हृद्युत्पलालङ्कृतां रत्यासक्तमनोभवोपरि दृढां वन्दे जपासन्निभाम् ॥ १॥ २. दक्षे चातिसिता विमुक्तचिकुरा कर्त्रीं तथा खर्परम् । हस्ताभ्यां दधती रजोगुणभवा नाम्नापि सा वर्णिनी ॥ देव्याश्छिन्नकबन्धतः पतदसृग्धारां पिबन्ती मुदा । नागाबद्धशिरोमणिर्मनुविदा ध्येया सदा सा सुरैः ॥ २॥ प्रत्यालीढपदा कबन्धविगलद्रक्तं पिबन्ती मुदा । सैषा या प्रलये समस्तभुवनं भोक्तुं क्षमा तामसी ॥ शक्तिः सापि परात्परा भगवती नाम्ना परा डाकिनी । ध्येया ध्यानपरैः सदा सविनयं भक्तेष्टभूतिप्रदा ॥ ३॥ २. भास्वन्मण्डलमध्यगां निजशिरश्छिन्नं विकीर्णालकम् । स्फारास्यं प्रपिबद्गलात्स्वरुधिरं वामे करे बिभ्रतीम् ॥ याभासक्तरतिस्मरोपरिगतां सख्यौ निजे डाकिनी- वर्णिन्यौ परिदृश्य मोदकलितां श्रीछिन्नमस्तां भजे ॥ ४॥ ३. स्वनाभौ नीरजं ध्यायाम्यर्धं विकसितं सितम् । तत्पद्मकोशमध्ये तु मण्डलं चण्डरोचिषः ॥ ५॥ जपाकुसुमसङ्काशं रक्तबन्धूकसन्निभम् । रजस्सत्वतमोरेखा योनिमण्डलमण्डितम् ॥ ६॥ तन्मध्ये तां महादेवीं सूर्यकोटिसमप्रभाम् । छिन्नमस्तां करे वामे धारयन्तीं स्वमस्तकम् ॥ ७॥ प्रसारितमुखीं देवीं लेलिहानाग्रजिह्विकाम् । पिबन्तीं रौधिरीं धारां निजकण्ठविनिर्गताम् ॥ ८॥ विकीर्णकेशपाशां च नानापुष्पसमन्विताम् । दक्षिणे च करे कर्त्रीं मुण्डमालाविभूषिताम् ॥ ९॥ दिगम्बरां महाघोरां प्रत्यालीढपदे स्थिताम् । अस्थिमालाधरां देवीं नागयज्ञेपवीतिनीम् ॥ १०॥ रतिकामोपरिष्ठां च सदा ध्यातां च मन्त्रिभिः । सदा षोडशवर्षीयां पीनोन्नतपयोधराम् ॥ ११॥ ४. विपरीतरतासक्तौ ध्यायामि रतिमन्मथौ । शाकिनीवर्णिनीयुक्तां वामदक्षिणयोगतः ॥ १२॥ देवीगलोच्छलद्रक्तधारापानं प्रकुर्वतीम् । वर्णिनीं लोहितां सौम्यां मुक्तकेशीं दिगम्बराम् ॥ १३॥ कपालकर्त्रिकाहस्तां वामदक्षिणयोगतः । नागयज्ञेपवीताढ्यां ज्वलत्तेजोमयीमिव ॥ १४॥ प्रत्यालीढपदां विद्यां नानालङ्कारभूषिताम् । सदा द्वादशवर्षीयां अस्थिमालाविभूषिताम् ॥ १५॥ डाकिनीं वामपार्श्वे तु कल्पसूर्यानलोपमाम् । विद्युज्जटां त्रिनयनां दन्तपङ्क्तिबलाकिनीम् ॥ १६॥ दंष्ट्राकरालवदनां पीनोन्नतपयोधराम् । महादेवीं महाघोरां मुक्तकेशीं दिगम्बराम् ॥ १७॥ लेलिहानमहाजिह्वां मुण्डमालाविभूषिताम् । कपालकर्त्रिकाहस्तां वामदक्षिणयोगतः ॥ १८॥ देवीगलोच्छलद्रक्तधारापानं प्रकुर्वतीम् । करस्थितकपालेन भीषणेनातिभीषणाम् । आभ्यां निषेव्यमाणां तां कलये जगदीश्वरीम् ॥ १९॥ इति छिन्नमस्ताध्यानम् ॥