अक्षर आकार:

छेदिन्याःस्तवः

Chedinyastavah

छेदिन्याःस्तवः

अथ वक्ष्ये महादेव्याः छेदिन्याः स्तवमुत्तमम् । छेत्ता त्वं सर्वग्रन्थीनां मत्प्रसादाद् यतीश्वरः ॥ ३१-२४॥ यत्प्रसादादनन्तो हि योगी संसारमण्डले ॥ ३१-२५॥ देशानन्दा सकलगुणदा छेदिनी छेदनस्था हव्यस्था सा विभवनिरता या निधिस्था निशायाम् । सा मे नित्यं कुलकमलगा गोपनीया विधिज्ञा श्रीवागेशी गगनवसना सर्वयोगं प्रपायात् ॥ ३१-२६॥ कामानन्दा मदननिरता भाविता भावसिन्धौ कामानन्दोद्भवरसवती योगियोगस्थधात्री । सा मे धौतं प्रकुरु वपुषो धर्मपुञ्जं प्रपायात् ॥ ३१-२७॥ कालाकालं कमलकलिकावासिनी कालिका मे ग्रन्थिच्छेदं स्थिरगृहगता गात्रनाडीपथस्था । वक्त्राम्भोजे वचनमधुरं धारयन्ती जनानाम् । सा मे रन्ध्रं मम रुचिरतनोः पातु पञ्चानना या ॥ ३१-२८॥ योगाङ्गस्था स्थितिलयविभवा लोमकूपाम्बुजस्था माता गौरी गिरिपतिसुता भासुरास्त्रप्रदीप्ता । सम्पायान्मे हृदयविवरं छेदिनीमूलपूरे कैलासस्था मममनुगिरिं पातु रुद्रप्रसादा ॥ ३१-२९॥ नादान्तःस्था मनगुणधरणासन्नसिद्धान्तपारा भोगानन्दा भगनगबिले काशयन्ती जनानाम् । विद्याविद्या विविधगगना छेदिनी छन्नरूपा । सा सर्वान्तःकरणनिलया लाकिनी प्रेमभावा ॥ ३१-३०॥ योगं स्वर्गेऽर्पयसि मनसि प्रेमभावं परेशे या या यात्रा त्रिविधकरणा कारणा सर्वजन्तोः । माता ज्ञात्री गणेशे गृहिगणसदया सर्वकर्त्री मनो मे रक्षा रक्षाक्षरगतकला केवला निष्कला या ॥ ३१-३१॥ सा योगेन्द्रा समवतु मुदा मे गुदं कुण्डलिन्यां जह्नोः कन्या कमलनिलया राकिणी प्रेमभावान् । मोक्षप्राणान् तपनरहिता पातु मे वेदवक्त्रा सिद्धा मूलाम्बुजदलगता पावनी पातु तुण्डम् ॥ ३१-३२॥ हेरम्बाज्ञा प्रलयघटिता काकिनी क्रोधरूपा ॥ ३१-३३॥ यदि भजति कुलीनः कामिनीं क्रोधविद्यां स भवति परयोगी छेदिनीस्तोत्रपाठात् । सकलदुरितनाशः क्षालनादिप्रसिद्धिः सकलजनवशः स्यात् तस्य नित्यं सुराज्यम् ॥ ३१-३४॥ एतत् स्तोत्रं पठेद्विद्वान् महासंयमतत्परः । मूले मनः स्थिरो याति सर्वानिष्टविनाशनः ॥ ३१-३५॥ सर्वसिद्धिः करे तस्य यो भावं समुपाश्रयेत् श‍ृणुष्व परमानन्द रससागरसम्भव ॥ ३१-३६॥ इति श्रीरुद्रयामले उत्तरतन्त्रे महातन्त्रोद्दीपने षट्चक्रप्रकाशे सिद्धिमन्त्रप्रकरणे भैरवभैरवीसंवादे एकत्रिंशः पटले छेदिन्याः स्तवः समाप्तः ॥ ३१॥ The numbers correspond to paTala and verse numbers from Rudrayamala uttaratantra.