अक्षर आकार:

आर्याम्बिकाशङ्करशारदा स्तोत्रम्

Aryambikashankarasharada Stotram

आर्याम्बिकाशङ्करशारदा स्तोत्रम्

(कालटिक्षेत्रे) भक्तानशोकान्विदधामि शीघ्र- मिति प्रबोधाय ततेर्जनानाम् । अशोकमूले विदधाति मोदा- त्समाधिमार्या जगदार्यमाता ॥ १॥ काषायशुक्लाम्बरसंवृताभ्यां काङ्क्षाधिकेष्टप्रदपूजनाभ्याम् । कायप्रभाधूतसुधाकराभ्यां नमो नमः शङ्करशारदाभ्याम् ॥ २॥ आर्याम्बिकाशङ्करशारदाभ्यो निजाङ्गशोभाजितचन्द्रिकाभ्यः । दिगन्तसंव्याप्तयशच्छटाभ्यो नमोऽस्तु मेधाप्रतिभाप्रदाभ्यः ॥ ३॥ आर्याम्बिकाशङ्करशारदाभ्यः प्रपन्नसंरक्षणदीक्षिताभ्यः । सम्पूरितानन्दमनोहराभ्यो नमोऽस्तु निर्व्याजदयातनुभ्यः ॥ ४॥ आर्याम्बिकाशङ्करशारदाभ्यः पूर्णातटावासकृतादराभ्यः । कारुण्यसम्पूरितमानसाभ्यो नमोऽस्तु कल्याणगुणालयेभ्यः ॥ ५॥ इति श‍ृङ्गेरि श्रीजगद्गुरु श्रीसच्चिदानन्दशिवाभिनवनृसिंह- भारतीस्वामिभिः विरचितं आर्याम्बिकाशङ्करशारदास्तोत्रं सम्पूर्णम् ।