अक्षर आकार:

आद्या कालिकादेव्याः शतनामस्तोत्रम्

AdyA kAlikAdevyAH shatanAmastotram

आद्या कालिकादेव्याः शतनामस्तोत्रम्

कालिकाशतनामस्तोत्रम् ॥ श्रीगणेशाय नमः ॥ ॥ श्रीउमामहेश्वराभ्यां नमः ॥ श्रीसदाशिव उवाच ॥ श‍ृणु देवि जगद्वन्द्ये स्तोत्रमेतदनुत्तमम् । पठनात् श्रवणाद्यस्य सर्वसिद्धीश्वरो भवेत् ॥ १॥ असौभाग्यप्रशमनं सुखसम्पद्विवर्धनम् । अकालमृत्युहरणं सर्वापद्विनिवारणम् ॥ २॥ श्रीमदाद्याकालिकायाः सुखसान्निध्यकारणम् । स्तवस्यास्य प्रसादेन त्रिपुरारिरहं शिवे ॥ ३॥ स्तोत्रस्यास्य ऋषिर्देवि सदाशिव उदाहृतः । छन्दोऽनुष्टुब्देवताऽऽद्या कालिका परिकीर्त्तिता । धर्मकामार्थमोक्षेषु विनियोगः प्रकीर्त्तितः ॥ ४॥ ॐ अस्य श्रीआद्याकालिकाशतनामस्तोत्रमन्त्रस्य श्रीसदाशिवऋषिः । अनुष्टुप्छन्दः । श्री आद्याकालिका देवता । धर्मकामार्थमोक्ष सिध्यर्थे जपे विनियोगः ॥ ह्रीँ काली श्रीँ कराली च क्रीँ कल्याणी कलावती । कमला कलिदर्पघ्नी कपर्दीशकृपान्विता ॥ ५॥ कालिका कालमाता च कालानलसमद्युतिः । कपर्दिनी करालास्या करुणामृतसागरा ॥ ६॥ कृपामयी कृपाधारा कृपापारा कृपागमा । कृशानुः कपिला कृष्णा कृष्णानन्दविवर्द्धिनी ॥ ७॥ कालरात्रिः कामरूपा कामपाशविमोचनी । कादम्बिनी कलाधारा कलिकल्मषनाशिनी ॥ ८॥ कुमारीपूजनप्रीता कुमारीपूजकालया । कुमारीभोजनानन्दा कुमारीरूपधारिणी ॥ ९॥ कदम्बवनसञ्चारा कदम्बवनवासिनी । कदम्बपुष्पसन्तोषा कदम्बपुष्पमालिनी ॥ १०॥ किशोरी कलकण्ठा च कलनादनिनादिनी । कादम्बरीपानरता तथा कादम्बरीप्रिया ॥ ११॥ कपालपात्रनिरता कङ्कालमाल्यधारिणी । कमलासनसन्तुष्टा कमलासनवासिनी ॥ १२॥ कमलालयमध्यस्था कमलामोदमोदिनी । कलहंसगतिः क्लैब्यनाशिनी कामरूपिणी ॥ १३॥ कामरूपकृतावासा कामपीठविलासिनी । कमनीया कल्पलता कमनीयविभूषणा ॥ १४॥ कमनीयगुणाराध्या कोमलाङ्गी कृशोदरी । कारणामृतसन्तोषा कारणानन्दसिद्धिदा ॥ १५॥ कारणानन्दजापेष्टा कारणार्चनहर्षिता । कारणार्णवसम्मग्ना कारणव्रतपालिनी ॥ १६॥ कस्तूरीसौरभामोदा कस्तूरितिलकोज्ज्वला । कस्तूरीपूजनरता कस्तूरीपूजकप्रिया ॥ १७॥ कस्तूरीदाहजननी कस्तूरीमृगतोषिणी । कस्तूरीभोजनप्रीता कर्पूरामोदमोदिता ॥ १८॥ कर्पूरमालाभरणा कर्पूरचन्दनोक्षिता । कर्पूरकारणाह्लादा कर्पूरामृतपायिनी ॥ १९॥ कर्पूरसागरस्नाता कर्पूरसागरालया । कूर्चबीजजपप्रीता कूर्चजापपरायणा ॥ २०॥ कुलीना कौलिकाराध्या कौलिकप्रियकारिणी । कुलाचारा कौतुकिनी कुलमार्गप्रदर्शिनी ॥ २१॥ काशीश्वरी कष्टहर्त्री काशीशवरदायिनी । काशीश्वरकृतामोदा काशीश्वरमनोरमा ॥ २२॥ कलमञ्जीरचरणा क्वणत्काञ्चीविभूषणा । काञ्चनाद्रिकृतागारा काञ्चनाचलकौमुदी ॥ २३॥ कामबीजजपानन्दा कामबीजस्वरूपिणी । कुमतिघ्नी कुलीनार्त्तिनाशिनी कुलकामिनी ॥ २४॥ क्रीँ ह्रीँ श्रीँ मन्त्रवर्णेन कालकण्टकघातिनी । इत्याद्याकालिकादेव्याः शतनाम प्रकीर्त्तितम् ॥ २५॥ ककारकूटघटितं कालीरूपस्वरूपकम् । पूजाकाले पठेद्यस्तु कालिकाकृतमानसः ॥ २६॥ मन्त्रसिद्धिर्भवेदाशु तस्य काली प्रसीदति । बुद्धिं विद्याञ्च लभते गुरोरादेशमात्रतः ॥ २७॥ धनवान् कीर्त्तिमान् भूयाद्दानशीलो दयान्वितः । पुत्रपौत्रसुखैश्वर्यैर्मोदते साधको भुवि ॥ २८॥ भौमावास्यानिशाभागे मपञ्चकसमन्वितः । पूजयित्वा महाकालीमाद्यां त्रिभुवनेश्वरीम् ॥ २९॥ पठित्वा शतनामानि साक्षात् कालीमयो भवेत् । नासाध्यं विद्यते तस्य त्रिषु लोकेषु किञ्चन ॥ ३०॥ विद्यायां वाक्पतिः साक्षात् धने धनपतिर्भवेत् । समुद्र इव गाम्भीर्ये बले च पवनोपमः ॥ ३१॥ तिग्मांशुरिव दुष्प्रेक्ष्यः शशिवत् शुभदर्शनः । रूपे मूर्त्तिधरः कामो योषितां हृदयङ्गमः ॥ ३२॥ सर्वत्र जयमाप्नोति स्तवस्यास्य प्रसादतः । यं यं कामं पुरस्कृत्य स्तोत्रमेतदुदीरयेत् ॥ ३३॥ तं तं काममवाप्नोति श्रीमदाद्याप्रसादतः । रणे राजकुले द्यूते विवादे प्राणसङ्कटे ॥ ३४॥ दस्युग्रस्ते ग्रामदाहे सिंहव्याघ्रावृते तथा । अरण्ये प्रान्तरे दुर्गे ग्रहराजभयेऽपि वा ॥ ३५॥ ज्वरदाहे चिरव्याधौ महारोगादिसङ्कुले । बालग्रहादिरोगे च तथा दुःस्वप्नदर्शने ॥ ३६॥ दुस्तरे सलिले वापि पोते वातविपद्गते । विचिन्त्य परमां मायामाद्यां कालीं परात्पराम् ॥ ३७॥ यः पठेच्छतनामानि दृढभक्तिसमन्वितः । सर्वापद्भ्यो विमुच्येत देवि सत्यं न संशयः ॥ ३८॥ न पापेभ्यो भयं तस्य न रोगेभ्यो भयं क्वचित् । सर्वत्र विजयस्तस्य न कुत्रापि पराभवः ॥ ३९॥ तस्य दर्शनमात्रेण पलायन्ते विपद्गणाः । स वक्ता सर्वशास्त्राणां स भोक्ता सर्वसम्पदाम् ॥ ४०॥ स कर्त्ता जातिधर्माणां ज्ञातीनां प्रभुरेव सः । वाणी तस्य वसेद्वक्त्रे कमला निश्चला गृहे ॥ ४१॥ तन्नाम्ना मानवाः सर्वे प्रणमन्ति ससम्भ्रमाः । दृष्ट्या तस्य तृणायन्ते ह्यणिमाद्यष्टसिद्धयः ॥ ४२॥ आद्याकालीस्वरूपाख्यं शतनाम प्रकीर्तितम् । अष्टोत्तरशतावृत्त्या पुरश्चर्याऽस्य गीयते ॥ ४३॥ पुरस्क्रियान्वितं स्तोत्रं सर्वाभीष्टफलप्रदम् । शतनामस्तुतिमिमामाद्याकालीस्वरूपिणीम् ॥ ४४॥ पठेद्वा पाठयेद्वापि श‍ृणुयाच्छ्रावयेदपि । सर्वपापविनिर्मुक्तो ब्रह्मसायुज्यमाप्नुयात् ॥ ४५॥