अक्षर आकार:

श्रीयतिराजविंशतिः

Shriyatirajavimshati

श्रीयतिराजविंशतिः

श्रीमते रामानुजाय नमः । यः स्तुतिं यतिपतिप्रसादिनीं व्याजहार यतिराजविंशतिम् । तं प्रपन्नजनचातकाम्बुदं नौमि सौम्यभवयोगिपुङ्गवम् ॥ श्री माधवाङ्घ्रिजलज द्वयनित्यसेवा- प्रेमाविलाशयपराङ्कुशपादभक्तम् । कामादिदोषहरमात्मपदाश्रितानां रामानुजंयतिपतिं प्रणमामि मूर्ध्ना ॥ १॥ श्रीरङ्गराजचरणाम्बुजराजहम्सं श्रीमत्पराङ्कुशपादाम्बुजभृङ्गराजम् । श्रीभट्टनाथ परकालमुखाब्जमित्रं श्रीवत्सचिह्नशरणं यतिराजमीडे ॥ २॥ वाचा यतीन्द्र मनसा वपुषा च युष्मत्- पादारविन्दयुगलं भजतां गुरूणाम् । कूराधिनाथ कुरुकेशमुखाद्य पुंसां पादानुचिन्तनपरः सततं भवेयम् ॥ ३॥ नित्यं यतीन्द्र तव दिव्यवपुःस्मृतौ मे सक्तं मनो भवतुवाग्गुणकीर्तनेऽसौ । कृत्यञ्च दास्यकरणं तु करद्वयस्य वृत्त्यन्तरेऽस्तु विमुखं करणत्रयञ्च ॥ ४॥ अष्टाक्षराख्यमनुराजपदत्रयार्थ- निष्ठां ममात्र वितराद्य यतीन्द्रनाथ । शिष्टाग्रगण्यजनसेव्यभवत्पदाब्जे हृष्टाऽस्तु नित्यमनुभूय ममास्य बुद्धिः ॥ ५॥ अल्पाऽपि मे न भवदीयपदाब्जभक्तिः शब्दादिभोगरुचिरन्वहमेधतेहा । मत्पापमेव हि निदानममुष्य नान्यत्- तद्वारयार्य यतिराज दयैकसिन्धो ॥ ६॥ वृत्त्या पशुर्नरवपुस्त्वहमीद्रुशोऽपि श‍ृत्यादिसिद्धनिखिलमात्मगुणाश्रयोऽयम् । इत्यादरेण कृतिनोऽपि मिथः प्रवक्तुम्- अद्यापि वञ्चनपरोऽत्र यतीन्द्र वर्ते ॥ ७॥ दुःखावहोऽहमनिशं तव दुष्टचेष्टः शब्दादिभोगनिरतश्शरणागताख्यः । त्वत्पादभक्त इव शिष्टजनौघमध्ये मिथ्या चरामि यतिराज ततोऽस्मि मूर्खः ॥ ८॥ नित्यं त्वहं परिभवामि गुरुं च मन्त्रं तद्देवतामपि न किञ्चिदहो विभेमि । इत्थं शठोऽप्यशठवद्भवदीय सङ्धे हृष्टश्चरामि यतिराज ततोऽस्मि मूर्खः ॥ ९॥ हा हन्त हन्त मनसा क्रियया च वाचा योऽहञ्चरामि सततं त्रिविधापचारान् । सोऽहं तवाऽप्रियकरः प्रियकृद्वदेव कालं नयामि यतिराज ततोऽस्मि मूर्खः ॥ १०॥ पापे कृते यदि भवन्ति भयानुताप- लज्जाः पुनः करणमस्य कथं घटेत । मोहेन मे न भवतीह भयादिलेश- स्तस्मात्पुनः पुनरघम् यतिराज कुर्वे ॥ ११॥ अन्तर्बहिस्सकलवस्तुषु सन्तमीशम्- अन्धः पुरस्स्थितमिवाहमवीक्षमाणः । कन्दर्पवश्यहृदयस्सततं भवामि हन्त त्वदग्रगमनस्य यतीन्द्र नार्हः ॥ १२॥ तापत्रयीजनितदुःखनिपातिनोऽपि देहस्थितौ मम रुचिस्तु न तन्निवृत्तौ । एतस्य कारणमहो मम पापमेव नाथ त्वमेव हर तद्यतिराज शीघ्रम् ॥ १३॥ वाचामगोचर महागुण देशिकाग्र्य कूराधिनाथ कथिताऽखिलनैच्यपात्रम् । एषोऽहमेव न पुनर्जगतीदृशस्तद्- रामानुजार्य करुणैव तु मद्गतिस्ते ॥ १४॥ शुद्धात्मयामुनगुरूत्तम कूरनाथ भट्टाख्यदेशिकवरोक्तसमस्तनच्यम् । अद्याऽस्त्यसङ्कुचितमेव मयीह लोके तस्माद्यतीन्द्र करुणैव तु मद्गतिस्ते ॥ १५॥ शब्दादिभोगविषया रुचिरस्मदीया नष्टा भवत्विह भवद्दयया यतीन्द्र । त्वद्दासदासगणनाचरमावधौ य- स्तद्दासतैकरसताऽविरता ममास्तु ॥ १६॥ श्रुत्यग्रवेद्यनिजदिव्यगुणस्वरूपः प्रत्यक्षतामुपगतस्त्विह रङ्गराजः । वश्यस्सदा भवति ते यतिराज तस्मात्- छक्तः स्वकीयजनपापविमोचने त्वम् ॥ १७॥ कालत्रयेऽपि करणत्रयनिरमिताति- पापक्रियस्य शरणम् भगवत्क्षमैव । सा च त्वयैव कमलारमणेऽर्थिता यत्- क्षेमः स एव हि यतीन्द्र भवच्छ्रितानाम् ॥ १८॥ श्रीमन् यतीन्द्र तवदिव्यपदाब्जसेवां श्रीशैलनाथकरुणापरिणामदत्ताम् । तामन्वहं मम विवर्धय नाथ तस्याः कामं विरुद्धमखिलं च निवर्तयत्वम् ॥ १९॥ विज्ञापनं यदिदमद्य तु मामकीनम्- अङ्गीकुरुष्व यतिराज दयाम्बुराशे । अज्ञोऽयमात्मगुणलेशविवर्जितश्च तस्मादनन्यशरणो भवतीति मत्वा ॥ २०॥ इति यतिकुलधुर्यमेधमानैः श्रुतिमधुरैरुदितै प्रहर्षयन्तम् । वरवरमुनिमेव चिन्तयन्ती मतिरियमेति निरत्ययं प्रसादम् ॥ २१॥ इति श्रीयतिराजवीम्शतिः सम्पूर्णा । The numbers in some prints are shifted since the first one is not numbered here.