अक्षर आकार:

श्रीयोगीश्वरयाज्ञवल्क्यमङ्गलशासनम्

shrIyogIshvara-yAGYavalkya-mangalAshAsanam

श्रीयोगीश्वरयाज्ञवल्क्यमङ्गलशासनम्

॥ श्रीगुरुभ्यो नमः ॥ ॥ ॐ श्रीमहागणाधिपतये नमः ॥ ॥ श्रीमच्चरणवैभवायै नमः ॥ ॥ श्रीयोगीश्वर-याज्ञवल्क्य-मङ्गलाशासनम् ॥ ब्रह्मरात-महायोगि-बृहत्-सुकृत-मूर्तये । सुनन्दा-सुतरत्नाय सानन्दायास्तु मङ्गलम् ॥ १॥ जननी-जठर-प्राप्त-जलजाक्ष-दयोदयः । योऽभूत् परात्मवेत्तास्मै याज्ञवल्क्याय मङ्गलम् ॥ २॥ कृपागुरुर्गुरुर्यस्य ह्यकरोदुपनायनम् । वृद्धव्यास-प्रसादात्त-वैदुष्यायास्तु मङ्गलम् ॥ ३॥ वैशम्पायन-प्राप्तादृक्-वृजिनच्छेद-शक्तये । वैदेह-वसुधानाथ-वन्दनीयाय मङ्गलम् ॥ ४॥ मैथिलास्थ-नगस्थूणा-मञ्जुपल्लव-कारिणः । मन्त्राक्षताः बभुर्यस्य माननीयाय मङ्गलम् ॥ ५॥ वैशम्पायनतोऽधीतं ववाम यजुरुज्ज्वलम् । यस्सभायां तपोभाजां योगिवर्याय मङ्गलम् ॥ ६॥ स्वशक्ति-ख्यापनोद्युक्त-सप्तसैन्धवशासनात् । आहर्त्रे बडवाश्वानां अर्कशिष्याय मङ्गलम् ॥ ७॥ अयातयाममाम्नायं आम्नायवपुषो हरेः । अध्यैष्ट यो मुनिस्तस्मा अक्षय्यं भूरि मङ्गलम् ॥ ८॥ यस्य चित्ररथः शिष्यो योगिनेतुःप्रसादतः। कात्यायनीप्रियायास्मै कृपासाराय मङ्गलम् ॥ ९॥ मिथिलाधिपदत्ताग्रमाननाय महात्मने । आहर्त्रे सौरभेयीनां अध्वरान्तेस्तु मङ्गलम् ॥ १०॥ पितामहमनःपुत्रीपरिणेत्रे पटीयसे । शान्तोद्धालकगर्वाय शान्तिसाराय मङ्गलम् ॥ ११॥ दर्भ-स्तम्भ-हृत-ग्रीव-दृप्त-शाकल्य-जीवनम् । चकार यः प्रभावेन चित्रचर्याय मङ्गलम् ॥ १२॥ इति माङ्गलिकैः श्लोकैः उपनदतः कण्वमुख्यसच्छिष्यान् । अनुगृह्णन् शुक्लयजुः- शाखाचार्यो मुनीश्वरो जयति ॥ १३॥ ॥ शुभमस्तु ॥