अक्षर आकार:

श्रीव्यासस्तुतिः २ अथवा श्रीवासिष्ठकृष्णाष्टकम्

Shri Vyasa Stuti 2 or Shri Vasishtha Krishna Ashtakam

श्रीव्यासस्तुतिः २ अथवा श्रीवासिष्ठकृष्णाष्टकम्

श्रीशं विचित्रकवितारसपूरिताशं श्रीशङ्करोरग खगेन्द्र हृदब्जवासम् । आशङ्कमान जनतृप्तिकरोऽतिहासं व्यासं नतोस्मि हरितोपलसन्निकाशम् ॥ १॥ वेदान्तसूत्र पवनोद्धृत पञ्चवेदा मोदांशतोषित सुरर्षिनरादिभेदाम् । बोधाम्बुजात लसितां सरसीमगाधां श्रीदां शितोस्मि शुकतातपदामखेदाम् ॥ २॥ द्वैपायनो जयति यन्निजशक्तिदीपः पापाभिवर्धित कुवादितमिस्रतापः । पापाख्यदुर्भगदशाकृति तीव्रकोपः पापाद्भुतौषधिरगे श्वसनांशरूपः ॥ ३॥ इन्द्रादिदैवत हृदाख्य चकोरचन्द्रा मन्दाशु कल्पशुभ जल्पित पुष्पवृन्दः । वृन्दारकाङ्घ्र्युपलता गुणरत्नसान्द्रो मन्दाय मे फलतु कृष्णतरुः फलं द्राक् ॥ ४॥ माताहितेव परिरक्षतियेन गीता गीताग्र्य भारत पुराणकृताविगीता । वातांश मध्ववरदः सगिरो ममैताः ख्याता पराशरसुतो विदधातु धाता ॥ ५॥ पारं भवाख्यजलधेर्भुवनैकसारं स्वैरं कृतोरुविध वेद पथ प्रचारम् । आरञ्जितामरजनं सुखचिच्चरीरं धीर स्मरामि हृदि सत्यवतीकुमारम् ॥ ६॥ भावाश्रितं यमनुसृत्य भजन्ति देवाः सेवारताश्व मुनयः कवयोनृदेवाः । यो वासुदेव वपुरस्य महानुभावां च्छ्रिबादरायण हरेर्न गृणीत कोवा ॥ ७॥ ज्ञानं प्रदेहि भवदागमवार्ध्यधीनं श्रीनन्दसूनु पदभक्ति नदीनिदानम् । आनन्दतीर्थवरदोच्च महाध्वनीनं दीनं बदर्यधिपते कुरु माममानम् ॥ ८॥ वासिष्ठवंशतिलकस्य हरेर्मनोज्ञं दोषौघखण्डनविशारदमष्टकं ये । दासाः पठन्त्यनुदिनं भुवि वादिराज धीसम्भवं परिभवो न दिशाशु तेषाम् ॥ ९॥ इति श्रीवादिराजयतिविरचिता व्यासस्तुतिः समाप्ता ।