अक्षर आकार:

व्यासस्तुतिः

Vyasastutih

व्यासस्तुतिः

व्यासं वसिष्ठ-नप्तारं शक्तेः पौत्रमकल्मषम् । पराशरात्मजं वन्दे शुकतातं तपोनिधिम् ॥ १॥ अचतुर्वदनो ब्रह्मा द्विबाहुरपरो हरिः । अभाललोचनः शम्भुर्भगवान् बादरायणः ॥ २॥ नमोऽस्तु ते व्यास विशालबुद्धे फुल्लारविन्दायतपतनेत्र । येन त्वया भारततैलपूर्ण प्रज्वालितो ज्ञानमयः प्रदीपः ॥ ३॥ नमः सर्वविदे तस्मै व्यासाय कविवेधसे । चक्रे पुण्यं सरस्वत्या यो वर्षमिव भारतम् ॥ ४॥ वदन-कमल-निर्यद्यस्य पीयूषमाद्यं पिबति जनवरोऽयं पातु सोऽयं गिरं मे । वदनवन-विहारः सत्यवत्या कुमारः प्रणतदुरितहारः शार्ङ्ग धन्वावतारः । इति व्यासस्तुतिः समाप्ता ।