अक्षर आकार:

श्रीव्यासराजस्तोत्रम्

Shri Vyasaraja Stotram

श्रीव्यासराजस्तोत्रम्

वन्दे मुकुन्दमरविन्दभवादिवन्द्यं इन्दिन्दिराप्रततमेचकमाकटाक्षम् । बन्दीकृतामरममन्दमतिं विदध्या- दानन्दतीर्थहृदयाम्बुजमत्तभृङ्गः ॥ १॥ श्रीव्यासयोगी हरिपादरागी भक्तातिपूगी हितदक्षसद्गीः । त्यागी विरागी विषयेषु भोगी मुक्तौ सदा गीतसुरेन्द्रसङ्गी ॥ २॥ लक्ष्मीशपादाम्बुजमत्तभृङ्गः सदा दशप्रज्ञनयप्रसङ्गः । अद्वैतवादे कृतमूलभङ्गः महाव्रतीशो विषयेष्वसङ्गः ॥ ३॥ सदा सदायत्तमहानुभावः भक्ताघतूलोच्चयतीव्रदावः । दौर्जन्यविध्वंसनदक्षरावः शिष्याश्च यो यच्छति दिव्यगावः ॥ ४॥ आद्वैतदावानलकालमेघः रमारमस्नेहविदारिताघः । वाग्वैखरीनिर्जितसज्जनौघः मायामतव्रातहिमे निदाघः ॥ ५॥ मध्वसिद्धान्तदुग्धाब्धिवृद्धि पूर्णकलाधरः । व्यासराजयतीन्द्रो मे भूयादीप्सितसिद्दये ॥ ६॥ यन्नामग्रहणादेव पापराशिः पलायते । सोयं श्रीव्यासयोगीन्द्रो निहन्तु दुरितानि नः ॥ ७॥ यन्मृत्तिकादर्शनमात्रभीतः क्वचित्पिशाचस्तदनुव्रतेभ्यः । दत्टा धनं वाञ्छितमाप्य तस्य तैर्वा जितोयादचिरेण मुक्तिम् ॥ ८॥ यत्कौशिकानासिकाक्तजलान्निःशङ्किते नरे । व्याघ्रो महानपि स्प्रष्टुं नाशकत्त्वामिहाश्रये ॥ ९॥ द्वात्रिंशत्सप्तशतकमूर्तीर्हनुमतः प्रभोः । प्रतिष्ठाता स्मृतिख्यातस्तं भजे व्यासयोगिनम् ॥ १०॥ सीमानं तत्र तत्रैत्य क्षेत्रेषु च महामतिः । व्यवस्थाप्यात्र मर्यादां लब्धवांस्तमिहाश्रये ॥ ११॥ मध्वदेशिकसिद्धान्तप्रवर्तकशिखामणिः । सोयं श्रीव्यासयोगीन्द्रो भूयादीप्सितसिद्धये ॥ १२॥ भूतप्रेतपिशाचाद्या यस्य स्मरणमात्रतः । पलायन्ते श्रीनृसिंहस्थानं तमहमाश्रये ॥ १३॥ वातज्वरादिरोगाश्च भक्त्या यमुपसेविनः । दृढव्रतस्य नश्यन्ति पिशाचाश्च तमाश्रये ॥ १४॥ तारपूर्णं बिन्दुयुक्तप्रथमाक्षरपूर्वकम् । चतुर्थ्यन्तं च तन्नाम नमःशब्दान्तभूषितम् ॥ १५॥ पाठयन्तं मध्वनयं मेघगम्भीरया गिरा । ध्यायन्नावर्तयेद्यस्तु भक्त्या मेधां स विन्दते ॥ १६॥ रत्नसिंहासनारूढं चामरैरभिवीजितम् । ध्यायन्नावर्तते यस्तु महतीं श्रियमाप्नुयात् ॥ प्रह्लादस्यावतारोसाविन्द्रस्यानुप्रवेशवान् । तेन तत्सेविनां नॄणां सर्वमेतद्भवेद्ध्रुवम् ॥ १८॥ नमो व्यासमुनीन्द्राय भक्ताभीष्टप्रदायिने । नमतां कल्पतरवे भजतां कामधेनवे ॥ १९॥ व्यासराजगुरो मह्यं त्वत्पादाम्बुजसेवनात् । दुरितानि विनश्शन्तु यच्छ शीघ्रं मनोरथान् ॥ २०॥ यो व्यासत्रयसंज्ञकान् दृढतरान्ग् मध्वार्यशास्त्रार्थकान् रक्षद्वज्रशिलाकृतीन् बहुमतान्ग् कृत्वा परैर्दुस्तरान् । प्रायच्छन्निजपादपद्मसरसीजासक्त नॄणां मुदा सोयं व्यासमुनीश्वरो भवतु मे तापत्रयक्षान्तये ॥ २१॥ मध्वभक्तो व्यासशिष्यपूर्णप्रज्ञमतानुगः । व्यासराजमुनिश्रेष्ठः पातु नः कृपया गुरुः ॥ २२॥ व्यासराज व्यासराज इति भक्त्या सदा जपन् । मुच्यते सर्वदुःखेभ्यस्तदन्तर्यामिणो बलात् ॥ २३॥ स्तुवन्ननेन मन्त्रेण व्यासराजाय धीमते । अभिषेकार्चनादीन्यः कुरुते स हि मुक्तिभाक् ॥ २४॥ गुरुभक्त्या भवेद्विष्णुभक्तिरव्यभिचारिणी । तया सर्वं लभेद्धीमांस्तस्मादेतत्सदा पठेत् ॥ २५॥ इति श्रीपरमहंसपरिव्राजकाचार्याणां श्रीसुरेन्द्रतीर्थ पूज्यपादानां शिष्येण विजयीन्द्रभिक्षुणाविरचितं श्रीव्यासराजस्तोत्रं सम्पूर्णम् ।