अक्षर आकार:

श्रीव्यासराजनवरत्नपद्यमाला

Shri Vyasaraja(tIrtha) Navaratna Padyamala

श्रीव्यासराजनवरत्नपद्यमाला

श्रीनववृन्दावनस्थगुरुपरम्परास्तोत्रसहितम् श्रीवेदव्यासाय नमः ॥ हरिः ॐ ॥ गोपालकृष्णो जयति सत्यारुक्मिणिसंयुतः । ब्रह्मण्यतीर्थसम्भूतव्यासराजवरप्रदः ॥ १॥ कल्याणं वितनोतु कंसमथनो गोपालकृष्णोऽनिशं सत्यापाण्डवपूजितो यदुपतिस्स व्यासतीर्थाग्रतः । भैष्मीसेवितदक्षिणाघ्रिकमले विन्यस्य वामं पदं बालस्सुन्दरभङ्गिभावमधुरो यो नृत्यति स्माद्भुतम् ॥ २॥ पातु ब्रह्मण्यतीर्थव्रतिवरतिलकस्तत्वविद्याप्रदाता ध्यायन् ब्रह्मण्यदेवं प्रकटितमहिमा भूसुरैर्वन्धपादः । सर्वाभीष्टप्रदाता सकलभयहरः सर्वरोगापहर्ता भास्वान्स्वांशावतीर्णो महितमहिमभाक् व्यासराजस्तुतोऽस्मान् ॥ ३॥ कण्वापगातटगुहोदितगर्जितेन प्रोद्वेजिता निखिलवादिगजा हि येन । विद्राविताः सपदि सङ्करदुर्मतान्धाः तं व्यासतीर्थमृगराजमिमं नमामि ॥ ४॥ श्रीकृष्णदेवपृथिवीपतिना स्वराज्य लक्ष्म्याश्रितश्च गुरुवत्प्रभुणा सुराणाम् । विद्याधिराट् विजयविठ्ठलभक्तिभाग् यः स व्यासराट् दिशतु शं सततं प्रसन्नः ॥ ५॥ श्रीवेङ्कटेशपदपङ्कजदिव्यगन्ध- संसेवनात्समुदितप्रतिभाप्रभाय । ब्रह्मण्यतीर्थचरणाम्बुजबम्भराय श्रीव्यासराजगुरवेऽस्तु नमश्शुभाय ॥ ६॥ योगीश्वराय सुखतीर्थकरार्चितश्री योगासनस्थनृहरेः समुपासकाय । शान्ताय शश्वदपरोक्षितशौरयेऽस्मै श्रीव्यासराजगुरवेऽस्तु नमश्शुभाय ॥ ७॥ गोपालकृष्णकृतनर्तनरञ्जिताय । रागादिदोषरहिताय दृढव्रताय । स्वस्थापितान्धुहनुमत्परवेङ्कटार्च- श्रीव्यासराजगुरवेऽस्तु नमश्शुभाय ॥ ८॥ श्रीशप्रसादकरमानसपूजनाय सज्ज्ञानभक्तिसुविरक्तिसुखप्रदाय । प्रह्लादकाय भजतां हि सुरद्रुमाय श्रीव्यासराजगुरवेऽस्तु नमश्शुभाय ॥ ९॥ श्रीमत्समीरसमयाब्धिसुधाकराय मिथ्याकुशास्त्रतमसो हि विभाकराय । व्यासत्रयामृतदुहे भुवि देवताभ्यः श्रीव्यासराजगुरवेऽस्तु नमश्शुभाय ॥ १०॥ अक्षादिसिद्धजगतोऽस्य यथोर्णनाभि- जन्मादिमोक्षदहरेः परमप्रियाय । श्रीमज्जयीन्द्रपदवीपरिवर्धकाय श्रीव्यासराजगुरवेऽस्तु नमश्शुभाय ॥ ११॥ क्षेत्रेऽब्बुरौ ह्युपगुहं पुरुषोत्तमाख्ये ब्रह्मण्यतीर्थगुरुभिर्द्विकविठ्ठलाचैः । वेदान्तराज्यनिजराज्यपदेऽभिषिक्त राजाधिराजगुरवेस्तु नमो नमस्ते ॥ १२॥ वैय्याघ्रपादपुरमध्यसुशोभमान श्रीव्यासराजहृदयाब्जसुमध्यवर्ती । लक्ष्मीनिवासगुरुणा प्रणुतस्सलक्ष्मी- नारायणश्च हनुमान् मुदितोऽस्तु कृष्णः ॥ १३॥ श्रीव्यासराजमुनिगायनतृप्तचेता नृत्यन्सुरेन्द्रसुतपूजितपादपद्मः । कुन्दापुरीयमठभिक्षुवरार्च्यमान भैष्मीसमेतमुरलीधरमाधवोऽव्यात् ॥ १४॥ श्रीमद्ब्रह्मण्यतीर्थव्रतिवरतिलकालब्धजन्मापरोक्ष्यः लक्ष्मीनारायणार्यान्निजगुरुचरणात्प्राप्तविद्याधिलक्ष्मीः । सोऽयं श्रीव्यासराजो विजयसखहरि पूजयन्भावपुष्पैः अग्र्ये वृन्दावनेऽस्मिन् सुखयति सुजनान् सर्वदाऽभीष्टवृष्ट्या ॥ १५॥ ब्रह्मण्यार्यस्ततोऽभून्नरहरिमनिशं पूजयन्कण्वनद्यां स्नायन्शिष्याहृतान्नं युदजगमुदकं प्रोक्ष्य तप्तं विधाय । स्नात्वा भुक्त्वा पुनश्च क्वचिदुपगतवान् भूस्थितां विठ्ठलार्चा शिष्येभ्यो मध्वशास्त्रं ह्यनिशमुपजगौ विठ्ठलप्रीतिमिच्छन् ॥ १६॥ अर्थिकल्पितकल्पोऽयं प्रत्यर्थिकरिकेसरी । व्यासतीर्थगुरुभूयादस्मदिष्टार्थसिद्धये ॥ श्रीः ॥ पद वाक्यप्रमाणज्ञान् संप्रदायार्थकोविदान् । व्यासतीर्थमुनीन्वन्दे दुर्वादिफाणिपक्षिपान् । इति श्रीवेङ्कटरमणाचार्यविरचितं श्रीव्यासराजकोमलकरकमलार्चितश्रीरुक्मिणी- सत्यभामासमेतश्रीवेणुगोपालकृष्णः प्रीयताम् ॥ अथ श्रीनववृन्दावनस्थगुरुपरम्परास्तोत्रम् । प्रीतो वरदो भवतु । श्रीकृष्णार्पणमस्तु । श्रीशं मध्वं पद्मनाभं वादिद्विपमृगाधिपम् । कवीन्द्र कुमतारण्यपावाकं तत्वदीपपकम् ॥ १॥ समीरशास्त्रवागीशं वागीशाख्यं गुरुं परम् । ब्रह्मण्यतीर्थसम्भूतं ज्ञानवैराग्यदायकम् । जगद्गुरुं व्यासराजं वादिराजगुरुं भजे ॥ २॥ रघुवर्यं सुधीन्द्रं च श्रीनिवासं परं गुरुम् । दुर्वादिफणिविद्वेषे गुरुमन्तं तपोनिधिम् ॥ ३॥ रामतीर्थगुरुं वन्दे गोविन्दाख्यं यतिं पुनः । तुङ्गभद्रामध्यगतं नववृन्दावनस्थितम् ॥ ४॥ रमणोपपदेनेयं वेङ्कटेन कृता शुभा । व्यासराजस्तुतिर्भूयात्प्रीत्यै माधवमध्वयोः ॥ ५॥ इति श्रीवेङ्कटरमणाचार्यविरचितं श्रीनववृन्दावनस्थगुरुपरम्परास्तोत्रं सम्पूर्णम् ॥ ॥ श्रीकृष्णार्पणमस्तु ॥ ॥ इति ॥