अक्षर आकार:

श्रीव्यासनामावलीस्तोत्रम्

Shri Vyasa Namavali Stotram

श्रीव्यासनामावलीस्तोत्रम्

ईशिता श्रुतिभर्ताच भुवन प्रभुरेव च । जगद्गुरुः सद्गुरुश्च मुनिवंशस्य शेखरः ॥ १॥ भगवत्तमो वेदराट् च तथा सत्यवतीसुतः । श्रुतीश्वरो नीलभाश्च पाराशर्यो महाप्रभुः ॥ २॥ वेदव्यासः सत्पतिश्च द्विजेन्द्रान्वयजस्तथा । जगत्पिताजितश्चैव मुनीन्द्रोवेदनायकः ॥ ३॥ देवतापूज्यचरणश्चाम्नायानां सुपालकः । भारतानां वरगुरुः ब्रह्मसूत्रप्रणायकः ॥ ४॥ द्वैपायनो मध्वनाथो ज्ञानसूर्यः सदिष्टदः । विद्यापतिः श्रुतिपतिः विद्याराजो गिरां प्रभुः ॥ ५॥ विद्याधिराजो वेदेशस्तथा वेदपतिः स्वभूः । विद्याधिनाथो वेदराट् तथाम्नाय विकासकः ॥ ६॥ विद्याधीशः श्रुतीशश्च श्रुतिपङ्कज भास्करः । कृष्णद्वैपायनो व्यासो भक्तचिन्तामणिस्तथा ॥ ७॥ महाभारत निर्माता कवीन्द्रो बादरायणः । स्मृतिमात्रार्तिहा चैव भक्तवित्रासहा तथा ॥ ८॥ विश्ववेत्ता विश्वपतिर्भक्ता ज्ञान विनाशकः । विघ्नौघध्वान्ततरणिर्विघ्नाटव्याश्च हव्यवाट् ॥ ९॥ विघ्नव्याल विपश्चैव विघ्नौघ घन मारुतः । विघ्नर्भ पञ्चाननश्च विघ्नपर्वत सत्पविः ॥ १०॥ विघ्नाब्धिकुम्भजश्चैव विघ्नतूल सरागतिः । बादरिर्जैमिनिश्चैव सुमन्तुर्वैशम्पायनः ॥ ११॥ आत्मरथ्यश्च पैलश्च काशकृत्स्नश्च लोमशः । कार्ष्णाजनिश्चौडुलोमिरात्रेयो रोमहर्षणः ॥ १२॥ इत्येते मुनयः शिष्या यस्यासौ मुनिशेखरः । ब्रह्माद्यैः प्रार्थितो विष्णुः सत्यवत्यां पराशरात् ॥ १३॥ प्रादुर्भूतो व्यासरूपी वेदोद्धारकस्तथा । विज्ञानरोचिषा पूर्णो ब्रह्माण्डान्तर्बहिस्तथा ॥ १४॥ योगिमानस कञ्जस्थः हरितोपलसन्निभः । भक्ताज्ञान सुसंहारी तर्क मुद्रायुतः करे ॥ १५॥ दक्षिणे भवभीतानां भवनाशाय मुद्रया । अभयाख्यया युतः सव्ये करे सन्मङ्गलप्रदः ॥ १६॥ प्राज्ञमौलिश्च पुरुधीः सुखकान्तिर्विबोध भाः । शतेन्द्वधिक सत्कान्तिरयोग्य जनमोहकः ॥ १७॥ शुक्लरक्त विदूरश्च ब्रह्माद्यैर्वर्णमानिभिः ॥ संस्तुतानन्द सुगुणो योगीन्द्रः पद्मजार्चितः ॥ १८॥ आचार्यवर्यो विप्रात्मा पापनाशननामवान् । वेदान्तकर्ता भक्तानां कविताधिगुणप्रदः ॥ १९॥ वादे विजयदश्चैव रणे च विजयप्रदः । कीटराज्यप्रदः कीटमोक्षदाता च सत्प्रभुः ॥ २०॥ आम्नायोद्धारकश्चैव तथा सत्परुवंशकृत् । मुनेः शुकस्य जनको जनकस्योपदेशकः ॥ २१॥ मातुः स्म्यत्यैवागमन वरदातेश्वरेश्वरः । यमुनाद्वीप सुजनिर्यमुनाद्वीप भासकः ॥ २२॥ मात्राज्ञापालनार्थाय भगवान् पुरुषोत्तमः । धृतराष्ट्र पाण्डु विदुरजनको ज्ञानदस्तथा ॥ २३॥ उग्ररूपः शान्तरूपोचिन्त्यशक्तिः परात्परः । पाण्डवानां दुःखहन्ता तथापरिमितान्तरः ॥ २४॥ हिडिम्बासङ्ग्रहार्ताय भीमाज्ञा संप्रदायकः । शाक्तः कानीन इन्द्रश्च शास्त्रकृद्धरिरेव च ॥ २५॥ द्विषामज्ञानपापानामतिसङ्क्रामकस्तथा । कर्म बन्ध सुभेत्ता च मुक्तानां स्वात्मवाहकः ॥ २६॥ वासवी हृदयानन्द वेदशास्त्र प्रणायकम् । वेदव्यासं गुरूपास्यं वन्देभिष्टप्रदायकम् ॥ २७॥ (न्यायामृत प्रकाशः) इति श्रीबिदरहऌ श्रीनिवासतीर्थकृतं श्रीव्यासनामावलिस्तोत्रं सम्पूर्णम् ।