अक्षर आकार:

श्रीवेदव्यासाष्टोत्तरशतनामावली २

Veda Vyasa Ashtottara-shata Namavali 2

श्रीवेदव्यासाष्टोत्तरशतनामावली २

ॐ नारायणाय नमः । ॐ नराकाराय नमः । ॐ तपोभूताय नमः । ॐ तपोनिधये नमः । ॐ वेदव्यासाय नमः । ॐ नीलभासाय नमः । ॐ संसारार्णवतारकाय नमः । ॐ ज्ञानावताराय नमः । ॐ पुरुधिये नमः । ॐ शास्त्रयोनये नमः ॥ १०॥ ॐ चिदाकृतये नमः । ॐ पराशरात्मजाय नमः । ॐ पुण्याय नमः । ॐ मुनिवंशशिखामणये नमः । ॐ कालीपुत्राय नमः । ॐ कलिध्वंसकाय नमः । ॐ कानीनाय नमः । ॐ करुणार्णवाय नमः । ॐ कीटमुक्तिप्रदाय नमः । ॐ कृष्णाय नमः ॥ २०॥ ॐ कुरुवंशविवर्धकाय नमः । ॐ कुरुक्षेत्रनिजावासाय नमः । ॐ हिमाचलकृतालयाय नमः । ॐ कमण्डलुधराय नमः । ॐ संविन्मुद्राय नमः । ॐ अभीतिप्रदायकाय नमः । ॐ विशालवक्षसे नमः । ॐ शुचिवाससे नमः । ॐ कृष्णाजिनविराजिताय नमः । ॐ महाललाटविलसत्त्रिपुण्ड्राय नमः ॥ ३०॥ ॐ पद्मलोचनाय नमः । ॐ भूतिभूषितसर्वाङ्गाय नमः । ॐ रुद्राक्षभरणान्विताय नमः । ॐ दण्डपाणये नमः । ॐ दीर्घकायाय नमः । ॐ जटावलयशोभिताय नमः । ॐ महायोगिने नमः । ॐ महामतये नमः । ॐ भक्तिधाराधराय नमः । ॐ विभवे नमः ॥ ४०॥ ॐ वेदोद्धर्त्रे नमः । ॐ जितप्राणाय नमः । ॐ चिरजीविने नमः । ॐ जयप्रदाय नमः । ॐ वैशम्पायन-वन्द्याङ्घ्रये नमः । ॐ पैलजैमिनिपूजिताय नमः । ॐ सुमन्तुशिक्षकाय नमः । ॐ सूतपुत्रानुग्रहकारकाय नमः । ॐ वेदशाखाविनिर्मात्रे नमः । ॐ काण्डत्रयविधायकाय नमः ॥ ५०॥ ॐ वेदान्तपुण्यचरणाय नमः । ॐ आम्नायनसुपालकाय नमः । ॐ अचिन्त्यरचनाशक्तये नमः । ॐ अखण्डैकात्मसंस्थितये नमः । ॐ अष्टादशपुराणाब्जसूर्याय नमः । ॐ सुरिजनेश्वराय नमः । ॐ महाभारतकर्त्रे नमः । ॐ ब्रह्मसूत्रप्रणायकाय नमः । ॐ द्वैपायनाय नमः । ॐ अद्वैतगुरवे नमः ॥ ६०॥ ॐ ज्ञानसूर्याय नमः । ॐ सदिष्टदाय नमः । ॐ विद्यापतये नमः । ॐ श्रुतिपतये नमः । ॐ वाक्पतये नमः । ॐ नतभूपतये नमः । ॐ वेदाङ्गाधिपतये नमः । ॐ राष्ट्रपतये नमः । ॐ गणपतेः पतये नमः । ॐ मात्राज्ञापालकाय नमः ॥ ७०॥ ॐ अमानिने नमः । ॐ त्रिकालज्ञाय नमः । ॐ अमितद्युतये नमः । ॐ धृतराष्ट्र शुक-पाण्डु-विदुरात्म-विभावकाय नमः । ॐ धर्मगोप्त्रे नमः । ॐ धर्ममूर्तये नमः । ॐ कुधर्मपरिहारकाय नमः । ॐ प्रतिस्मृत्याख्य-विद्याविदे नमः । ॐ पार्थकार्यसहायकाय नमः । ॐ युधिष्ठिरप्रतिष्ठात्रे नमः ॥ ८०॥ ॐ जनमेजयचोदकाय नमः । ॐ शुकानुशासकाय नमः । ॐ श्रीमते नमः । ॐ ब्रह्मपुत्र-प्रबोधिताय नमः । ॐ देशिकौघ-प्रतिनिधये नमः । ॐ दर्शिताद्भुत-वैभवाय नमः । ॐ दिव्यदृष्टिप्रदे नमः । ॐ कुन्ती-गान्धारी-तापहारकाय नमः । ॐ सत्यवतीसुताय नमः । ॐ सौम्याय नमः ॥ ९०॥ ॐ सत्यकान्ताय नमः । ॐ सदोत्थिताय नमः । ॐ सुस्मिताय नमः । ॐ संशितव्रताय नमः । ॐ श्रुतिमन्थनमन्दराय नमः । ॐ सर्वदेवमयाय नमः । ॐ सर्वदेवैक्यप्रतिपादकाय नमः । ॐ संविद्देवीपदासक्ताय नमः । ॐ व्याख्यासिंहासनारूढाय नमः ॥ १००॥ ॐ ज्ञानवैराग्यशेवधये नमः । ॐ चराचरजगद्-बन्धवे नमः । ॐ शङ्करस्यापि-शङ्कराय नमः । ॐ भारतानां परायणाय नमः । ॐ भुवनैकगुरोर्गुरवे नमः । ॐ ब्रह्मसंविद्-रसघनाय नमः । ॐ भागवते नमः । ॐ बादरायणाय नमः ॥ १०८॥