अक्षर आकार:

स्वामिविवेकानन्दोपदेशद्विशतिः

Advice of Swami Vivekananda (200)

स्वामिविवेकानन्दोपदेशद्विशतिः

अवतारः स्थापकाय च धर्मस्य सर्वधर्मस्वरूपिणे । अवतारवरिष्ठाय रामकृष्णाय ते नमः ॥ १॥ रामकृष्णावतारे तु स्थितं सर्वमनन्तकम् । अनन्तप्रेम, भक्तिश्चानन्ता,ज्ञानमनन्तकम् ॥ २॥ सहस्रयुगपर्यन्तं यल्लब्धं विश्वहिन्दुभिः । रामकृष्णेन तल्लब्धमेकस्मिन्नेव जन्मनि ॥ ३॥ सर्वजातीयवेदानां रामकृष्णस्य जीवनम् । विद्यते भाष्यरूपं तद्वेदार्थानां प्रकाशने ॥ ४॥ कस्यापि देशस्य गतेतिहासे न तादृशो धर्मसमन्वयोऽस्ति । प्रत्यक्षमीशः खलु रामकृष्णो लघुर्मतोऽस्य त्ववतारवादः ॥ ५॥ यस्मिन्दिनेऽसौ नरजन्म लेभे तस्माद्दिनात्सत्ययुगं प्रवृत्तम् । भेदा विवादास्त्वखिला विनष्टाः अस्पृश्यवर्गः प्रियतामुपेतः ॥ ६॥ लुप्तो हिन्दुख्रिस्तमोहम्मदीय- बौद्धादीनां भेदभावः समन्तात् । एको वर्णो वेद एकोऽधुनास्ते शान्तिस्थानं नूतनं भारतं नः ॥ ७॥ ``भक्तिज्ञाने कर्मयोगौ समेत्या- भेदः सम्पद्येत सद्भावनानाम् । जायेतैवं नः समाजो नवीनः'' प्रेष्ठः श्रेष्ठश्चावतारोपदेशः ॥ ८॥ ``विश्वासोऽस्तु'' गुरोर्वाचि निश्चिता भारतोन्नतिः । कर्तव्याः सुखिनः सर्वे निःस्वाः साधारणा जनाः ॥ ९॥ देशभक्तिः उमानाथस्तवोपास्यः सर्वत्यागी च शङ्करः । धनजीवनसौख्यानि न सन्त्यात्मसुखाय ते ॥ १०॥ बलिस्वरूपो जनितोऽसि मातु- श्छाया विराजस्तव यः समाजः । विपन्नचण्डाल दरिद्रमूर्खा- स्त्वद्रक्तमांसान्वितबान्धवास्ते ॥ ११॥ उच्चैर्वचो ब्रूहि सधैर्यगर्वो ``भ्राता मदीयः खलु भारतीयः । स ब्राह्मणो वास्त्वथवातिशूद्रः स निर्धनो वास्तु निरक्षरो वा ॥ १२॥ ममेश्वरो भारतदेवदेव्यो मातुः शुभं यत्कुशलं मदीयम् । दत्त्वा बलं मे बलिनी पुनस्त्वं मां मातरित्थं पुरुषं विधेहि ॥ १३॥ ग्रस्यते मृत्युना जन्तुरेकवारं स्वजीवने । मातुरुन्नतये तस्मात्साहसं कुरु साहसम् ॥ १४॥ द्यौरुत्तमा भारतभूर्ममेयं दोलास्वरूपा मम बाल्यकाले । यूनस्तथा सुन्दरनन्दनं च वाराणसीयं मम वृद्धभावे ॥ १५॥ तूष्णीं रहः सिक्ततुषारसम्पत् सम्पर्कतः पाटल-कुङ्मलानाम् । विकासवत् विश्वचारधारां, प्रभाविता भारतभाववृन्दैः। ॥ १६॥ आप्लाव्यते विश्वमदम्यशक्त्या विना निनादं खलु भारतेन । ध्रुवं नवीनं युगमाविरास्ते न ज्ञायते तु प्रभवः कुतस्त्यः ॥ १७॥ नाशोन्मुखं नः किमु भारतं स्या- दहो तदाध्यात्मिकताविनाशः । गता ध्रुवं धर्मसहानुभूति- र्मृता सदाचारवार्ता ! ॥ १८॥ विनाशितादर्शजगत्प्रभावता प्रतिष्ठिता चाशु विलासिता भवेत् । प्रतारणा पाशविकं बलं विधि-। र्धनं पुरोधा बलिरस्मदात्मन ! ॥ १९॥ न भारतं रुद्धसमुन्नति स्या- न्न चैति निद्रावशतामिदानीम् । शक्तिः पुनः कालमिमं विजेतुं। सन्त्यक्तनिद्रः खलु कुम्भकर्णः ॥ २०॥ ऊर्जस्विकालायसनिर्मिताभि- र्वज्रं वपुः स्नायुशिराभिरस्तु । सेवार्थमस्मत्प्रियमातृभूमे- रीहा बलं चास्तु यद्वितीयम् ॥ २१॥ अनेन सद्यत्नपरा भवेम प्राप्तुं वयं विश्वरहस्यबोधम् । उदन्वदन्तस्तलमभ्युपेम प्राणव्ययेनाप्युदयार्थसिद्‍ध्यै ॥ २२॥ कालोऽयं कठिनश्रमस्य भवतो भ्रातर्वचः श्रूयता- मुत्थाय द्रुतमारभस्व समये मन्येऽतिनिद्रा तव । माता प्राप्तनिजासना बलवती तन्द्राभिभूता मनाक् तस्या आयतिरुज्ज्वला परमसौ युष्मत्प्रयत्नाश्रया ॥ २३॥ भविष्यन्महद्भारतं कर्तुमीहा यदि स्यादुपायत्रयं संविधेयम् । अदम्यं बल निर्मितिः सङ्घशक्ते- र्विकीर्णा समीहा तथैकत्वसूत्रा ॥ २४॥ आयान्तु मित्राणि भवन्तु वीरा बहिर्विनिर्गत्य निजान्धकूपात् । विधाय दृष्टिं परितो विशालां पश्यन्तु राष्ट्राणि कथं प्रयान्ति ॥ २५॥ प्रेमास्ति चेन्मानवजातिमात्रे स्वजन्मभूमौ च तथा त्वदीयम् । आयाहि गन्तुं पुरतो न पश्चाद् यतामहे सत्तमलक्ष्यसिद्‍ध्यै ॥ २६॥ तुदन्तु सुहृदः सर्वे रुदन्तु तव बान्धवाः । श्रेयसी न गतिः पश्चान्नित्यमग्रगतिर्भवेः ॥ २७॥ उपेक्ष्यते यज्जनताजनार्दनो महत्तदंहः क्रियते निरन्तरम् । ध्रुवं हि तन्नः पतनस्य कारणं न विस्मरातो जनतासमुन्नतिम् ॥ २८॥ निष्फला राजनीतिः स्यात्समुदायकृतेन या । तत्तच्छिक्षान्नवासानामुपायान् परिचिन्तयेत् ॥ २९॥ न तादृशे विश्वसिमीश्वरेऽहं यो मह्यमन्नं न ददाति भूमौ । प्रयोजनं स्वर्गसुखेन किं मे शिक्षान्नशून्या यदि भारतीयाः ॥ ३०॥ ईर्षां द्वेषं परित्यज्य सहान्यैर्भव सोद्यमः । स्वदेशबन्धुवर्गार्थमिदमावश्यकं परम् ॥ ३१॥ उत्थाय धारय धुरं त्वरितं जगत्यां जानासि जीवितमिदं क्षणभङ्गुरं ते । जातोऽसि यत्किमपि लक्ष्म त्यज स्वकीयं जाताः स्थिताः कति न वा पशवो म्रियन्ते ॥ ३२॥ भयं पुत्र! परित्यज्यानिशमग्रेसरो भवेः । निर्भीका एव शोभन्ते नराः केसरिणो यथा ॥ ३३॥ विमुक्त्यै देशस्य प्रयतनपरोऽथास्य जगतो भव, त्वय्येवास्ते श‍ृणु सकलसेवाभरधृतिः । उदेत्वन्तर्ज्योतिः सततमधिजीवात्मनिहितं रुचिर्वेदान्तस्य प्रतिगृहमिदानीं प्रविशतु ॥ ३४॥ आदौ समाल्पावितमस्तु भावै- राध्यात्मिकैररुन्नतभारतं नः । ततोऽनु सामाजिक राजकीय- विचारधाराभिरुदेतु कार्यम् ॥ ३५॥ आजीवनं भवत कार्यपरा, भवत्सु स्थित्वाद्य मृत्युमनु चापि भवेन्ममात्मा । आयाति याति ननु पार्थिवजीवनं नो नित्यानि किं विभवमानयशःसुखानि ? ॥ ३६॥ द्वावेव भवदादर्शौ सेवा त्यागस्तथा तयोः । चेद् भारतेन तादात्म्यं शेषं सम्पत्स्यते स्वयम् ॥ ३७॥ अभिलषसि यदि त्वं भारत! स्वां समृद्धिं विकिर जगति सर्वं रत्नजातं स्वकीयम् । अपरजनपदेभ्यः प्राप्तुमिच्छेर्यदुच्चं ग्रहणमथ च दानं लौकिको धर्ममार्गः ॥ ३८॥ प्रत्यग्गतौ यदभवन्मम हार्दपात्रं तीर्थं पवित्रमधुना मम भारतं तत् । प्रत्यागतोऽत्रजरजः शिरसा वहामि पुण्यो वहन्निह विभाति कथं समीरः ॥ ३९॥ विश्वासो बलं च अनन्तं बलमेव स्यात्परो धर्मः परेश्वरः । दौर्बल्यं परिहर्तव्यं दास्येन च सहात्मनः ॥ ४०॥ बलं जीवनं दुर्बलत्वं च मृत्यु- र्बलं शाश्वतं स्यादलं सिद्धिबीजम् । बलं सौख्यकृद् दुर्बलत्वं च दुःखं बलान्यर्जयध्वं बलान्यजयध्वम् ॥ ४१॥ ``बद्वोऽस्मि मूर्खोऽस्मि च दुर्बलोऽस्मि'' त्वयोच्यते चेत्तव दुर्भगत्वम् । दौर्बल्यचिन्ता न सखे विधेया प्रत्यात्मसंस्थं बलमाविरस्तु ॥ ४२॥ बलं परं जीवनमार्गदर्शकं क्रियाप्रधाने जगतीह सर्वशः । परित्यजेर्दुर्बलतानुसारतां समुद्यमे सा प्रतिबन्धिका यतः ॥ ४३॥ श्रद्धत्त यूयं मम वीरमित्रा- ण्यत्रागता उन्नतकार्यहेतोः । क्षुद्रश्वशब्दादथवापि वज्रा- दभीरवः कर्म निजं कुरुध्वम् ॥ ४४॥ तेजस्विनो जना अद्धा श्रद्धावन्तो बलान्विताः । निर्मलान्ता अपेक्ष्यन्ते पुरुषास्तु सपौरुषाः ॥ ४५॥ सर्वेऽपि दोषाः प्रभवन्त्यशक्ते- रशक्तिरंहःकरणेऽपि शक्ता । स्वार्थस्य मूलप्रभवोऽप्यशक्ति- स्तयैव लोकाः कलहे प्रवृत्ताः ॥ ४६॥ भ्रातर्वृथायं भवदश्रुपात- स्त्वय्येव नास्ते निहितं बलं किम ? । स्वां चेद्विजानासि बलिष्ठ! शक्तिम् । सर्वं जगत्त्वत्पदलग्नमेव ॥ ४७॥ सप्रेमभावैः सबलैर्मनुष्यैः सत्यानुरागैरधुनास्ति कार्यम् । प्रतारकैः किं क्रियते सुकार्यं तस्मात्सखे दर्शय पौरुषं ते ॥ ४८॥ शैत्यं क्षुधा पार्थिवजीवनं च न किञ्चिदीशो बलनायको नः । अदम्यविश्वाससहानुभूती आस्तां पुरस्तादनिशं पुरस्तात् ॥ ४९॥ कदापि पश्चान्न विलोकनीयं चिन्त्यं न ``कर्तव्यपथे पतेत्कः'' । नित्यं वयं भोः पुरतो व्रजामः कश्चित्पतत्यन्यतरोऽभ्युपैति ॥ ५०॥ असीमधैर्यं च समुद्यमश्च महांश्च कार्यक्षमता गुणोऽपि । आज्ञाकरत्वं मिलितानि सन्ति व्यक्तेश्च राष्ट्र्स्य यशस्कराणि ॥ ५१॥ अपेक्ष्यते व्यक्तिबलिष्ठतादौ श्रद्धाथ लक्ष्यं प्रति तत्परत्वम् । एतत्समग्रं त्वयि विद्यते चे- त्कश्च्यावयेत्त्वां निजकार्यमार्गात् ॥ ५२॥ त्यागः दानशीलता च श्रूयतां निश्चिते मृत्यावादर्शोऽस्तु महांस्तव । वरं मृत्युमुखे वासो महादर्शस्य पालने ॥ ५३॥ विकिरतितरां कोऽस्मिंल्लोके प्रकाशपरम्परां ? गतयुगगतो धर्मस्त्यागः पुनः समुदेष्यति । जगति सदयाः स्वात्मोत्सर्गप्रसक्तहृदो ध्रुवं बहुजनहितश्रद्धा बुद्धाः शतं प्रभवन्तपि ॥ ५४॥ निस्वार्थः सर्वदा कर्मण्यधिकं फलमश्नुते । तथा त्वाचरणं कर्तुं नरा धैर्यं न कुर्वते ॥ ५५॥ आस्ते जीवनमेव भङ्गुरमिदं तुच्छोऽभिमानस्तथा यत्सांसारिकभोगजातमखिलं नानाविलासान्वितम् । यो जीवेदपरार्थसाधनकृते तस्यैव जन्मोज्ज्वलं प्राणन्तोऽपि मृतोपमाः खलु नरा ये स्वार्थिनः केवलम् ॥ ५६॥ कल्याणाय स्वराष्ट्रम्य सर्वस्य जगतस्तथा । स्वात्मोत्सर्गविधेरयन्महत्कार्यं न विद्यते ॥ ५७॥ हिन्दो स्वाभाविकी श्रद्धा जीवितं शाश्वतं तव । तदर्थं चिन्तितः कस्मात्कल्याणं जगतां वरम् ॥ ५८॥ कल्याणं जगतां विधातुमनिशं वाञ्छन्ति ये सज्जना- रते सम्पत्सुखलाभमानयशसामीहां त्यजन्तु द्रुतम् । तेषां पोट्टलिकां विधाय सहसाऽगाधे क्षिपन्त्वम्बुधौ कुर्वन्त्वीशपदाम्बुजं स्वशरणं वाक्यं सतामीदृशम् ॥ ५९॥ औदार्यं प्रियतापि जन्तुषु भवेन्मित्रेष्वमित्रेषु च स्वान्तेऽनन्तसहानुभूतिरनिशं दुःखाभिभूते जने । सद्विद्याधनसम्पदन्वितनरेऽसूयानिवृत्तिस्ततथा दोषाविष्करणाद्विरक्तिरपरस्यैतत्सतां लक्षणम् ॥ ६०॥ सेवा प्रतिष्ठितश्चारुशरीरमन्दिरे त्वयात्मदेवः सततं निषेव्यताम् । प्रभुर्न चेत्त्वं प्रभुमत्र सेवितुं प्रयोजनं तेऽस्ति किमन्यमन्दिरैः ॥ ६१॥ नारीं नरं चाखिलजीवलोकं सेवस्व नारायणभावतस्त्वम् । दयाप्रदाने ननु कोऽसि तेषां सेवाप्रदानं चर धर्ममर्म ॥ ६२॥ शिवं सखे वन्दितुमीहसे चिरं शिवात्मजानां क्रियतां समर्चनम् । सम्पूजयेद्यः परमेशपुत्रकान् स एव साक्षाज्जगदीशपूजकः ॥ ६३॥ दुर्भिक्षदुःखगदपीडितलोकशोकं हर्तुं प्रयात भुवने भुवनेशतुष्ट्यै । प्राणव्ययादपि जनाः सुखिनः क्रियन्तां जाता हि पश्यत वृथा शतशो म्रियन्ते ॥ ६४॥ उच्चैः स्थितः करगुहीतपणो विनोदा- न्मा ब्रूहि ``भिक्षुक गृहाण दयापरोऽहम् ।'' दाता भवत्युपकृतोऽत्र परं ग्रहीत्रा सौभाग्यमेतदिह ते स्वसहायकर्तुः ॥ ६५॥ ईशः स्थितो दलितदुर्बलदुःखितेषु येऽर्हन्ति सेवनमलं प्रियबान्धवास्ते । तान्मृगयसे कथमोशमन्यं गङ्गातटे खनितुमिच्छति कोऽपि कूपम् ॥ ६६॥ यावज्जनाः सन्ति सहस्रशोऽन्ये शिक्षाविहीनाश्च बुभुक्षिताश्च । अर्थे न तेषां यदि शिक्षिताः स्मो तदा कृतघ्नात्खलु धिग्धिगस्मान् ॥ ६७॥ दुर्गतान्वीक्ष्य यत्स्वान्तं द्रवीभवति तत्क्षणात् । स महात्मा स्तुतेः पात्रं। निर्विकारस्त्वसज्जनः ॥ ६८॥ परोपकारः सत्कार्यं यद्यपि स्यात्सकारणः । शिवज्ञानाज्जीवसेवा कार्यं पुण्यतमं परम् ॥ ६९॥ न केवलं मूर्तिषु विद्यते शिवः परं दरिद्रेषु च दुर्गतेषु च । शुभाकृतिर्निर्मल ! तत्कृते कृता समर्चना सारमतोऽवधार्यताम् ॥ ७०॥ यावज्जीवसमष्टिकारणवशादेको महाकाशवत् यावद्वर्गविभिन्नजातिषु ततो यो दीनहीनेषु च । यो दुष्टेषु च दुःखितेषु च पुनर्व्याप्तः समानोऽनिशं तस्याराधनहेतुना जनिततौ कष्टं समीहे महत् ॥ ७१॥ प्रेम तथा निःस्वार्थता मयानुभूतं निजजीवनेऽस्मि- न्निर्व्याजमन्तःकरणं नराणाम् । सद्भावना शाश्वतिकं च हार्दं जेतुं जगत्सर्वमलं त्रयं स्यात् ॥ ७२॥ एकोऽपि युक्तस्त्रिगुणैरमीभिः सहस्रशोऽपि च्छलनापराणाम् । नृणां पशूनामपवित्रमर्थं भवे भवेन्नाशयितुं समर्थः ॥ ७३॥ अस्मदाशावलम्बोऽस्ति हीनदीनजनाः परः । एत एव नितान्तं हि यान्ति विश्वासपात्रताम् ॥ ७४॥ विश्वासस्त्वीश्वरे कार्यी न च्छलेन प्रयोजनम् । परदुदुःखैर्दुःखितानां भवेदीशः सहायकृत् ॥ ७५॥ भव्यो निःस्वार्थभावोऽत्र सदाचारो विभाव्यते । परं स्वार्थपरत्वं च दुराचारो विचार्यते ॥ ७६॥ वसुना यशसा च विद्यया प्रियतायाः सफलत्वमाप्यते । चरितेन सता विदार्यते- ऽदमनीया ननु भित्तिरापदाम् ॥ ७७॥ साफल्यस्य रहस्यं स्यादहम्भावान्निवर्तनम् । तेन सिद्‍ध्यन्ति कार्याणि प्रभावोऽपि महान्भवेत् ॥ ७८॥ विस्तारो जीवनं प्रोक्तं सङ्कोचो मृत्युरेव च । स्नेह एवास्ति विस्तारः स्वार्थः सङ्कोच उच्यते ॥ ७९॥ प्रेमैव नो जीवनधर्म एको यः स्निह्यति प्राणिति स प्रकाशम् । यः स्वार्थसक्तः स मृतोऽस्ति जीवनं स्नेहेन मृत्युश्चिरजीवितत्वम् ॥ ८०॥ धार्यते यद्वदस्माभि। श्वासोच्छ्वासेन जीवितम् । तथैवाहेतुकं प्रेम भवेज्जीवनकारणम् ॥ ८१॥ चरित्रहीनत्वमवाप्य लोका धर्मं गतप्राणमकार्पुरद्य अपार्थहार्दं चरितं त्वपेक्ष्यं सौहार्दभावः कुलिशप्रभावः ॥ ८२॥ पवित्रता चेतसि धैर्यमग्र्यं तथा स्वधर्माध्यवसायता च । गुणत्रयं स्यात्सफलत्वहेतु- स्तथापि सर्वोपरि हार्दभावः ॥ ८३॥ शिक्षा मानवान्तःस्थितायास्तु पूर्णताया विकासिता । सच्छिक्षा प्रोच्यते सद्भिर्नो चेच्छिक्षा निरर्थिका ॥ ८४॥ या स्वावलम्बं न ददाति शिक्षा ``शिक्षाभिधानं'' कथमाप्नुयात्सा । विद्यार्थिनः पाठगृहेष्वजीर्ण- रुजाधुनाक्रान्ततया विशीर्णाः ॥ ८५॥ साधारणेष्वथ पुनर्वनितासमाजे शिक्षासमः किमपरोऽस्ति परोपकारः । विद्याबलं प्रसृतमत्र यदा प्रतीच्यां लोकोन्नतिः समभवत्परितस्तदानीम् ॥ ८६॥ मस्तिष्कं परिपूरितं यदि भवेदावेदनाराशिभिः सम्बोधानुभवौ विना परिणमेत्तत्केवलं सङ्करे । साङ्कर्येण भवेदशक्तिरनिशं नाशोन्मुखी, त्वं ततः शिक्षामाश्रय सच्चरित्रनरताधीपाकविद्याकरीम् ॥ ८७॥ स्त्रीशिक्षा न स्यात्स्त्रीणां सुधारेण विना संसारमङ्गलम् । एकपक्षाः पक्षिणः किमुड्डयन्ते विहायसि ॥ ८८॥ स्वोपज्ञमार्गैर्महिलाः स्वकीयाः कुर्वन्तु सर्वाः सरलाः समस्याः । नान्यस्तदर्थं यततां स्त्रियः किं न भारतीयाः सुतरां समर्थाः ॥ ८९॥ स्यादाद्यशक्तेर्जगतो जनन्या विनोन्नतिं नोन्नतिरद्य नॄणाम् । इत्येव हेतोः किल रामकृष्णै- र्गुरुकृता स्त्री परिपूजिता च ॥ ९०॥ सावित्री दमयन्ती च सीता च जनकात्मजा । आदर्शभूतास्ताः सन्ति श‍ृणु भारत! भारतोम् ॥ ९१॥ यस्मिन्समाजे किल भारतीये जगत्यसामान्यगुणान्वितायाः। । जाता जनिः सा जनकात्मजाया जानाति कर्तुं ललनादरं सा ॥ ९२॥ आसीत् स्त्रीणां ज्ञानलाभाधिकारः पूर्वं कस्मादद्य ता वञ्चिताः स्युः । यद्वत्त्यक्ता ब्राह्मणैरन्यवर्णा- स्तद्वन्नार्यश्छिन्नसर्वाधिकाराः ॥ ९३॥ पूर्वं चासीदग्निहोत्रादिकार्ये साकं पत्या स्थित्यपेक्षा वधूनाम् । अद्यत्वे ता हन्त नार्हन्ति गेहे शालिग्रामस्पर्शमात्रं विधातुम् ॥ ९४॥ कुत्रापि शास्त्रे विहितं किमस्ति ``स्त्री ज्ञानभक्त्योरधिकारशून्या'' । सीता पदाङ्कानुकृतिः परं तत् समुन्नतेरद्य विशेषमार्गः ॥ ९५॥ निन्दन्ति नारीरनिशं नरा ये तासां कृते विहितं किमस्ति ? क्षिप्ताः परं ताः स्मृतिकारबालैः ``स्वातन्त्र्यहीना'' ``नरकस्य पन्थाः'' ॥ ९६॥ यदि स्युर्घृणिताः कीटा इव नार्यस्ततः कथम् । मनुनोक्तं यत्र नार्यः पूज्यन्ते तत्र देवताः ॥ ९७॥ पाश्चात्त्यकृत्यनुकृतिर्यदि भारतस्य नारीजनेन विहिता त्यजता स्वलक्ष्यम् । ताभिः सहैव भविताऽवनतिर्नराणां सर्वो भविष्यति पुनर्विफलः प्रयत्नः ॥ ९८॥ धर्मः न कोऽपि धर्मो ``नरदिव्यभावं'' यथोच्चकैर्गायति हिन्दुधर्मः । स एव चित्रं बत! दुर्बलेषु पादप्रहार कुरुते नितान्तम् ॥ ९९॥ आदर्शेऽस्मिञ्जीवने मानवानां शिक्षा भक्तिज्ञानयोगत्रयस्य । धर्माणां सल्लक्ष्यमेतत्समेषां वेदान्तस्तत्सिद्धये स्यात्समर्थः ॥ १००॥ स्पर्शास्पर्शौ नास्ति हिन्दुत्वचिह्नं संस्कारोऽयं केवलं निन्दनीयः । दृष्टं नाम क्वापि शास्त्रप्रमाणं सामाजिक्यास्तून्नतेर्विघ्न एषः ॥ १०१॥ न धर्मदोषोऽस्त्यथवात्र कोऽपि पाखण्डिनो यच्छलनापराश्च । परार्थनाम्ना विविधैरुपायैः प्रतारयन्ति च्छलशून्यचित्तान् ॥ १०२॥ पुराणधर्मात्तु पुरोहितानां त्यागाद्भवेदुत्तमहिन्दुधर्मः । तेनाथ पाश्चात्यसमाजवर्गः प्रभावितः स्यादिति निश्चयो मे ॥ १०३॥ धर्मं विनास्माकसमाजवर्गो भवेदरण्यं पशुभिर्विकीर्णम् । भोगा विलासा न मनुष्यधर्मो ज्ञानं परं जीवनसाध्यमुच्चैः ॥ १०४॥ धर्मस्त्वलौकिकोपायः पशुर्येन नरायते । नराश्चापीश्वरायन्ते विना धर्मं नरः पशुः ॥ १०५॥ प्रत्यक्षं शाश्वतं यत्प्रकटयति पुनर्जीवनं मानवानां ज्ञानादज्ञानसान्द्रं पशुमपि मनुजं द्राक्करोति प्रभावात् । तं साक्षादीश्वरेऽयं विपरिणमयति स्वेन्द्रजालादिवान्ते धर्मः किं किं न कुर्याज्जगदुपकृतये कल्पवृक्षेण तुल्यः ॥ १०६॥ सर्वगं परमं तत्त्वं नासि चेद् द्रष्टुमीश्वरः । अध्यात्मज्ञानसूर्यस्य नोदयस्तव मन्दिरे ॥ १०७॥ त्वयीश्वरो यः सकलेऽपि विद्यते न बुध्यते चेदियमज्ञता तव । समग्रमेकं यदि भिन्नता कुतः परं हितत्वं प्रति जीवमन्दिरम् ॥ १०८॥ ``ईश्वरः खलु जगत्पिता'' स्वयं प्रार्थनासु भवतेदमुच्यते । प्रत्यहं व्यवहृतौ परं परं मन्यसे न किमिति स्वबान्धवम् ॥ १०९॥ त्वमंशभूतोऽस्यविनाशिवस्तुनः समष्टिरेषाप्यविनाशिनी मता । अतः स्वकीयां प्रकृतिं विभावयन् समष्टिसेवामिह कर्तुमर्हसि ॥ ११०॥ मानवे मानवे मान्या दिव्यता यादितः स्थिता । प्रकटीकरणं तस्या धर्म इत्युच्यते बुधैः ॥ १११॥ नोच्चैर्वादा नापि सिद्धान्तधारा नाप्यस्माकं चारुनानामतानि । धर्मः, किन्तु स्वानुभूतेरवाप्तिः किं चैतस्याः कार्यजाते प्रकाशः ॥ ११२॥ मूर्तिर्ग्रन्था मन्दिरे प्रार्थनायाः सिद्धिप्राप्त्यै केवलं सन्त्युपायाः । साक्षात्कारः स्वात्मनो दिव्यताया उच्चैर्ध्येयं या हि नित्यं पुरस्तात् ॥ ११३॥ यदा सन्तोषः स्यात्क्षणिकसुखतुच्छेन जगता घृणा दृष्ट्वा लोके कपटपरिपूर्णा व्यवहृतिम् । यदा च द्वेषः स्यादनृतवचने नास्तिकजने तदा धर्मापेक्षं भवति खलु सश्रद्धहृदयम् ॥ ११४॥ अवाप्य ज्ञानमीशस्य चिन्तनं तस्य नित्यशः । प्रत्यक्षं तेन सम्भाषा प्रोच्यते धर्मलक्षणम् ॥ ११५॥ स्नेहः सम्पूर्णसंसारे स्थितप्राणिषु निर्मलः । उदारता तथा तेषु धर्मस्य निकषः स्मृतः ॥ ११६॥ पावित्र्यं निर्मलत्वं सुकृतिततिरतिः सर्वभूतानुकम्पा धर्मस्यैकस्य सम्पन्न खलु समभवन् किं च सर्वत्र सन्तः । ``अन्ये लुप्यन्तु धर्मा मम भवतु पुनः सर्वधर्मप्रधानो'' यद्येवं कोऽपि वाञ्छत्यखिलजनदयापात्रमेतं धिगस्तु ॥ ११७॥ श्रूयतामधुना मित्र! धर्म-भेदो विनङ्क्ष्यति । सर्वधर्मपताकासु वञ्चनं लिखितं भवेत् ॥ ११८॥ ``सहयोगो विरोधो न'' ``स्वीकृतिर्न विनाशनम्'' । ``शान्तिः समन्वयश्चापि'' ``न कलिर्न मते भिदा'' ॥ ११९॥ मतानि शास्त्राणि च मन्दिराणि क्रियाकलापाः समनुष्ठितिश्च । यदङ्गभूतानि स मुक्तिलाभो धर्मस्य सर्वस्वमिदं ब्रुवन्ति ॥ १२०॥ धर्माश्रयं त्वं कलहं न कुर्या अज्ञानमूलः कलहोऽनिशं स्यात् । असारतत्त्वाश्रयमेव नूनं किं धार्मिकस्यास्ति कलेर्न बीजम् ॥ १२१॥ पावित्र्यमाध्यात्मिकता विधातुं स्वं नीरसं दूरमितो यदैव । तदैव धर्मे कलहा भवन्ति भवत्यशान्तिश्च जगत्यनन्ता ॥ १२२॥ न वैदिकास्तान्त्रिकाश्च न च वेदान्तिनो वयम् । पौराणिकास्तथा न स्मः केवलं ``स्पृश मा'' वयम् ॥ १२३॥ धर्मोऽस्माकं शिष्यते पाकगेहे देवोऽस्माकं पाकपात्रस्वरूपः ! । ध्येयं चास्ते ``मा पवित्रं स्पृशेर्मा''- मित्थं सर्वे स्वात्मनाशं व्रजामः ! ॥ १२४॥ धर्मोपदेशस्तु बुभुक्षितानां वैधेयता स्यादथ वा प्रमादः । रिक्तोदराणां किमु धर्मभावः ? क्षुत्पीडितांस्तोषय भोजनेन ॥ १२५॥ व्यष्टेर्यथा जीवनलक्ष्यमेकं तथा समष्टेरपि निश्चितं स्यात् । अङ्गीकृतं भारतवासिभिर्य- ल्लक्ष्यं पुरा तैर्न कृतः प्रमादः ॥ १२६॥ विविधम् भारतमहिमा प्राच्यां तु भारतादेव सर्वं प्राचीनकालतः । प्रससारात्र संसारे प्रीतिर्ज्ञानं तपः शिवम् ॥ १२७॥ धर्मस्यावासभूमिः प्रभवपदमिदं नित्यशो दर्शनानां नानावीरैः सुधीरैरविरतमवनात्स्वस्तिकालादनादेः । विश्वप्रेमप्रकर्षः प्रकृतिमधुरिमा मार्दवं भावनाना- मेभिर्लोकस्य कर्तुं प्रभवति सततं नेतृतां भारतं नः ॥ १२८॥ आघातप्रतिघातसङ्कटशतैरुद्यत्समाजप्रथा- चाराणां ततिभिश्च सङ्कुलमभूदाक्रान्तमेत्यारिभिः । आस्ते प्राणबलान्वितं तदपि यत्तुङ्गाद्रिश‍ृङ्गोपमं मन्ये भारतजीवनं खलु जगत्याद्यन्तशून्यं ध्रुवम् ॥ १२९॥ न ज्ञातो ग्रीसदेशोऽभवदवनितले रोमवार्तापि नासीत् यूरोपस्थाश्च लोका गहनवनगता दीर्घमासन्नसभ्याः । ध्वान्तच्छन्नेतिहासं जगदिदमखिलं, दुर्बला किंवदन्ती तत्रासीदच्चशैलस्थिरतरवसतिः संस्कृतिर्भारतीया ॥ १३०॥ आदर्शानां जन्मभूर्विश्रतानां सद्भावानामाकरो भारतं नः । अस्मादेवाध्यात्मिकज्ञानधारा- पूरः पूर्वं प्रस्थितौऽभूज्जगत्याम् ॥ १३१॥ संसारे पुनरप्यस्मिन्पूरोऽयं प्रसरिष्यति । नवजीवनसञ्चारो ध्रुवं येन भविष्यति ॥ १३२॥ का पुण्यभूमिरुचिता जगतीतलेऽस्मिन् किं स्थानमत्र परमीश्वरलाभसिद्‍ध्यै ? । नॄणां च कर्मफलभोगपदं किमास्ते ? तत्रोत्तरं श‍ृणुत भारतभूरियं ॥ १३३॥ क्षेत्रं किमस्ति बलशीलदयागुणाना- मन्तर्दृशोऽप्यजनि यत्र परो विकासः । जाता च यत्र परमात्मविचारचर्चा तत्रोत्तरं श‍ृणुत भारतभूरियं नः ॥ १३४॥ महामहिममण्डिता भवति भारती भूः पुरा समुज्ज्वलतरा ध्रुवं स समयोऽचिरादेष्यति । गृहीतजनुषोऽत्र संश्रुतमहर्षयः पूर्ववत् समग्रजगतो जनान् सुपथगान्विधास्यन्ति ते ॥ १३५॥ (बन्धुसेवा) आनन्दिता भवत बान्धवसेवनार्थं युष्माभिरेव मधुरोऽवसरोऽद्य लब्धः । आप्लावितं त येन जगत्समग्रं वृद्धिं स याति खलु धर्मसमुद्रपूरः ॥ १३६॥ निःस्वान्नित्यं दुःखितानीशपुत्रान् ये सेवन्ते पापिनस्तापिनश्च । तेषां जिह्वाग्रस्थिता भारती स्याद् देवी चास्ते मानसे शक्तिरूपा ॥ १३७॥ परार्थं त्यक्तसर्वस्वो मुक्तस्तिष्ठति मानवः । इतो भ्रष्टस्ततो भ्रष्टो ``मुक्तिर्मे स्यादिति ब्रुवन्'' ॥ १३८॥ (धर्ममहत्ता) धर्मः परो भारतपुण्यभूमौ जातीयशक्तेरवलम्बरूपः । देशस्य नो जीवनगीतशास्त्रे धर्मः प्रधानस्वरतामुपैति ॥ १३९॥ नार्हा वयं त्यक्तुमतः स्वधर्म- मादर्शभूत-स्वबलं कदापि । असावधाना यदि तं त्यजेम प्रतिक्रिया तस्य भवेददम्या ॥ १४०॥ (भारतस्य अवनतिः) यस्मिन्दिने ``म्लेच्छ''पदं प्रसिद्धं छिन्नं विजातीयजनैः सखित्वम् । तस्मिन्दिने भारतभाग्यसूर्यो- ऽप्यस्ताचलं गन्तुमिव प्रवृत्तः ॥ १४१॥ (कर्म अकर्म च) आत्मभावविकासस्य कारणं कर्मसंज्ञितम् । अनात्मभावो येन स्यात् तदकर्मेति संस्मृतम् ॥ १४२॥ सबलाः कार्यकर्तारो विश्वं जेतुमलं दश । सहस्रशोऽपि वैधेय न समर्था भवन्ति ते ॥ १४३॥ पशुनरत्वमाप्नोति सत्कर्मवशतः परम् । नरः पशुत्वं लभतेऽसत्कर्मवशतोऽवशः ॥ १४४॥ (स्त्री-महिमा) जातान्यजातिषु जगत्यबलोन्नतिर्या सा योषितां किल सुयोग्यपदस्य लाभात् । याधोगतिश्चिरमभूदिह भारतेऽस्मिन् सा शक्तिरूपमहिलासु निरादरेण ॥ १४५॥ (मानवोन्नतिः) समानाधिकारा जना जीवने स्युः परं दुःखिता जन्मतो जातिभेदात् । अतः कर्मणो वर्ण इत्येव सत्यं समाजोन्नतावस्ति धर्मोच्चतत्त्वम् ॥ १४६॥ अयि! कठोरतरं खलु जीवनं तनुतरं क्षणजीवि च तत्फलम् । पिहितमस्ति तवाग्रमथाप्रभं तदपि धीरतयाग्रसरो भवेः ॥ १४७॥ उत्तिष्ठ जागृहि द्राक्त्वं स्वप्रेनालं तवाधुना । स्वलक्ष्यप्राप्तिपर्यन्तमुद्यमं न परित्यजेः ॥ १४८॥ सहानुभूतेरथ कार्यशक्ते- रभाव एवास्ति विपन्निदानम् । दोषं तमादौ परिहृत्य शीघ्रं कुरुष्व कार्यक्षममात्मदेहम् ॥ १४९॥ असीमशक्तिर्निहिता शिवेन व्यक्तौ, विजानाति नरः कथं ताम् । सर्वेऽपि तुल्यावसरं लभन्तां बलीयसीतः परमेश्वरेच्छा ॥ १५०॥। विजयः प्रकृतेरस्या मुख्यं लक्ष्यं नृजन्मनः । न जातो मनुजो जातु गन्तुं प्रकृतिदासताम् ॥ १५१॥ सश्रद्धकर्मठजनस्य ससीमबुद्‍ध्या विज्ञानभौतिकविचारवशालतायाः । कर्तुं समन्वयमहं हृदयं समीहे गम्भीरमब्धिरिव यच्च नभो विशालम् ॥ १५२॥ सुखं नराणां पुरतोऽभ्युपैति प्रायो विपच्छेखरितोत्तमाङ्गम् । प्रयोजनं यस्य सुखेन तस्मा- त्स तत्परः स्याद्विपदोऽनुगन्तम् ॥ १५३॥ कल्याणमध्यात्मसमाजनीति- त्रयेऽवलम्बेत विशुद्धभावम् । सर्वेषु देशेष्वथ सर्वकाले- ष्वभिन्नता स्मासु च बान्धवेषु ॥ १५४॥ (ज्ञानमहिमा) गम्यमुच्चतमं तत्त्वं जीवनस्य श्रुतं स्मृतम् । तत्त्वमन्वेषय भ्रातः! ध्रुवं लाभो भविष्यति ॥ १५५॥ ज्ञानं परं प्रतिगृहं प्रविशेदितीत्थं चक्रं प्रवर्तयितुमिच्छति मानसं मे । येन स्त्रियश्च पुरुषाश्च जगत्यमुष्मिन् । स्वात्मेषुनिर्णयविधिं परिभावयन्तु ॥ १५६॥ (सेवाभावः) यथाहं भारतीयोऽस्मि तथा संसारसेवकः । सन्देहकल्पनाजालप्रसारोऽत्र निरर्थकः ॥ १५७॥ (सदाचारः) आचारवान् भव सुहृद् बलवान्कृतान्त- स्याह्वानतोऽपि गतभीरमलान्तरस्त्वम् । व्यर्थैव धार्मिकविवादपरम्पराऽऽस्ते दुष्कर्मजातमिति कातरकार्यमेतत् ॥ १५८॥ (सत्यं उपकारश्च) अपकारादुपकारोऽसत्यादपि चातिरिच्यते सत्यम् । अनन्तगुणमेतत्खलु यस्यास्ते तस्य जीवितं सफलम् ॥ १५९॥ (भारतोन्नतिः) भारताभ्युदयोऽवश्यं भवितेशविधानतः । अरुणोदयवेलासावुत्थातव्यं गता निशा! ॥ १६०॥ (बलमहत्ता) शुष्काद् गीतापाठात्पदकन्दुकखेलनं तु भद्रतरम् । शक्तेर्महत्यपेक्षा, गीतापठनं भवेत्ततः सफलम् ॥ १६१॥ (व्यक्तिमहत्ता) भ्रातस्त्वमेहि बलवाननुभूय ``सोहं'' भस्मीभविष्यति मनोमलिनत्वमस्मात् । जागर्ति शक्तिरनिशं त्विह या प्रसुप्ता त्वं च प्रचण्डदलमूर्तिरिव स्वयं स्याः ॥ १६२॥ (दलितवर्गः) श्रमिका भारतस्यैते दलिताश्चिरकालतः अपूर्वकार्यकर्तारोऽप्यहं तानभिवादये ॥ १६३॥ दरिद्राणां कुटीरेषु भारतं वसति ध्रुवम् । परमुन्नतये तेषामस्माभिर्वत किं कृतम् ? ॥ १६४॥ सांसारिकेषु विषयेतषु भवन्त्यसुज्ञा निःस्वा जनास्तदपि दुर्जनताविहीनाः । ते सन्ति श्रद्धहृदयाश्छलशून्यभावा हिंसाविचाररहिता हितकार्यसक्ताः ॥ १६५॥ निम्ना जना जेतृनिपीडनेन त्रस्ताः स्वकीयैरवमानिताश्च । चिरात्स्वकार्यप्रसितास्तथापि श्रमस्य नापुः फलमद्य यावत् ॥ १६६॥ (पुराणाभिमानः) केचिद्वदन्त्यवनतेः किल कारणं नो व्यर्थं ममत्वमतिपूर्वपरम्परासु । ज्ञातं भया परमिदं विपरीतमेव त्यागः पुराणविभवस्य महान्प्रमादः ॥ १६७॥ (हनूमदादर्शः) सर्वदास्तु तवादर्शो हनूमान्बलवान्सुधीः । जीवितं मरणं वास्तु स न दध्यौ जितेन्द्रियः ॥ १६८॥ (ज्ञानी भक्तश्च) अगाधप्रेमहृदयोऽद्वैतानुभववान्स्वयम् । ज्ञानीश्वरेण तादात्म्यवांश्च भक्तो निगद्यते ॥ १६९॥ निन्दको ज्ञानिनो भक्तो ज्ञानी भक्तस्य निन्दकः । द्वावप्येतौ मतौ धूर्तौ न भेदो ज्ञानिभक्तयोः ॥ १७०॥ (ईश्वरः) यदीश्वरस्य सत्तायां विश्वासो विद्यते तव । पदे पदे तत्स्मृतिः स्यात्स्मृतिरेवेशसेवन ॥ १७१॥ यदीश्वरः स्यान्नरदेहधारी हानिर्भवेत्किं तदनन्तशक्तेः ? चैतन्यरूपस्य शरीरलाभो न बाधकः स्यात्तदनन्ततायाम् ॥ १७२॥ (भक्तिः) भक्तिनिरन्तरमसौ मनुजान्तरस्था या कामकाञ्चनपिधानवशाददृश्या । दूरीकुरु त्वमिदमावरणं क्षणेन स्वान्तः स्थिताथ भवति स्वयमेव दृश्या ॥ १७३॥ (बन्धः) सौवर्णो वाप्यायसो वास्तु बन्ध- श्च्छेद्यो, द्वन्द्वं द्वेषरागाद्यपास्यम् । हैमो बन्धोऽप्यस्तु तुल्यः कठोरो दासो दासः पूजितस्ताडितो वा ॥ १७४॥ (मुक्तिः) अन्वेष्टव्या कुत्र मुक्तिः सखे! सा लभ्या नेहामुत्र वा मान्दिरे वा । शास्त्रग्रन्थे वा न मा दुःखितो भू र्यस्मादेकस्त्वं तदालम्बभूभिः ॥ १७५॥ (उपासना) अनुष्ठानानि शास्त्राणि सम्प्रदायास्तथैव च । साक्षात्कारस्य सिद्‍ध्यर्थं साधनानीव केवलम ॥ १७६॥ (अहम्भावः) देहमानससंयोगादहम्भावोद्भवो भवेत् । ``जानामी''त्युपलब्धिस्तु प्रमाणं स्या''दहं''स्थितौ ॥ १७७॥ (वेदमहत्ता) दृष्टो विरोधो यदि वेदवाक्यैः शास्त्रं पुराणं न भवेत्प्रमाणम् । विश्वेऽत्र वेदाननुभासितं य- ज्जानीहि वेदोद्भवमेव सर्वम् ॥ १७८॥ (शिक्षाप्रचारः) शिक्षा-संस्था-माध्यमेन प्रचारः कर्तव्यः स्याल्लोकसाधारणेन । गत्वा पश्चात्तैरितः प्रत्यगारं बोद्धव्याः स्युर्बान्धवा निर्धनास्ते ॥ १७९॥ (मूर्तिपूजा) साक्षादियं चेन्न विमुक्तिहेतु- स्तथापि निन्द्या न हि मूर्तिपूजा । अद्वैतबोधागमसाध्यसिद्धि- योग्यं मनः सा कुरुते जनानाम् ॥ १८०॥ (अध्यात्मम्) नरस्य दिव्यां प्रकृतिं पुरस्ता- ० दुद्धार्य्य तज्जीवनकार्यवृन्दे । प्रवेशनीयं कथमित्युपायः सङ्क्षेपतो लक्ष्यमिदं मदीयम् ॥ १८१॥ अध्यात्मतत्त्वविभवस्य भुवि प्रसारो नित्यं विधेय इति भारतधर्मकार्यम् । यद्ग्रीक-हूण-शक-मोघल-तुर्कयानैः सम्पीडितं भवदपि स्थिरसंविदास्ते ॥ १८२॥ वैज्ञानिकाविष्कृतिमात्रमस्मिन् कथं जगत्यर्हति सभ्यताख्याम् । मनुष्यजातौ कियतीश्वरस्य व्यक्तिः प्रमाणं खलु सभ्यतायाः ॥ १८३॥ आत्माव्यक्तब्रह्म सर्वोऽपि बाह्यः स्वान्तःसंस्थो यः प्रकृत्यन्तरायः । तं संयम्य ब्रह्मभावप्रकाशो लक्ष्यं लोके जीवनस्योच्चमास्ते ॥ १८४॥ कर्मोपास्तिज्ञानचेतोजयाना- मेकोपायेनाथ वा तैरनेकैः । व्यक्तीकृत्य स्वात्मनो दिव्यरूपं मुक्तेर्लाभं कर्तुमर्हस्यनन्तम् ॥ १८५॥ नय त्वं मामम्ब! त्वरितमतिदीप्तं परपदं निशानाथो यस्मिन्द्युमणिरपि खद्योतसदृशः । वृथा स्वप्नानेतांस्तिरय मम लीलान्तसमये विभिद्येदं दीर्घं निगडमधुना मोचय सुतम् ॥ १८६॥ व्यष्टिः परं ब्रह्म विभाग शून्यं मायावशादेव पृथक्त्वमेति । मायापि चैकीभवितुं स्वभावा- त्तद्भेदशून्यं यतते प्रयातुम् ॥ १८७॥ ``अहं'' पूर्णशक्तिप्रकाशस्वरूपं तथा भावनेयं जननै''र्ज्ञान''मुक्तम् । स्वरूपं तु सापेक्षमेतेन सिद्धये- दपेक्षायुता शुद्धसंवित्कृतः स्यात् ?॥ १८८॥ ज्ञानातीता पूर्णता सत्स्वभावा ज्ञानाज्ञाने पूर्णतांशस्वरूपे । सापेक्षत्वं पूर्णतातोऽस्ति नीचै- रज्ञानेन ज्ञानमेतादृशं स्यात् ॥ १८९॥ बन्धनात्सदसतोर्विमोचनं मुक्तिरित्यभिहिता मनीषिभिः । अस्तु हैममथवाप्ययोमयं वस्तुतस्तु निगडं तदुच्यते ॥ १९०॥ माया सादिरनादिर्वा सान्ता सा व्यष्टिरूपतः । समष्टिरूपतोऽनन्ता तथानादिश्च मन्यते ॥ १९१॥ वस्त्वेकमेव न द्वैतं चैतन्यं वाप्यचेतनम् । अज्ञानाख्या परं माया द्वैतभेदकरी भवेत् ॥ १९२॥ आदौ यदा स्याद्विषयाक्षयोगो न द्वैतबोधस्य तदावकाशः । क्षणे द्वितीये सविकल्पभानं सत्यादिसंवित्खलु निर्विकल्पा ॥ १९३॥ घनान्धकारः परितो विसर्पन् दृष्टिं विलुम्पन्नयमन्तमेतु । मृत्योर्न यन्मृत्युमथाभिलाषः ``स्व''-नाशको नश्यतु दीर्घशान्त्यै ॥ १९४॥ एको मुक्तः सर्ववेद्यस्य वेत्ता, नाम्ना रूपेणापि हीनः समानः । साक्षी सर्वस्वप्नजातस्य बीजं मायाधारो विश्वरूपोऽयमात्मा ॥ १९५॥ तातो माता पुत्रजाये च मित्रं स्वप्नं सर्वं नास्ति किञ्चिद्यथार्थम् । यद्येकस्त्वं कः पिता कश्च मित्रं त्वत्तो भिन्नं नास्ति सर्वं त्वमेव ॥ १९६॥ आध्यात्मिकत्वं खलु नः समाजे रक्तप्रवाहोऽमलजीवनस्य । ओजोऽन्वितो यावदसौ प्रवाहो निष्कण्टकस्तावदयस्य पन्थाः ॥ १९७॥ न कोऽप्यभावः परिपीडयेन्नो दरिद्रता मानसदुर्बलत्वम् । अध्यात्मधर्माश्रयतास्ति याव- न्नाशोन्मुखं स्यात्किमु भारतं नः ॥ १९८॥ शुद्धोऽसि पूर्णोऽसि बलान्वितोऽसि यदस्ति पापं न तवास्ति किञ्चित् । दौर्बल्यचिन्ता न सखे विधेया प्रत्यात्मसंस्थं बलमाविरस्तु ॥ १९९॥ कदाप्युच्चैर्गच्छन्समयजलधेर्वीचिवशतो लुठन्नीचैस्तूर्णं तदपि निजधारामनुसरन् । इतः श्रान्तो मातः क्षणिकसुखदुःखात्मजगत- स्तथा दूराद् द्रष्टुं परमपरतीरं त्वपरतः ॥ २००॥ (जनताजनार्दनः) त्वत्सम्मुखो विविधरूपधरो य ईश- स्तं सन्त्यजन्नु कुह मार्गयसे वृथैव । यः स्नेहतत्परमनाः खलु जीववृन्दे जानाति सेवितुमसावनिशं परेशम् ॥ २०१॥ (स्वामिजीवनलक्ष्यम्) जीर्णं वस्त्रमिव त्यजामि सुखतस्तूर्ण स्वकीयं वपुः पूर्णं कर्तुमथापि कार्यमनिशं लोके यतिष्ये धुवम् । यावद्ब्रह्ममयं समग्रमिति न ज्ञानं जगत्यां जनैः तावत्प्रेरयितुं प्रयत्नपरता मन्ये मदीयं तपः ॥ २०२॥ (समर्पणम्) स्वामिशब्दैर्विरच्येदं नव्यं श्लोकशतद्वयम् । त्वदीयं वस्तु भगवन्! तुभ्यमेव समर्पये ॥ २०३॥ इति साहित्याचार्य-एम्०ए०-भण्डारकरोपाह्व त्र्यम्बकशर्मणा विरचिता श्रीस्वामिविवेकानन्दोपदेशद्विशती समाप्ता ।