अक्षर आकार:

विवेकानन्दस्तोत्रम्

Swami Vivekananda Stotram

विवेकानन्दस्तोत्रम्

यतिसङ्घप्रतिष्ठाता तच्छिरोमणिसत्तमः । रामकृष्णमहाशिष्यो नेता भुवि नरोत्तमः । त्वमेव हि नमस्तुभ्यं विवेकानन्द ते नमः ॥ १॥ दिगन्तव्याप्तसत्कीर्ती राष्ट्रोद्धारकमण्डनः । महाराजगुरुर्दण्डी भारतोत्कर्षसाधनः । त्वमेव हि नमस्तुभ्यं विवेकानन्द ते नमः ॥ २॥ ज्ञाननेत्रस्फुरत्कायो नाट्यगानसुपारगः । व्याख्यानपटुपूर्णज्ञः सन्न्यासी श्रेष्ठचिद्घनः । त्वमेव हि नमस्तुभ्यं विवेकानन्द ते नमः ॥ ३॥ तारुण्योज्ज्वलरम्याङ्गो वेदसिद्धान्तदर्शनः । विश्वव्यापकहृत्प्रेमा विशालज्ञानलोचनः । त्वत्तो न हि परः कोऽपि विवेकानन्द ते नमः ॥ ४॥ भवरोगमहावैद्यो वेदान्ताभयदायकः । मनोमलमहाशुद्धः कमलाक्षमहाशयः । त्वमेव हि नमस्तुभ्यं विवेकानन्द ते नमः ॥ ५॥ कलिदोषमहावह्निः साक्षाच्छिवविलोचनः । दिव्यचारित्र्यपूर्णश्च विवेकान्धजनाञ्जनः । त्वमेव हि नमस्तुभ्यं विवेकानन्द ते नमः ॥ ६॥ राजराजशिरोरत्ननिघृष्टचरणोत्पलः । महामतिर्महाभागो भूगर्भव्योमपारगः । त्वमेव हि नमस्तुभ्यं विवेकानन्द ते नमः ॥ ७॥ निर्विकल्पसमाधिस्थो विचारणविशारदः । चिन्मात्रदिव्यपूर्णाङ्गश्चरमोन्नतिदायकः । त्वमेव हि नमस्तुभ्यं विवेकानन्द ते नमः ॥ ८॥ भारतोद्धारसन्त्यक्तसर्वसौख्यातिमानवः । धर्मग्लानिमहारात्रिप्रभातैकसुभावनः । त्वमेव हि महास्वामिन्विवेकानन्द ते नमः ॥ ९॥ सद्योजाताय ते स्वामिन् विश्वैककमलावले । नमस्तुभ्यं नमस्तुभ्यं विवेकानन्द ते नमः ॥ १०॥ महावीर्यधरो राजा भूपानां यमिनां तथा । पराक्रमप्रभावेण जितेन्द्रियो महाबलः । त्वमेव हि नमस्तुभ्यं विवेकानन्द ते नमः ॥ ११॥ मुनीनां योगिनां चैव पराक्रातमहद्यशः । शब्दे परे च निष्णातः पारमार्थिकदेशिकः । त्वत्तो न हि परः कोऽपि विवेकानन्द ते नमः ॥ १२॥ धर्मग्लान्याप्लुता भूमिः सगौरवकृता हिया । त्वयैव रामकृष्णाब्जमधुपानधुरन्धरः । त्वत्तो न हि परः कोऽपि विवेकानन्द ते नमः ॥ १३॥ यतिसङ्घमहोद्यानसुखसञ्चारकारिणे । नरेन्द्रनाथदत्ताय विवेकानन्दस्वामिने । त्वत्तो न हि परः कोऽपि विवेकानन्द ते नमः ॥ १४॥ नमस्ते पूर्णप्रज्ञाय दिव्यत्यागमहात्मने । नरेन्द्रनाथदत्ताय विवेकानन्दस्वामिने ॥ १५॥ इति स्वामिगुणातीतानन्दविरचितं विवेकानन्दस्तोत्रम् । उद्बोधनपत्रिकातः विवेकानन्दशतवार्षिकीसङ्ख्यायाः सङ्गृहीतम् । branch of Ramakrishna Math/Mission 1902-1915. He was one of the 16 direct disciples of Sri Ramakrishna. He built the first Hindu temple in North America.