अक्षर आकार:

श्रीविश्वकर्माष्टकम् २

shrIvishvakarmAShTakam 2

श्रीविश्वकर्माष्टकम् २

आदिरूप नमस्तुभ्यं नमस्तुभ्यं पितामह । विराटाख्य नमस्तुभ्यं विश्वकर्मन्नमोनमः ॥ १॥ आकृतिकल्पनानाथस्त्रिनेत्री ज्ञाननायकः । सर्वसिद्धिप्रदाता त्वं विश्वकर्मन्नमोनमः ॥ २॥ पुस्तकं ज्ञानसूत्रं च कम्बी सूत्रं कमण्डलुम् । धृत्वा संमोहनं देव विश्वकर्मन्नमोनमः ॥ ३॥ विश्वात्मा भूतरूपेण नानाकष्टसंहारक । तारकानादिसंहाराद्विश्वकर्मन्नमोनमः ॥ ४॥ ब्रह्माण्डाखिलदेवानां स्थानं स्वर्भूतलं तलम् । लीलया रचितं येन विश्वरूपाय ते नमः ॥ ५॥ विश्वव्यापिन्नमस्तुभ्यं त्र्यम्बकं हंसवाहनम् । सर्वक्षेत्रनिवासाख्यं विश्वकर्मन्नमोनमः ॥ ६॥ निराभासाय नित्याय सत्यज्ञानान्तरात्मने । विशुद्धाय विदूराय विश्वकर्मन्नमोनमः ॥ ७॥ नमो वेदान्तवेद्याय वेदमूलनिवासिने । नमो विविक्तचेष्टाय विश्वकर्मन्नमोनमः ॥ ८॥ यो नरः पठते नित्यं विश्वकर्माष्टकमिदम् । धनं धर्मं च पुत्रश्च लभेदान्ते परां गतिम् ॥ ९॥ इति विश्वकर्माष्टकं सम्पूर्णम् ।