अक्षर आकार:

विश्वकर्माष्टकम् १

vishvakarmAShTakam 1

विश्वकर्माष्टकम् १

निरञ्जनो निराकारः निर्विकल्पो मनोहरः । निरामयो निजानन्दः निर्विघ्नाय नमो नमः ॥ १॥ अनादिरप्रमेयश्च अरूपश्च जयाजयः । लोकरूपो जगन्नाथः विश्वकर्मन्नमो नमः ॥ २॥ नमो विश्वविहाराय नमो विश्वविहारिणे । नमो विश्वविधाताय नमस्ते विश्वकर्मणे ॥ ३॥ नमस्ते विश्वरूपाय विश्वभूताय ते नमः । नमो विश्वात्मभूथात्मन् विश्वकर्मन्नमोऽस्तु ते ॥ ४॥ विश्वायुर्विश्वकर्मा च विश्वमूर्तिः परात्परः । विश्वनाथः पिता चैव विश्वकर्मन्नमोऽस्तु ते ॥ ५॥ विश्वमङ्गलमाङ्गल्यः विश्वविद्याविनोदितः । विश्वसञ्चारशाली च विश्वकर्मन्नमोऽस्तु ते ॥ ६॥ विश्वैकविधवृक्षश्च विश्वशाखा महाविधः । शाखोपशाखाश्च तथा तद्वृक्षो विश्वकर्मणः ॥ ७॥ तद्वृक्षः फलसम्पूर्णः अक्षोभ्यश्च परात्परः । अनुपमानो ब्रह्माण्डः बीजमोङ्कारमेव च ॥ ८॥ इति विश्वकर्माष्टकं सम्पूर्णम् ।