अक्षर आकार:

श्रीविद्यातीर्थाष्टकम्

Shri Vidyatirthashtakam

श्रीविद्यातीर्थाष्टकम्

वर्णचतुष्टयमेतद्विद्यातीर्थेति यस्य जिह्वाग्रे । विलसति सदा स योगी भोगी च स्यान्न तत्र सन्देहः ॥ १॥ लम्बिकायोगनिरतमम्बिकापतिरूपिणम् । विद्याप्रदं नतौघाय विद्यातीर्थमहेश्वरम् ॥ २॥ पापगधकारसूर्यं तापाम्भोधिप्रवृद्धबडवाग्निम् । नतहृन्मानसहंसं विद्यातीर्थं नमामि योगीशम् ॥ ३॥ पद्यावलिर्मुखाब्जादयत्नतो निःसरेच्छीघ्रम् । हृद्या यत्कृपया तं विद्यातीर्थं नमामि योगीशम् ॥ ४॥ भक्त्या यत्पदपद्मं भजतां योगः षडङ्गयुतः । सुलभस्तं करुणाब्धिं विद्यातीर्थं नमामि योगीशम् ॥ ५॥ हृद्या विद्या वृणुते यत्पदनम्रं नरं शीघ्रम् । तं कारुण्यपयोधिं विद्यातीर्थं नमामि योगीशम् ॥ ६॥ विद्यां दत्त्वाविद्यां क्षिप्रं वारयति यः प्रणम्राणाम् । दयया निसर्गया तं विद्यातीर्थं नमामि योगीशम् ॥ विद्यारण्यप्रमुखैर्विद्यापारङ्गतैः सेव्यम् । अद्यापि योगनिरतं विद्यातीर्थं नमामि योगीशम् ॥ ८॥ विद्यातीर्थाष्टकमिदं पठन्भक्तिपुरःसरम् । विद्यामनन्यसामान्यां प्राप्य मोदमवाप्नुयात् ॥ ९॥ इति श‍ृङ्गेरि श्रीजगद्गुरु श्रीसच्चिदानन्दशिवाभिनवनृसिंह- भारतीस्वामिभिः विरचितं श्रीविद्यातीर्थाष्टकं सम्पूर्णम् ।