अक्षर आकार:

श्रीविद्याशङ्करपञ्चरत्नस्तवः

Shri Vidyashankara PancharatnastavaH

श्रीविद्याशङ्करपञ्चरत्नस्तवः

विद्याशङ्कर मां त्वं विद्याशं कुरु सदैव करुणाब्धे । विद्या शं कुरुते खलु विद्या शङ्कां छिनत्ति चित्तस्थाम् ॥ १॥ चिन्तयतो हृदयाब्जे योगीन्द्रस्यास्य योगबलात् । पुरतः प्रादुरभूतां किं करुणाब्धी गिरीन्द्रजाशम्भू ॥ २॥ सालङ्काररमापतेर्हृदि सदा ध्यानात्कृतात्सादरं तादात्म्यं किमु योगिशेखर समापन्नोऽसि नूनं गुरो । नो चेद्दूरनिरस्तसर्वविभवस्याशाम्बरस्याप्यहो चित्रं भूषणजालमाततमिदं कस्मात्समागाद्वद ॥ ३॥ विद्यातीर्थ कृपाम्बुधे कलिमलप्रध्वंसनैकव्रत प्रज्ञादानसुदीक्षित प्रणमतां मां सर्वमित्रैर्युतम् । पाह्यम्ब्वग्निनृपादिजन्यभयतस्तद्वच्च रोगादितो दत्त्वाऽऽयुष्यमरोगतां च दृढतां विद्यां च लोकोत्तराम् ॥ ४॥ विद्यादाननिबद्धदीक्ष करुणावारान्निधे सद्गुरो विद्यातीर्थ ममादिशस्व सुखदं योगं द्रुतं सिद्धिदम् । यस्माच्छीघ्रमहं प्रपद्य सकलाः सिद्धीश्च विद्यास्तथा स्वात्मानन्दनिमग्नचित्तसरसीजातो भवेयं सदा ॥ ५॥ इति श‍ृङ्गेरि श्रीजगद्गुरु श्रीसच्चिदानन्दशिवाभिनवनृसिंह- भारतीस्वामिभिः विरचितः श्रीविद्याशङ्करपञ्चरत्नस्तवः सम्पूर्णः ।