अक्षर आकार:

श्रीविद्यारण्याष्टोत्तरशतनामावली

shrI vidyAraNya aShTottarashata nAmAvaliH

श्रीविद्यारण्याष्टोत्तरशतनामावली

ॐ विद्यारण्यमहायोगिने नमः । ॐ महाविद्याप्रकाशकाय नमः । ॐ श्रीविद्यानगरोद्धर्त्रे नमः । ॐ विद्यारत्नमहोदधये नमः । ॐ रामायणमहासप्तकोटिमन्त्रप्रकाशकाय नमः । ॐ श्रीदेवीकरुणापूर्णाय नमः । ॐ परिपूर्णमनोरथाय नमः । ॐ विरूपाक्षमहाक्षेत्रस्वर्णवृष्टिप्रकल्पाय नमः । ॐ वेदत्रयोल्लसद्भाष्यकर्त्रे नमः । ॐ तत्त्वार्थकोविदाय नमः । १० ॐ भगवत्पादनिर्णीतसिद्धान्तस्थापनप्रभवे नमः । ॐ वर्णाश्रमसारविदे नमः । ॐ निगमागमव्यवस्थात्रे नमः । ॐ श्रीमत्कर्णाटकराजश्रीराज्यसिंहासनप्रदाय नमः । ॐ श्रीमद्बुक्कमहीपालराज्यपट्टाभिषेककृते नमः । ॐ आचार्यकृतभाष्यादिग्रन्थवृत्तिप्रकल्पाय नमः । ॐ सकलोपनिषद्भाष्यदीपिकादिप्रकाशकृते नमः । ॐ सर्वशास्त्रार्थतत्त्वज्ञाय नमः । ॐ मन्त्रशास्त्राब्धिमन्थराय नमः । ॐ विद्वन्मणिशिरःश्लाघ्यबहुग्रन्थविधायकाय नमः । २० ॐ सारस्वतसमुद्धर्त्रे नमः । ॐ सारासारविचक्षणाय नमः । ॐ श्रौतस्मार्तसदाचारसंस्थापनधुरंधराय नमः । ॐ वेदशास्त्रबहिर्भूतदुर्मतामहोधिशोषकाय नमः । ॐ दुर्वादिगर्वदावाग्नये नमः । ॐ प्रतिपक्षेभकेसरिणे नमः । ॐ यशोजैवाक्त्रज्योत्स्नाप्रकाशितदिगन्तराय नमः । ॐ अष्टाङ्गयोगनिष्णाताय नमः । ॐ साङ्ख्ययोगविशारदाय नमः । ॐ राजाधिराजसंदोहपूज्यमानपदाम्बुजाय नमः । ३० ॐ महावैभवसम्पन्नाय नमः । ॐ औदार्यश्रीनिवासभुवे नमः । ॐ तिर्यगान्दोलिकामुख्यसमस्तबिरुदार्जकाय नमः । ॐ महाभोगिने नमः । ॐ महायोगिने नमः । ॐ वैराग्यप्रथमाश्रयाय नमः । ॐ श्रीमते नमः । ॐ परमहंसादिसद्गुरवे नमः । ॐ करुणानिधये नमः । ॐ तपः प्रभावनिर्धूतदुर्वारकलिवैभवाय नमः । ४० ॐ निरंतरशिवध्यानशोषिताखिलकल्मषाय नमः । ॐ निर्जितारतिषड्वर्गाय नमः । ॐ दारिद्र्योन्मूलनक्षमाय नमः । ॐ जितेन्द्रियाय नमः । ॐ सत्यवादिने नमः । ॐ सत्यसंधाय नमः । ॐ दृढव्रताय नमः । ॐ शान्तात्मने नमः । ॐ सुचरित्राढ्याय नमः । ॐ सर्वभूतहितोत्सुकाय नमः । ५० ॐ कृतकृत्याय नमः । ॐ धर्मशीलाय नमः । ॐ दांताय नमः । ॐ लोभविवर्जिताय नमः । ॐ महाबुद्धये नमः । ॐ महावीर्याय नमः । ॐ महातेजसे नमः । ॐ महामनसे नमः । ॐ तपोराशये नमः । ॐ ज्ञानराशये नमः । ६० ॐ कल्याणगुणवारिधये नमः । ॐ नीतिशास्त्रसमुद्धर्त्रे नमः । ॐ प्राज्ञमौलिशिरोमणये नमः । ॐ शुद्धसत्त्वमयाय नमः । ॐ धीराय नमः । ॐ देशकालविभागविदे नमः । ॐ अतीन्द्रियज्ञाननिधये नमः । ॐ भूतभाव्यर्थकोविदाय नमः । ॐ गुणत्रयविभागज्ञाय नमः । ॐ सन्यासाश्रमदीक्षिताय नमः । ७० ॐ ज्ञानात्मकैकदण्डाढ्याय नमः । ॐ कौसुंभवसनोज्ज्वलाय नमः । ॐ रुद्राक्षमालिकाधारिणे नमः । ॐ भस्मोद्धूलितदेहवते नमः । ॐ अक्षमालालसद्धस्ताय नमः । ॐ त्रिपुण्ड्राङ्कितमस्तकाय नमः । ॐ धरासुरतपस्सम्पत्फलाय नमः । ॐ शुभमहोदयाय नमः । ॐ चन्द्रमौलीश्वरश्रीमत्पादपद्मार्चनोत्सुकाय नमः । ॐ श्रीमच्छंकरयोगीन्द्रचरणासक्तमानसाय नमः । ८० ॐ रत्नगर्भगणेशानप्रपूजनपरायणाय नमः । ॐ शारदाम्बादिव्यपीठसपर्यातत्पराशयाय नमः । ॐ अव्याजकरुणामूर्तये नमः । ॐ प्रज्ञानिर्जितगीष्पतये नमः । ॐ आज्ञावशीकृतगीष्पतये नमः । ॐ लोकानंदविधायकाय नमः । ॐ वाणीविलासभवनाय नमः । ॐ ब्रह्मानंदैकलोलुपाय नमः । ॐ निर्ममाय नमः । ॐ निरहंकाराय नमः । ९० ॐ निरालस्याय नमः । ॐ निराकुलाय नमः । ॐ निश्चिंताय नमः । ॐ नित्यसंतुष्टाय नमः । ॐ नियतात्मने नमः । ॐ निरामयाय नमः । ॐ गुरुभूमण्डलाचार्याय नमः । ॐ गुरुपीठप्रतिष्ठिताय नमः । ॐ सर्वतन्त्रमन्त्रस्वतन्त्राय नमः । ॐ यन्त्रमन्त्रविचक्षणाय नमः । १०० ॐ शिष्टेष्टफलदात्रे नमः । ॐ दुष्टनिग्रहदीक्षिताय नमः । ॐ प्रतिज्ञातार्थनिर्वोढ्रे नमः । ॐ निग्रहानुग्रहप्रभवे नमः । ॐ जगत्पूज्याय नमः । ॐ सदानन्दाय नमः । ॐ साक्षाच्छङ्कररूपभृते नमः । ॐ महालक्ष्मीमहायन्त्रपुरश्चर्यापरायणाय नमः । १०८ ॥ श्री विद्यारण्याष्टोत्तरशतनामावलि सम्पूर्णम् ॥