अक्षर आकार:

श्रीवेदव्यासवर्णनम्

Shri Veda Vyasa Varnanam

श्रीवेदव्यासवर्णनम्

व्यासायाप्रतिमेतिहासरचनोल्लासाय दुर्वादिनां त्रासायासकराय सत्सुकृत विश्वासाय दोषद्विषे । भासायामुनरम्यतोय सदृशायासायमासेविने दासायाभयदाय मध्वगुरुहृद्वासाय तुभ्यं नमः ॥ (श्रीमन्महाभारत लक्षालङ्कार) पारं भवाख्य जलधेर्भुवनैक सारं स्वैरं कृतोरु विधवेद पथप्रचारम् । आरञ्जितामरजनं सुखचित्शरीरं धीरं स्मरामि हृदि सत्यवतीकुमारम् ॥ (युक्ति मल्लिका) यो वायोर्वदने स्वहृव्वरसरः सञ्जात शास्त्राम्बुज प्रेमालम्बन सौरभं सुरसभामध्ये पुपूर प्रभुः । तं व्यासं हरितोऽलाचलतुलं श्रीशं भजामोनिशं तं मध्वं च निजाध्वयायिषु यथायोग्यं तदंशार्पकम् ॥ (श्रीसरसभारती विलास १-३४) स्नेहार्द्र मध्वहृदयाख्य दशानुषक्तं मोहाख्य सन्तमसकृन्तन तीव्रशक्तिम् । श्रीमध्यवाटमठ पौरटभाजनस्थं व्यासप्रदीपमिममादरतो भजध्वम् ॥ (तीर्थ प्रबन्ध प. प्र. श्लोक २८) वेदव्यास गुणावास विद्याधीश सतां वश । मां निराशं गतक्लेशं कुर्वनाशं हरेनिशम् ॥ (तीर्थ प्रबन्ध प. प्र. श्लोक २९) व्यासाय भवनाशाय श्रीशाय गुणराशये । हृद्याय शुद्धविद्याय माध्वाय च नमो नमः ॥ (युक्तिमल्लिका गुणसौरभ श्लोक ४) इति श्रीवादिराजपूज्यचरणविरचितं श्रीवेदव्यासवर्णनं सम्पूर्णम् ।