अक्षर आकार:

श्रीवेदव्यासस्तोत्रम् ५

Shri Veda Vyasa Stotram 5

श्रीवेदव्यासस्तोत्रम् ५

सुखमुखगुणबिम्बः साधुमार्गावलम्बः सुमति जलजमोदो दूषितान्यप्रमोदः । भुवन वितत मोहध्वान्त विध्वंसकेतुः दिशतु दृशमभीष्टां व्याससूर्यः स्वनिष्ठाम् ॥ १॥ आनन्दादि गुणोद्रिक्तमानन्दादिपदाभिधम् । आनन्दमुनिपं व्यास स्वानन्दाय भजेमुहुः ॥ २॥ विदोषभाश्चिन्तितसन्मनोरथप्रदेशः सुधीमण्डल मण्डनायितः । सदा ममाज्ञानतमोविनाशकः श्रुतीश चिन्तामणिरस्तु भूतिदः ॥ ३॥ वासवीवियति व्यक्तं परापरविभासकम् । व्यासाभिधमहं वन्दे महामोहतमोपहम् ॥ ४॥ (श्रीमन्यायसुधा टिप्पणि) व्यास भारतकर्तारं मध्वं मूलगुरुं तथा । चेतो वाग्देवतां वाणीं गुरूंश्च प्रणमाम्यहम् ॥ ५॥ व्यासं सर्वगुणावासं वासवीनन्दनं प्रभुम् । श्रीनिवासं सदा वन्दे भासमानं हृदम्बरे ॥ ६॥ (श्री यमकभारत टिप्पणि) भूखण्ड प्रकटीकृतामलवपुः विस्तारिताशेषगु र्वेदान्ताब्ज विकासको हरिर्जगत्तत्वप्रकाशप्रदः । ध्वस्तध्वान्तततिः शरण्य जनसन्मार्गप्रदर्शी मुहुः वेदव्यास दिवाकरो लसतु मे हार्दाम्बरे सर्वदा ॥ ७॥ (श्रीमद्भागवत प्रथम स्कन्ध टिप्पणि) वासवीनन्दनं व्यासं वासुदेव पराभिदम् । श्रीशं नौमि सदा मध्वहृदयाम्बुज वासिनम् ॥ ८॥ (श्रीमद्भागवत प्रथम स्कन्ध टिप्पणि) सत्यवत्यालवालोत्थं सद्विद्यालतया युतम् । नाना शाखाभिरुत्कृष्टं व्यास कल्पद्रुमं भजे ॥ ९॥ (श्रीमद्भागवत द्वितीय स्कन्ध टिप्पणि) सुखज्ञानादि सद्रत्नः शुकयोगीन्दु सम्भवः । व्यासदेवामृताम्बोधिः भूयाद्भूत्यै ममानिशम् ॥ १०॥ (श्रीमद्भागवत तृतीय स्कन्ध टिप्पणि) सत्यवत्यालवालोत्थं वेदशाखोपबृंहितम् । शुकादिद्विजसन्नादं व्यास कल्पद्रुमं भजे ॥ ११॥ (श्रीमद्भागवत चतुर्थ स्कन्ध टिप्पणि) सुखादिगुण सम्पूर्णं दुःखाज्ञान विवर्जितम् । शुकादिमुनि मध्यस्तं व्यासयोगीशमाभजे ॥ १२॥ (श्रीमद्भागवत सप्तम स्कन्ध टिप्पणि) इति श्रीयादवार्यविरचितं श्रीवेदव्यासस्तोत्रं सम्पूर्णम् ।