अक्षर आकार:

श्रीवेदव्यासस्तोत्रम् ३

Shri Veda Vyasa Stotram 3

श्रीवेदव्यासस्तोत्रम् ३

(श्रीसुमध्वविजय - सप्तम सर्गः) अगणेय गुणार्णवोमलः स हि नारायण एष केवलम् । विधिनानुसृतं पराशरात् सुषुवे सत्यवती किलाश्रयम् ॥ १॥ धवलेस्य मनः पयोनिधौ सदनुक्रोश गिरीन्द्रलोलिते । प्रकटीभवति स्म सुन्दरी दयिता दैत्यरिपोस्त्रयी मयी ॥ २॥ इत एव पुराण गौरगौ समहाभारत पारिजातके । सति जातवति व्यजायत प्रवरं सूत्रगणामृतं स्वयम् ॥ ३॥ निरवग्रहमुर्वनुग्रह विदधत्पाण्डु सुतादि सज्जने ॥ अवनाववनाय संविदां सुचिरायैष चचार चारुगी ॥ ४॥ अधुना कलिकालवृत्तये सवितेव क्षणदानुवृत्तये । जनदृग्विषयत्वमत्यज द्भगवानाश्रममावसन्निमम् ॥ ५॥ तदिदं वपुरस्य दृश्यते दलितेन्दीवर सुन्दरम्मति । परमाजिन योग पीठगं मम चेतो नयनाभिनन्दनम् ॥ ६॥ अगणेय गुणैः सुपूरितं परिपूर्णागणितात्म सद्गुणैः । इदमस्त समस्त दूषणं सचिदानन्दमयं हि केवलम् ॥ ७॥ कमला कमलासनानिलै र्विहगाहीन्द्र शिवेन्द्रपूर्वकैः । पदपद्मरजोस्य धारितं शिरसा हन्त वहाम्यहं मुहुः ॥ ८॥ प्रणमामि पदद्वयं विभो र्ध्वजवज्राङ्कुश पद्मचिह्नवत् । निजमानसराग पीडना- दरुणीभूतमिवारुणं स्वयम् ॥ ९॥ ननु केवलमेव वैष्णवं श्रीतवन्तः परमात्मरोचिषा । तमसोप्युभयस्य नाशका विजयन्ते नखरा नवं रविम् ॥ १०॥ सुकुमार तलाङ्गुलीमतोः पदयोरस्य निगूढ गुल्फयोः । उपमानमहो नलभ्यते कविवर्यैरितरेतरं विना ॥ ११॥ उचितां गुरुतां दधत् क्रमा च्छुचि तेजस्वि सुव्रत्तमुत्तमम् । भजतोत्र च भाजयत्यदो विभुजङ्घायुगलं सरूपताम् ॥ १२॥ अचलासनयोगपट्टिका वरकक्ष्या सकृदाप्तमिष्टदम् । परितोपि हरिं स्फुरन्त्यहो अनिशं धन्यतमेति मे मतिः ॥ १३॥ रुचिरेण वरैण चर्मणा रुचिराजय्युति चारुरोचिषा । परमोरु नितम्ब सङ्गिना परमाश्चर्यतया विराजते ॥ १४॥ तनुनिम्नसुनाभि शोभिते वलिभे वारिजनाभ आददे । प्रतनावति सुन्दरे मृदा वुदरेस्मिन् जगदण्डमण्डलम् ॥ १५॥ हृदये कृत सज्जनोदये सुविशाले विमले मनोहरे । उभयं वहति तयि मयं भगवान् ब्रह्मसुसूत्रमुत्तमम् ॥ १६॥ असमेनधिके सुसाधिते निजताते रविराशिदीधिति । प्रददौ त्रिजगज्जयध्वजं विधिरेतद्गलसङ्गिभूषणम् ॥ १७॥ अरिवारिजलक्षणोल्लस त्सुकुमारारुण पाणिपद्मयोः । पृथुपीवर वृत्त हस्तयो रुपमां नैव लभामहेनयोः ॥ १८॥ भजतां वरतर्कमुद्रया व्यति हस्ताग्रमबोधमीशितुः । अधिजानुसमर्पित परं कृतभूयो भयभङ्ग मङ्गलम् ॥ १९॥ सततं गलता स्वतः श्रुति- त्रितयेनैव निकाममङ्कितः । सुविडम्बित कम्बुरीक्ष्यते वररेखात्रयवान् गुरोर्गलः ॥ २०॥ सकलास्त कलङ्क कालिम स्पुरदिन्दु प्रकरोरु विभ्रमम् । अधरी कुरुते स्वशोभया वदनं देव शिखामणेरिदम् ॥ २१॥ अरुणाश्मदलान्तरोल्लस न्नव मुक्तावलिमस्य लज्जयेत् । हसतः सितदन्त सन्ततिः परमश्रीररुणोष्ठरोचिषः ॥ २२॥ द्विजवृन्दकृतं कुतूहला दनु योगान्धु सहस्तमुत्तमम् । इयमेकपदे सरस्वती श्रुतिभर्तुः परिपूरयत्यहो ॥ २३॥ जलजायतलोचनस्य मा मवलोकोयमुपेत्यलालयन् । कुरुते परिरभ्य पूरितं भुवनानन्द करस्मितान्वितः ॥ २४॥ उपकर्णममुष्य भासिता तुलसी मन्त्रयतीव लालिता । ममनाथ पदं न मत्सरा ज्जलजाद्यानि हरेयुरित्यलम् ॥ २५॥ विभवाबिभवोद्भवादिकं भुवनानां भुवन प्रभोर्भुवोः । अनयोरपि दभ्रविभ्रमात् सभवाम्भोज भवात्मनां भवेत् ॥ २६॥ त्रिजगत्तिलकालिकान्तरे तिलकोयं परभागमाप्तवान् । हरि नीलगिरीन्द्र मस्तक स्फुट शोणोपलपङ्क्ति सन्निभः ॥ २७॥ नवमम्बुधरं विडम्बय द्वर विद्युद्वलयं जगद्गुरोः । अवलोक्य कृतार्थतामगां सजटामण्डल मण्डनं वपुः ॥ २८॥ न रमापि पदाङ्गुलीलस न्नखधूराजदनन्त सद्गुणान् । गणयेद्गणयन्त्यनारतं परमान् कोस्य परो गुणान् वदेत् ॥ २९॥ सज्ञानायानन्दविज्ञानमूर्ती प्राप्तौ पृथ्वीमाश्रमे तत्र तावत् । जाज्वल्येते विष्णुवायूस्म देवौ वेदव्यासानन्दतीर्थाभिधानौ ॥ ३०॥ इति श्रीमन्नारायणपण्डिताचार्यविरचितं श्रीवेदव्यासस्तोत्रं सम्पूर्णम् ।