अक्षर आकार:

पाषण्डखण्डन श्रीवेदव्यासस्तोत्रम् १

Shri Veda Vyasa Stotram 1 Pashandakhandana

पाषण्डखण्डन श्रीवेदव्यासस्तोत्रम् १

भीष्मेण काम्यकवने धर्मराजं नृपं प्रति । सत्यं सत्यमिति श्लोको भुजावुद्धृत्य पीवरौ ॥ १॥ उक्तः किल सभामध्ये कथेयमखिला स्फुटम् । शेषधर्माश्चर्यपर्व द्वितीयाध्याय मध्यगा ॥ २॥ अतस्तस्य भुजावेव छेद्यौ यद्यस्ति पौरुषम् । व्यासस्तु तां कथां ग्रन्थे निबबन्ध परं सुधीः ॥ ३॥ किं यमः पापिनं हन्यात्किं वा पापस्य साक्षिणः । हृता सीता रावणेनेत्युक्ते न हि जटायुषः ॥ ४॥ शिरश्चिच्छेद भगवान् रामो राजीवलोचनः । किन्तु भार्यापहर्तारं जघान युधि रावणम् ॥ ५॥ इदं निदर्शनं पश्य माविवेके मनः कृथाः । उद्धृत्य शेषधर्मस्थ वाक्यान्यपि च कानिचित् ॥ मन्दानामुपकाराय दर्शयिष्यामि तत्त्वतः ॥ ६॥ युधिष्ठिर उवाच- पितामह महाप्राज्ञ सर्वशास्त्र विशारद । कृष्णे धर्मे च मे भक्तिः यथास्याद्धि तथा वद ॥ ७॥ भीष्म उवाच- श‍ृणु पाण्डव वक्ष्यामि हरिभक्तिं सुदुर्लभाम् । श्रोत्रूणां सर्वपापघ्नीं वदतां च युधिष्ठिर ॥ ८॥ सत्यं सत्यं पुनः सत्यमुद्धृत्य भुजमुच्यते ॥ ९॥ वेदशास्त्रात्परं नास्ति न दैवं केशवात्परम् । सत्यं वच्मि हितं वच्मि सारं वच्मि पुनः पुनः ॥ १०॥ असारे दग्धसंसारे सारं यद्विष्णु पूजनम् । उद्धृत्य स्वभुजौ भीष्नः शशंस किल संसदि ॥ ११॥ एवं च व्यासदेवस्य कोपराधो विचारय । अतो मध्वमुनेर्वाक्ये भारतज्ञ शिरोमणे ॥ १२॥ उद्धृतं बाहुयुगलं यथा भवति वैतथा । भीष्माचार्य कृतस्योग्र शपथस्य समीरितम् ॥ १३॥ यत्र तद्वै व्यासवचः श‍ृणुतेत्येव योजना । तत्तत्क्रत्त्यानुवक्ता च शास्त्राचार्योऽहिलस्य च ॥ १४॥ अशेष निगमोद्धर्ता हर्ता दुस्समयस्य च । मनस्सङ्कल्प मात्रेण कुरुपाण्डवसेनयोः ॥ १५॥ कर्ता सत्यवती पुत्रो विहर्ता मुनिमण्डले । राजसूयस्य चाचार्यः सर्पयागस्य च प्रभुः ॥ १६॥ कस्तस्य भुजयोश्छेत्ता किं वा तच्छेद कारणम् । भ्रममूला ततस्सर्वा कथासीद् व्यासवैरिणाम् ॥ १७॥ रजक द्रोहतो भिक्षोः शूलारोपण वाक्यवत् । भ्रामकं तस्य शास्त्रं च यत्रेत्थं समुदीरितम् ॥ १८॥ नारीसङ्गम मत्तोसौ यस्मान्मामवमन्यते । योनिलिङ्ग स्वरूपं हि तस्मादस्य भविष्यति ॥ १९॥ इति पाद्मपुराणोक्त भ्रगुशापस्य साहसम् । पश्यन्तु पञ्चशीर्षाणि भुजानां तु चतुष्टयम् ॥ २०॥ द्वौपादावुदरंवक्षः कटी चोरू च धूर्जटेः । विच्छिद्य तत्क्षणादेव पेतुः किल महीतले ॥ २१॥ शिश्नमात्रं तूर्वरितं तच्च योन्यां विवेशितम् । अत्र प्रमाणं शैवानां कण्ठे कण्ठेवलम्बिनी ॥ २२॥ लिङ्गमालैव या नित्यं करे वामे प्रपूज्यते । अतः पाद्मोदितकथा शैवानामपि सम्मता ॥ २३॥ हस्तव्वयवती रम्य जटामण्डल मण्डिता । पद्मपादा श्यामवर्णा लसत्कृष्णाजिनोज्ज्वला ॥ २४॥ मन्दस्मिता चन्द्रमुखी बिम्बोष्ठी पङ्कजेक्षणा । कुन्द कुड्मलदन्ताभा सान्द्र कुन्तल सङ्कुला ॥ २५॥ कन्दर्पकोटि सदृशी सौन्दर्याम्बुधि मन्दिरा । वन्दारूणामभयदा वन्द्यमाना सुरैर्नरैः ॥ २६॥ अद्यापि पूज्यते व्यासप्रतिमा ज्ञानदायिनी । चित्रकैर्लिख्यते भित्तौ मन्त्रशास्त्रेषु वर्ण्यते ॥ २७॥ अहो व्यास भुजच्छेदमाशासानस्य दुर्मतेः । स्वदैव सर्वगात्राणां च्छेदः खेदकरोभवत् ॥ २८॥ तद्वृद्धि मिच्चतो मूलच्छेदोभूत्तव दुर्जन । यद्व्यासाय द्रुह्यतस्ते शिवद्रोहोभवद् ध्रुवः ॥ २९॥ विवाद परिहाराय कथेयं ग्रथिताखिला । यतिना वादिराजेन व्यासकैङ्कर्यकामिना ॥ ३०॥ इति श्रीवादिराजपूज्यचरणविरचितं पाषण्डखण्डन श्रीव्यासस्तोत्रं सम्पूर्णम् ॥