अक्षर आकार:

वेदव्यासलघुस्तोत्राणि

Veda Vyasa Laghu Stotrani

वेदव्यासलघुस्तोत्राणि

१. श्रीहरिवंशे श्रीवेदव्यासस्तोत्रम् जयति पराशरसूनुः सत्यवती हृदयनन्दनोव्यासः । यस्यास्यकमलगलितं वाङ्मयममृतं जगत्पिबति ॥ २. श्रीमद्भागवते श्रीवेदव्यासस्तोत्रम् नारायणं नमस्कृत्य नरं चैव नरोत्तमम् । देवीं सरस्वतीं व्यासं ततो जयमुदीरयेत् ॥ ३. श्रीमदानन्दतीर्थ भगवत्पादाचार्यविरचितं श्रीवेदव्यासस्तोत्रं नमो भगवते तस्मै व्यासायामित तेजसे । यस्य प्रसादाद् वक्ष्यामि नारायण कथामिमाम् ॥ १ (श्रीम. भा. ता. नि. २-६७) श्रीमद्महाभारत तात्पर्य निर्णयः जयत्यजोखण्डगुणोरुमण्डलः सदोदितो ज्ञानमरीचिमाली । स्वभक्त हार्दोच्चतमोनिहन्ता व्यासावतारो हरिरात्म भास्करः ॥ २ (श्रीम. भा. ता. नि. ३-१) नारायणं नमस्कृत्य नरं चैव नरोत्तमम् । देवीं सरस्वतीं व्यासं ततो जय मुदीरयेत् ॥ ३ (श्रीम. भा. ता. नि. ३-४) तमेव शास्त्रप्रभवं प्रणम्य जगद्गुरूणां गुरुमञ्जसैव । विशेषतो मे परमाख्यविद्या व्याख्यां करोम्यन्वपि चाहमेव ॥ ४ (अनुव्याख्यान १-२) द्वीपे भगिन्याश्च यमस्य विश्वकृत् प्रकाशते ज्ञानमरीचि मण्डलः । प्रभासयन्नण्ड बहिस्तथान्तः सहस्रलक्षामित भानुदीधितिः ॥ ५ (श्रीम. भा. ता. नि. १०-५१) अगण्य दिव्योरुगुणार्णवः प्रभुः समस्त विद्याधिपतिर्जगद्गुरुः । अनन्तशक्तिर्जगदीश्वरेश्वरः समस्त दोषातिविदूरविग्रहः ॥ ६ (श्रीम. भा. ता. नि. १०-२२) शुभमरकतवर्णो रक्तपादाब्बनेत्रा धरकरनखरसनाग्रश्चक्र शङ्खाब्जरेखः । रविकरवरगौरं चर्मचैणंवसान स्तटिदमलजटा सन्दीप्तचूडं दधानः ॥ ७ (श्रीम. भा. ता. नि. १०-५३) विस्तीर्ण वक्षाः कमलायताक्षो बृहद्भुजः कम्बु समानकण्ठः । समस्त वेदान्मुखतः समुद्गिरन् अनन्त चन्द्राधिक कान्ति सन्मुखः ॥ ८ (श्रीम. भा. ता. नि. १-५४) प्रबोध मुद्राभयदोर्द्वयान्वितो यज्ञोपवीताजिनमेखलोल्ल सन् । दृशा महाज्ञान भुजङ्गदष्ट मुजीवयानो जगदत्यरोचत ॥ ९ (श्रीम. भा. ता. नि. १०-५५) ४. श्रीमज्जयतीर्थ पूज्यचरणविरचितं श्रीवेदव्यासस्तोत्रम् येन प्रादुरभावि भूमिवलये व्यस्तारि गोसन्ततिः प्राबोधि श्रुतिपङ्कजं करुणया प्राकाशि तत्वं परम् । ध्वान्तं ध्वंसमनायि साधुनिकरश्चाकारि सन्मार्गगः तेन व्यासदिवाकरेण सततं मा त्याजि मे मानसम् ॥ १ (श्रीमन्न्यायसुधा) याञ्च्नामन्दरलोलिताद्यत उदैद्विद्यैँदिरा निर्जरै- र्जातो भारत पारिजातसुतरुः सद्ब्रह्म सूत्रामृतम् । आसीत्तन्त्रपुराणसन्मणिगणो जातः शुकेन्दुः सदा सोयं व्याससुधा निधिर्भवतु मे भूत्यै सतां भूतिदः ॥ २ (तत्त्व प्रकाशिका) दुरन्त दुरितध्वान्त विध्वंसन पटीयसे । बादरायणसंज्ञाय परस्मै महसे नमः ॥ ३ (न्यायविवरण टीका) गुणगणनिलयं पतिं रमाया जगदघदहनं च वासवीसूनुम् । मुनिकुलतिलकं च पूर्णबोधं गुरुमपि परमं गुरुं च मे वन्दे ॥ ४ (गीताभाष्य टीका) ५. श्री श्रीसत्यधर्मतीर्थविरचितं श्रीवेदव्यासस्तोत्रम् दशमेदिशमेम्बोधौ धीतर्यातरितुर्यतः । पाराशर्यपरम्पारमसिदाशसुतासुतः ॥ १॥ (श्रीमद्भागवत दशमस्कन्ध टिप्पणी) आचार्योपास्य हे वेदव्यास मत्सेवयानया । तदन्तस्थः भव प्रीतो वीतदोष नमोस्तु ते ॥ २॥ (श्रीमद्भागवत द्वादशस्कन्ध टिप्पणि) वासवीनन्दन हरे व्याससारसलोचन । दासस्य मे दिश ज्ञानं श्रीसत्यधिषणार्चित ॥ ३॥ (रामायण व्याख्यान) ऋतबोधहृदावास शतमन्यु मुखस्तुत । सुतसत्यवतीदेव्या वितराजित सन्मतीः ॥ ४॥ (रामायण व्याख्यान) ६. श्रीराघवेन्द्रतीर्थविरचितं श्रीवेदव्यासस्तोत्रम् श्रीशोब्द्युन्मथनाभिरामचरितं देवैर्गृणद्भिः स्तुतः सद्ज्ञानाय पराशराख्यमुनिना यः सत्यवत्यामभूत् । व्यासत्वेन विधाय वेदविवृतिं शास्त्राणि सर्वाण्यपि ज्ञान सत्सु निधाय तद्गतकलिं निघ्नन् सनोव्याद्दरिः ॥ (श्रीमन् महाभारत ता. नि. भावसङ्ग्रहः) ७. श्रीविजयध्वजतीर्थविरचितं श्रीवेदव्यासस्तोत्रम् यदीयकृतिरञ्जसा सुमनसां सुमानं सतां सती सकलसन्नता सकलवेदवाणीनिधिः । सचित्सुखपयोनिधिः सरसिजेक्षणः श्रीपतिः पराशरशरीरजः शरणमस्तु मे सन्ततम् ॥ १॥ (श्रीमद्भागवत प्रथम स्कन्ध आदि) वेदव्यासमहं वन्दे वेदव्यासैकवेदिनम् । वेदव्यास जनारातिं वेदव्यासमुनीनपि ॥ (श्रीमद्भागवत एकादश स्कन्ध आदि) ८. श्रीछलारी शेषाचार्यकृतं श्रीवेदव्यासस्तोत्रं वेदान्यो व्यभजद्विष्णुर्भारतब्रह्मसूत्रकृत् । कर्ता भागवतादेश्च वेदव्यासं नतोस्मि तम् ॥ (श्रीमद्भागवत प्रथमस्कन्ध टिप्पणि तात्पर्य बोधिनि) ९. श्रीअहोबल नरसिंहाचार्यकृतं श्रीवेदव्यासस्तोत्रं व्यासं योगि मनोवासं मध्वदास सुसेवितम् । श्रीशं सम्पत्प्रदं नौमि सदा दासेप्सितप्रदम् ॥ (श्रीमद्भागवत विजयध्वज टीका आद्यन्त श्लोक व्याख्यान) १०. शर्करा श्रीनिवासाचार्यविरचिता श्रीवेदव्यासस्तुतिः ज्ञानभाक् हृतमोहर्ता श्रुतिपङ्कजबोधकः । व्यासांशुमान् दर्शयतु सन्मार्गं गुणमण्डलः ॥ (वाक्यार्थ मञ्जरि) इति वेदव्यासलघुस्तोत्राणि समाप्ता ।