अक्षर आकार:

श्रीवेदव्यासाष्टोत्तरनामावलिः ४

shrIvedavyAsAShTottaranAmAvaliH 4

श्रीवेदव्यासाष्टोत्तरनामावलिः ४

ॐ वेदव्यासाय नमः । ॐ विष्णुरूपाय नमः । ॐ पाराशर्याय नमः । ॐ तपोनिधये नमः । ॐ सत्यसन्धाय नमः । ॐ प्रशान्तात्मने नमः । ॐ वाग्मिने नमः । ॐ सत्यवतीसुताय नमः । ॐ कृष्णद्वैपायनाय नमः । ॐ दान्ताय नमः । १० ॐ बादरायणसंज्ञिताय नमः । ॐ ब्रह्मसूत्रग्रथितवते नमः । ॐ भगवते नमः । ॐ ज्ञानभास्कराय नमः । ॐ सर्ववेदान्ततत्त्वज्ञाय नमः । ॐ सर्वज्ञाय नमः । ॐ वेदमूर्तिमते नमः । ॐ वेदशाखाव्यसनकृते नमः । ॐ कृतकृत्याय नमः । ॐ महामुनये नमः । २० ॐ महाबुद्धये नमः । ॐ महासिद्धये नमः । ॐ महाशक्तये नमः । ॐ महाद्युतये नमः । ॐ महाकर्मणे नमः । ॐ महाधर्मणे नमः । ॐ महाभारतकल्पकाय नमः । ॐ महापुराणकृते नमः । ॐ ज्ञानिने नमः । ॐ ज्ञानविज्ञानभाजनाय नमः । ३० ॐ चिरञ्जीविने नमः । ॐ चिदाकाराय नमः । ॐ चित्तदोषविनाशकाय नमः । ॐ वासिष्ठाय नमः । ॐ शक्तिपौत्राय नमः । ॐ शुकदेवगुरवे नमः । ॐ गुरवे नमः । ॐ आषाढपूर्णिमापूज्याय नमः । ॐ पूर्णचन्द्रनिभाननाय नमः । ॐ विश्वनाथस्तुतिकराय नमः । ४० ॐ विश्ववन्द्याय नमः । ॐ जगद्गुरवे नमः । ॐ जितेन्द्रियाय नमः । ॐ जितक्रोधाय नमः । ॐ वैराग्यनिरताय नमः । ॐ शुचये नमः । ॐ जैमिन्यादिसदाचार्याय नमः । ॐ सदाचारसदास्थिताय नमः । ॐ स्थितप्रज्ञाय नमः । ॐ स्थिरमतये नमः । ५० ॐ समाधिसंस्थिताशयाय नमः । ॐ प्रशान्तिदाय नमः । ॐ प्रसन्नात्मने नमः । ॐ शङ्करार्यप्रसादकृते नमः । ॐ नारायणात्मकाय नमः । ॐ स्तव्याय नमः । ॐ सर्वलोकहिते रताय नमः । ॐ अचतुर्वदनब्रह्मणे नमः । ॐ द्विभुजापरकेशवाय नमः । ॐ अफाललोचनशिवाय नमः । ६० ॐ परब्रह्मस्वरूपकाय नमः । ॐ ब्रह्मण्याय नमः । ॐ ब्राह्मणाय नमः । ॐ ब्रह्मिणे नमः । ॐ ब्रह्मविद्याविशारदाय नमः । ॐ ब्रह्मात्मैकविज्ञात्रे नमः । ॐ ब्रह्मभूताय नमः । ॐ सुखात्मकाय नमः । ॐ वेदाब्जभास्कराय नमः । ॐ विदुषे नमः । ७० ॐ वेदवेदान्तपारगाय नमः । ॐ अपान्तरतमोनाम्ने नमः । ॐ वेदाचार्याय नमः । ॐ विचारवते नमः । ॐ अज्ञानसुप्तिबुद्धात्मने नमः । ॐ प्रसुप्तानां प्रबोधकाय नमः । ॐ अप्रमत्ताय नमः । ॐ अप्रमेयात्मने नमः । ॐ मौनिने नमः । ॐ ब्रह्मपदे रताय नमः । ८० ॐ पूतात्मने नमः । ॐ सर्वभूतात्मने नमः । ॐ भूतिमते नमः । ॐ भूमिपावनाय नमः । ॐ भूतभव्यज्ज्ञात्रे नमः । ॐ भूमसंस्थितमानसाय नमः । ॐ उत्फुल्लपुण्डरीकाक्षाय नमः । ॐ पुण्डरीकाक्षविग्रहाय नमः । ॐ नवग्रहस्तुतिकराय नमः । ॐ परिग्रहविवर्जिताय नमः । ९० ॐ एकान्तवाससुप्रीताय नमः । ॐ शमादिनिलयाय नमः । ॐ मुनये नमः । ॐ एकदन्तस्वरूपेण लिपिकारिणे नमः । ॐ बृहस्पतये नमः । ॐ भस्मरेखाविलिप्ताङ्गाय नमः । ॐ रुद्राक्षावलिभूषिताय नमः । ॐ ज्ञानमुद्रालसत्पाणये नमः । ॐ स्मितवक्त्राय नमः । ॐ जटाधराय नमः । १०० ॐ गभीरात्मने नमः । ॐ सुधीरात्मने नमः । ॐ स्वात्मारामाय नमः । ॐ रमापतये नमः । ॐ महात्मने नमः । ॐ करुणासिन्धवे नमः । ॐ अनिर्देश्याय नमः । ॐ स्वराजिताय नमः । १०८ इति श्रीयोगानन्दसरस्वतीविरचिता श्रीवेदव्यासाष्टोत्तरनामावलिः समाप्ता ।