अक्षर आकार:

श्रीवेदव्यासाष्टकम्

Shri Veda Vyasa Ashtakam

श्रीवेदव्यासाष्टकम्

सुजने मतितो विलोपिते निखिले गौतम शापतोमरैः । कमलासनपूर्वकैस्स्ततो मतिदो मेस्तु स बादरायणः ॥ १॥ विमलोपि पराशरादभूद्भुवि भक्ताभिमतार्थ सिद्धये । व्यभजद् बहुधा सदागमान् मतिदो मेस्तु स बादरायणः ॥ २॥ सुतपोमतिशालि जैमिनि प्रमुखानेकविनेय मण्डितः । उरुभारतकृन्महायशा मतिदो मेस्तु स बादरायणः ॥ ३॥ निखिलागम निर्णयात्मकं विमलं ब्रह्मसुसूत्रमातनोत् । परिहृत्य महादुरागमान् मतिदो मेस्तु स बादरायणः ॥ ४॥ बदरी तरुमण्डिताश्रमे सुखतीर्थेष्ट विनेयदेशिकः । उरुतद्भजन प्रसन्नहृन्मतिदो मेस्तु स बादरायणः ॥ ३॥ अजिनाम्बर रूपया क्रिया परिवीतो मुनिवेषभूषितः । मुनिभावित पादपङ्कजो मतिदो मेस्तु स बादरायणः ॥ ६॥ कनकाभजटो रविच्छविर्मुखलावण्य जितेन्दुमण्डलः । सुखतीर्थदया निरीक्षणो मतिदो मेस्तु स बादरायणः ॥ ७॥ सुजनोद्धरण क्षणस्वकप्रतिमाभूत शिलाष्टकं स्वयम् । परिपूर्णधिये ददौ हि यो मतिदो मेस्तु स बादरायणः ॥ ८॥ वेदव्यासाष्टक स्तुत्या मुद्गलेन प्रणीतया । गुरुहृत्पद्मसद्मस्थो वेदव्यासः प्रसीदतु ॥ ९॥ इति श्रीमुद्गलाचार्यकृतं श्रीवेदव्यासाष्टकं सम्पूर्णम् ।