अक्षर आकार:

श्रीवेदान्तदेशिकमङ्गलानुशासनम्

shrIvedAntadeshikamangalAnushAsanam

श्रीवेदान्तदेशिकमङ्गलानुशासनम्

श्रीमद्वेङ्कटनाथार्यः कवितार्किककेसरी । वेदान्ताचार्यवर्यो मे सन्न्निधत्तां सदा हृदि ॥ १॥ श्रीमल्लक्ष्मणयोगीन्द्रसिद्धान्तविजयध्वजम् । विश्वामित्रकुलोद्भूतं वरदार्यमहं भजे ॥ २॥ सर्वतन्त्रस्वतन्त्राय सिंहाय कविवादिनाम् । वेदान्ताचार्यवर्याय वेङ्कटेशाय मङ्गलम् ॥ ३॥ नभस्यमासि श्रोणायामवतीर्णाय सूरये । विश्वामित्रान्वयायास्तु वङ्कटेशाय मङ्गलम् ॥ ४॥ पिता यस्यानन्तसूरिः पुण्डरीकाक्षयज्वनः । पौत्रो यस्तनयस्तोतारम्बायास्तस्य मङ्गलम् ॥ ५॥ वङ्कटेशावतारोऽयं तद्घण्टांशोऽथवा भवेत् । यतीन्द्रांशोऽथवेत्येवं वितर्क्यायास्तु मङ्गलम् ॥ ६॥ श्रीभाष्यकारः पन्थानमात्मना दर्शितं पुनः । उद्धर्तुमागतो नूनमित्युक्तायास्तु मङ्गलम् ॥ ७॥ यो वाल्ये वरदार्यस्य प्राचार्यस्य परां दयाम् । आवाप्य वृद्धिं गमितस्तस्मै योग्याय मङ्गलम् ॥ ८॥ रामानुजाचार्यदात्रेयान्मातुलात् सकलाःकलाः । आवाप्य विंशत्यब्दे यस्तस्मै प्राज्ञाय मङ्गलम् ॥ ९॥ श्रुतप्रकाशिका भूमौ येनादौ परिरक्षिता । प्रवर्तिता च पात्रेषु तस्मै श्रेष्ठाय मङ्गलम् ॥ १०॥ सांस्कृतिभिर्द्रामिडीभिः बह्वीभिः कृतिभिर्जनान् । यः समुज्जीवयामास तस्मै सेव्याय मङ्गलम् ॥ ११॥ यः ख्यातिताभपूजासु विमुखो वैष्णवे जने । क्रयणीयदशां प्राप्तस्तस्मै भव्याय मङ्गलम् ॥ १२॥ यस्मादेव मया सर्वं शास्त्रमग्राहि नान्यतः । तस्मै वेङ्कटनाथाय मम नाथाय मङ्गलम् ॥ १३॥ पित्रे ब्रह्मोपदेष्ट्रे मे गुरवे दैवताय च । प्राप्याय प्रापकायास्तु वेङ्कटेशाय मङ्गलम् ॥ १४॥ यः कृतं वरदार्येण वेदन्ताचार्यमङ्गलम् । अशास्तेऽनुदिनं सोऽपि भवेन्मङ्गलभाजनम् ॥ १५॥ भाद्रपदमासगतविष्णुविमलर्क्षे वेङ्कटमहीध्रपतितीर्थदिनभूते । प्रादुरभवज्जगति दैत्यरिपुघण्टा हन्त कवितार्किकमृगेन्द्रगुरुमूर्त्या ॥ १६॥ सशङ्खचक्रलाञ्छनः सदूर्ध्वपुण्ड्रमण्डितः सकण्ठलग्नसत्तुलस्यनर्धपद्ममालिकः । सितान्तरीयसूत्तरीययज्ञसूत्रशोभितः ममाविरस्तु मानसे गुरुः स वेङ्कटेश्वरः ॥ १७॥ अनन्तसूरिसूनवेऽभिवन्द्यमानवैभवात् दिगन्तवादिहंसजैत्रकालमेघदेशिकात् । उपात्तसर्वशासनाय हन्त वर्षविंशतौ पुनःपुनर्नमस्क्रियास्तु वेङ्कटेशसूरये ॥ १८॥ गुरौ वादिहंसाम्बुदाचार्यशिष्ये जना भक्तिहीना यतीन्द्राप्रियाः स्युः । यतीन्द्राप्रिया विष्णुकारुण्यदूराः कुतो मुक्तिवार्ता हि तादृग्विधानाम् ॥ १९॥ कवितार्किककलभव्रजकबलीकृतसिंहं कमलापतिकरुणारसपरिवर्धितबोधम् । यतिनायकपदपङ्कजयुगलीपरतन्त्रं भज मानस बुधवेङ्कटपतिदेशिकमनिशम् ॥ २०॥ वेदे सञ्जातखेदे मुनिजनवचने प्राप्तनित्यावमाने सङ्कीर्णे सर्ववर्णे सति तदनुगुणे निष्प्रमाणे पुराणे । मयावादे समोदे कलिकलुषवशाच्छून्यवादेऽविवादे धर्मत्राणाय योऽभूत् स जयति भगवान्विष्णुघण्टावतारः ॥ २१॥ कवितार्किकसिंहाय कल्याणगुणशालिने । श्रीमते वेङ्कटेशाय वेदान्तगुरवे नमः ॥ इति श्रीवेदान्तदेशिकमङ्गलानुशासनं सम्पूर्णम् ॥