अक्षर आकार:

श्रीमद् वेदान्तदेशिक मङ्गलाशासनम्

shrImad vedAntadeshika ma~NgalAshAsanam

श्रीमद् वेदान्तदेशिक मङ्गलाशासनम्

श्रीः श्रीमान् वेङ्कटनाथार्यः कवितार्किककेसरी । वेदान्ताचार्यवर्यो मे सन्निधत्तां सदा हृदि ॥ श्रीमल्लक्ष्मणयोगीन्द्र सिद्धान्तविजयध्वजम् । विश्वामित्रकुलोद्भूतं वरदार्यमहं भजे ॥ सर्वतन्त्रस्वतन्त्राय सिंहाय कविवादिनाम् । वेदान्ताचार्यवर्यीय वेङ्कटेशाय मङ्गलम् ॥ १॥ नभस्यमासि श्रोणायामवतीर्णाय सूरये । विश्वामित्रान्वयायास्तु वेङ्कटेशाय मङ्गलम् ॥ २॥ पिता यस्यानन्तसूरिः पुण्डरीकाक्षयज्वनः । पौत्रो यस्तनयस्तोतारम्बायास्तस्य मङ्गलम् ॥ ३॥ var यस्तनयस्तोताद्र्यम्बायाः वेङ्कटेशावतारोऽयं तद्धण्टांशोऽथवा भवेत् । यतीन्द्रांशोऽथवेत्येवं वितर्क्यायास्तु मङ्गलम् ॥ ४॥ श्रीभाष्यकारः पन्थानमात्मना दर्शितं पुनः । उद्धर्तुमागतो नूनमित्युक्तायास्तु मङ्गरम् ॥ ५॥ यो बाल्ये वरदार्यस्य प्राचार्यस्य परां दयाम् । अवाप्य वृद्धिं गमितः तस्मै योग्याय मङ्गलम् ॥ ६॥ रामानुजार्यादात्रेयान्मातुलात् सकलाः कलाः । अवाप विंशत्यब्दे यस्तस्मै प्राज्ञाय मङ्गलम् ॥ ७॥ श्रुतप्रकाशिका भूमौ येनादौ परिरक्षिता । प्रवर्तिता च पात्रेषु तस्मै श्रेष्ठाय मङ्गलम् ॥ ८॥ सांस्क्रतीभिद्राविडीभिः बह्वीभिः कृतिभिजनान् । यस्समुज्जीवयामास तस्मै सेव्याय मङ्गलम् ॥ ९॥ यः ख्यातिलाभपूजासु विमुखो वैष्णवे जने । क्रयणीयदशां प्राप्तः तस्मै भव्याय मङ्गलम् ॥ १०॥ यस्मादेव मया सर्व शास्त्रमग्राहि नान्यतः । तस्मै वेङ्कटनाथाय मम नाथाय मङ्गलम् ॥ ११॥ पित्रे ब्रह्मोपदेष्ट्रे मे गुरवे दैवताय च । प्राप्याय प्रापकायास्तु वेङ्कटेशाय मङ्गलम् ॥ १२॥ यः कृतं वरदार्येण वेदान्ताचार्य मङ्गलम् । आशास्तेऽनुदिनं सोऽपि भवेन्मङ्गल भाजनम् ॥ १३॥ इति श्री कुमार वरदाचार्येण कृतं श्रीमद् वेदान्तदेशिकमङ्गलाशासनम् ॥