अक्षर आकार:

श्रीवल्लभस्तोत्रम्

shrIvallabhastotram

श्रीवल्लभस्तोत्रम्

पुरुषोत्तममुखाब्जाधिकसौभाग्यपद्रजाः । गोकुलेन्दुमुखीवृन्दजीवनं यन्नतोऽस्म्यहम् ॥ १॥ निजप्रकाशप्रसरावधूत-तमःकृतार्थीकृतजीववृन्दम् । स्फुरन्मुखश्रीजितशारदेन्दुं श्रीगोकुलेन्दुं शरणं प्रपद्ये ॥ २॥ श्रीमद्वल्लभसत्कुल-निर्मलकमलप्रकाशमार्तण्डः । सज्जनकुमुदकुलेन्दुर्गोकुलनाथो हरिर्जयति ॥ ३॥ सम्पूर्णः पुरुषोत्तमभावाभिव्यक्तिसुखदमधुरश्रीः । अङ्गीकृतद्विजवपुर्गोकुलनाथो हरिर्जयति ॥ ४॥ चन्द्रमुखो नलिनाक्षस्तुलसीमणिमालिकां दधत्कण्ठे । स्मितमधुराधरबिम्बो गोकुलनाथो हरिर्जयति ॥ ५॥ निर्मलशारदहिमकरकरनिकरक्षीरहीरसत्कीर्तिः । श्रीविठ्ठलेशतनुजो गोकुलनाथो हरिर्जयति ॥ ६॥ आहृतवरवेदगणो मथितक्षीरनीरधिः परमः । उद्धृतवरगिरिराजो गोकुलनाथो हरिर्जयति ॥ ७॥ श्रवणेन स्मरणेन च नमनेन च सङ्कथावलोकाभ्याम् । स्वयमेव च स्वरसदो गोकुलनाथो हरिर्जयेति ॥ ८॥ सन्न्यासिवेशमोहितसाधुगणः सोऽसुरो हरिद्रोही । येन निराक्रियतासौ गोकुलनाथो हरिर्जयति ॥ ९॥ क्लेशमहोदधिमग्नः कल्याणो नाममात्रकल्याणः । स्वयमुदधारि स येन गोकुलनाथो हरिर्जयति ॥ १०॥ इति श्रीमठपतिकल्याणभट्टविरचितं श्रीवल्लभस्तोत्रं समाप्तम् ।