अक्षर आकार:

श्रीवल्लभनामस्तोत्रम्

shrIvallabhanAmastotram

श्रीवल्लभनामस्तोत्रम्

यत्प्रसादादनायासं सिध्यन्त्यर्था मनीषिणाम् । तन्निजाचार्यनामानि प्रवक्ष्यामि यथामति ॥ १॥ श्रीवल्लभः सदानन्दः सच्चिदानन्दविग्रहः । दैवोद्धारप्रयत्नात्मा प्राकट्यानन्ददायकः ॥ २॥ देवश्रीलक्ष्मणसुतः परमानन्दवर्धनः । श्रीमदिल्लमगारुप्राक् पुष्कलेन्दुरखण्डितः ॥ ३॥ चम्पारण्यवनस्थानाविर्भावानन्दकारकः । अग्निर्लीलाब्घिजनकः श्रीकृष्णास्यं कृपानिधिः ॥ ४॥ अद्भुतस्वीयशिशुताजनन्यानन्दकारकः । बाललीलातिसुखदो जनन्युत्सङ्गलालितः ॥ ५॥ परमोदारचरितो जनतारतिवर्धनः । स्वलीलाश्रवणात्यन्तशुद्धाशयवशंवदः ॥ ६॥ स्वयशोगानसंहृष्टहृदयाम्भोजविष्टरः । अतिसौन्दर्यनिकरप्राप्तकौमारशोभनः ॥ ७॥ पञ्चमाब्दोपनयनो गायत्रीव्रतधारकः । गुरुब्रह्मकुलावासज्ञापिताखिलसत्क्रियः ॥ ८॥ सकृन्निगदसम्प्राप्तसर्वविद्याविशारदः । महातेजः प्रकटनो महामाहात्म्यदर्शकः ॥ ९॥ सर्वरभ्यो भावगम्यः पितृकीर्तिविवर्धनः । ब्रह्मानन्दरसासक्ततातभक्तिपरायणः ॥ १०॥ भक्तिमार्गप्रचारार्थविद्यानगरपावनः । कृष्णदेवाख्यसद्राजसभाचरणधारकः ॥ ११॥ स्वरूपानन्तशोभाढ्यः सर्वलोककैकपावनः । स्वदर्शनसुधासिक्तराजसौभाग्यवर्धनः ॥ १२॥ अत्युत्तममणिव्रातहेमसिंहासनस्थितः । उग्रप्रतापः सर्वेशो नमन्नृपतिमण्डलः ॥ १३॥ अनेकभूतिशोभाढ्यश्चराचरनमस्कृतः । विद्वज्जनपरीवारमण्डितोऽखिलमण्डितः ॥ १४॥ अनल्पसङ्कल्पजल्पवादश्रवणसादरः । अनेकमतसन्देहनिराकर्ता निराकुलः ॥ १५॥ नवनीरदगम्भीरध्वनिरुल्लसिताखिलः । अखण्डपण्डितव्रातप्रोद्यत्पाखण्डखण्डनः ॥ १६॥ निवारिततमःपुञ्जजगदान्ध्यनिवर्तकः । मायावादनिराकर्ता सर्ववादनिरासकृत् ॥ १७॥ साकारब्रह्मवादैकस्थापको वेदपारगः । सर्वस्तुत्योऽभिसङ्गम्यो वेदमूर्तिः शिवङ्करः ॥ १८॥ व्रजयोत्सवसाद्यन्तदेवराजप्रसादकृत् । अत्यादरसमानीतकनकस्नानशोभितः ॥ १९॥ जयादिमङ्गलोद्घोषविद्वज्जनसमादृतः । अदेयदानदक्षश्च महोदारचरित्रवान् ॥ २०॥ पुण्डरीकवरेण्यश्रीविठ्ठलप्रेक्षणोत्सुकः । तद्दर्शनमहानन्दः प्राप्ताऽन्योन्यमनोरथः ॥ २१॥ चन्द्रभागोपकण्ठस्वस्थितितत्कीर्तिवर्धनः । पाण्डुरङ्गेशपरमोदारेक्षणकृतक्षणः ॥ २२॥ स्वानन्दतुन्दिलः पद्मदलायतविलोचनः । अचिन्त्यानन्तरूपः सन्मनुष्याकृतिरच्युतः ॥ २३॥ भक्तेच्छापूरकः सर्वाज्ञातलीलोऽतिमोहनः । स्वार्थोज्झिताखिलप्राणप्रियस्ताद्दशवेष्टितः ॥ २४॥ अनेकदेशसञ्चारपवित्रीकृतभूतलः । ध्वजवज्राङ्कुशादिश्रीकृतभूमिमहोत्सवः ॥ २५॥ त्रिलोकीभूषणं भूमिभाग्यं सहजसुन्दरः । भक्तिमार्गाङ्गशरणमन्त्रतत्त्वोपदेशकः ॥ २६॥ अन्याश्रयनिराकर्ता भक्तिक्षेत्रविशुद्धिकृत् । ब्रह्मसम्बन्धकृज्जीवसर्वदोषनिवारकः ॥ २७॥ पञ्चाक्षरमहामन्त्रविरहात्मफलप्रदः । पृथक्शरणमार्गोपदेष्टा श्रीकृष्णहार्दवित् ॥ २८॥ दिङ्मूढजनताभीतिनिवारणपरो गुरुः । भक्तरक्षार्थश्रीकृष्णभक्तिकृन्निखिलेष्टदः ॥ २९॥ स्वसिद्धान्तप्रबोधार्थानेकग्रन्थप्रवर्तकः । व्याससूत्राणुभाष्योक्तिवेदान्तार्थप्रकाशकः ॥ ३०॥ भक्तिमार्गाविरुद्धैकसिद्धान्तपरिशोधकः । जैमिनीयसूत्रभाष्यवक्ता वेदार्थदर्शकः ॥ ३१॥ वैयासजैमिनीयोक्तप्रमेयैकार्थ्यवित्तमः । पत्रावलम्बनकृतिर्वादिसन्देहवारकः ॥ ३२॥ काशीस्थलालङ्करणं विश्वेशप्रीतिकारकः । श्रीभागवततत्त्वार्थदीपप्राकट्यकारकः ॥ ३३॥ स्वान्तध्वान्तनिराकर्ता प्रकाशसुखदायकः । सच्चिदानन्दसन्दोहशास्त्रार्थविनिरूपकः ॥ ३४॥ मनोवाक्कायकर्तव्यसेवातत्त्वप्रकाशकः । मुख्यसिद्धान्तशुद्ध्यर्थसर्वनिर्णयदर्शकः ॥ ३५॥ प्रमाणादितत्त्वरूपपदार्थपरिशोधकः । भक्तिमार्गीयभगवत्सेवारीतिप्रकाशकः ॥ ३६॥ श्रीभागवतरूपाख्यप्रक्रियाविनिरूपकः । शास्त्रस्कन्धप्रकरणाध्यायार्थपरिशोधकः ॥ ३७॥ श्रीभागवतसारार्थनामसाहस्रदर्शकः । त्रिधालीलाप्रकाशश्रीकृष्णनामावलीप्रियः ॥ ३८॥ निरोधार्थानुसन्धानकृतेऽनुक्रमदर्शकः । कलिदोषाप्रवेशार्थकृष्णाश्रयनिरूपकः ॥ ३९॥ प्रतिबन्धनिरासार्थयमुनाष्टकदर्शकः । समस्तसिद्धान्तमुक्तावलीग्नन्थनिरूपकः ॥ ४०॥ सेवोपयिकसिद्धान्तरहस्यप्रतिपादकः । भक्तचिन्तानिरासार्थनवरत्नप्रकाशकः ॥ ४१॥ अन्तःकरणबोधोक्तिस्वीयशिक्षाप्रदर्शकः । कृष्णाङ्गीकारविषयोत्कटसन्देहवारकः ॥ ४२॥ सेवोत्कर्षप्रकाशार्थसेवाफलनिरूपकः । सेव्यनिर्धारसिद्ध्यर्थबालबोधप्रकाशकः ॥ ४३॥ सेव्यस्वरूपोत्कर्षार्थिमधुराष्टकदर्शकः । पुष्टिप्रवाहमर्यादामार्गत्रयविवेचकः ॥ ४४॥ सर्वेन्द्रियनिरोधार्थतल्लक्षनिरूपकः । बीजदार्ढ्यप्रकारेण भक्तिवर्धिन्युपायकृत् ॥ ४५॥ विवेकधैर्याश्रयकृद्बाहिर्मुख्यनिवारकः । सदसद्भावबोधार्थजलभेदनिरूपकः ॥ ४६॥ दुःसङ्गाभावसत्सङ्गकारकः करुणालयः । विरहानुभवार्थैकसन्न्यासाचारदर्शकः ॥ ४७॥ भजनावश्यकत्वार्थचतुःश्लोकीप्रकाशकः । यशोदोत्सङ्गललितप्रभुसेवैकतत्परः ॥ ४८॥ विस्फूर्जद्रासलीलादिरसामृतमहार्णवः । निर्दोषगुणरत्नाढ्यो भावान्तरमहोर्मिमान् ॥ ४९॥ कृष्णेन्दुविशदालोकपरमानन्दवर्धनः । स्वदासार्थकृताशेषसाधनः सर्वशक्तिधृक् ॥ ५०॥ प्रियव्रजस्थितिर्नित्यं व्रजनाथो व्रजार्तिभित् । व्रजीयजनजीवातुर्व्रजमाहात्म्यदर्शकः ॥ ५१॥ व्रजलीलाभावनात्मा श्रीगोपीजनवल्लभः । गोगोपगोपीषु प्रीतो गोकुलोत्सव उद्धवः ॥ ५२॥ गोवर्द्धनाद्रिप्रवरप्रेक्षणातिमहोत्सवः । गोवर्द्धनस्थित्युत्साहस्तल्लीलाप्रेमपूरितः ॥ ५३॥ श‍ृङ्गद्रोणीकन्दरादिकेलीस्थानप्रकाशकः । द्रुमपुष्पलतागुल्मदर्शनप्रीतमानसः ॥ ५४॥ गह्वरप्रायदेशाढ्यगिरिकेलीकलोत्सवः । गोवर्द्धनाचलसखोऽनेकधाप्रीतिकारकः ॥ ५५॥ हरिदाससर्वसेवासादरो हार्दवित्तमः । गोवर्द्धनाचलारूढः स्मृताचलशिरोमणिः ॥ ५६॥ सन्मुखस्वागतश्रीमद्गोवर्धनधरः प्रियः । अन्योन्ययोजितकरो हसद्वदनपङ्कजः ॥ ५७॥ सूक्तिसारसुधावृष्टिस्वानन्दितव्रजाधिपः । श्रीगोवर्द्धनानुमतोत्तमाधिष्ठानकारकः ॥ ५८॥ प्रसन्नाम्बुजसङ्काशकलशानन्दिताखिलः । कुङ्कुमारुणरागातिविलक्षणरसप्रदः ॥ ५९॥ चतुर्दिग्दृष्टिमृगराड्बद्धस्थपनतत्त्ववित् ॥ सुदर्शननिरस्तातिप्रतिपक्षमहासुरः ॥ ६०॥ समुल्लसत्प्रेमपूरनानाध्वजवरप्रियः । निगूढनिजकुञ्जस्थमन्दिरस्थापितप्रभुः ॥ ६१॥ वृन्दावनप्रियतमो वृन्दारण्यपुरन्दरः । वृन्दावनेन्दुसेवैकप्रकारसुखदायकः ॥ ६२॥ कृष्णकुम्भनदासादिलीलापरिकरावृतः । गानस्वानन्दितश्रीमन्नन्दराजकुमारकः ॥ ६३॥ सप्रेमनवधाभक्तिप्रचाराचरणक्षमः । देवाधिदेवस्वप्रेष्ठप्रियवस्तूपनायकः ॥ ६४॥ बाल्यकौमारपौगण्डकैशोरचरितप्रियः । वशीकृतनिजस्वामीप्रेमपूरपयोनिधिः ॥ ६५॥ मथुरास्थितिसानन्दो विश्रामस्वाश्रमप्रियः । यमुनादर्शनानन्दो यमुनानन्दवर्धनः ॥ ६६॥ यमुनातीरसंवासरुचिस्तद्रूपवित्तमः । यमुनानन्तभावात्मा तन्माहात्म्यप्रदर्शकः ॥ ६७॥ अनन्यसेवितपदः स्वानन्यजनवत्सलः । सेवकानन्तसुखदोऽनन्यभक्तिप्रदायकः ॥ ६८॥ कृष्णाज्ञापालनार्थं स्वगृहस्थाश्रमदर्शकः । महालक्ष्मीप्राणपतिः सर्वसौभाग्यवर्धनः ॥ ६९॥ श्रुतिस्मृतिसदाचारपालनैकपरायणः । मर्यादास्थापनपरः कर्ममार्गप्रवर्तकः ॥ ७०॥ कर्मस्वरूपवक्ताऽनुष्ठानकृज्जनशिक्षकः । आधिदैविकसर्वाङ्गयज्ञकृद्यज्ञपूरुषः ॥ ७१॥ मूलमाहात्म्यबोधार्थविभूत्युत्कर्षपोषकः । ब्रह्मण्यदेवो धर्मात्मा सर्वधर्मप्रवर्तकः ॥ ७२॥ स्वाविर्भावितसन्मार्गप्रचारार्थस्ववंशकृत् । श्रीगोपीनाथजनको विश्वमङ्गलकारकः ॥ ७३॥ दयानिधिर्विभुश्रीमद्विठ्ठलप्रियपुत्रवान् । जन्मोत्सवमहोत्साहः स्मार्तसंस्कारसादरः ॥ ७४॥ प्रदर्शितनिजाचारः सर्वधर्मैकपालकः । स्वकीयापरमूर्तिः श्रीविठ्ठलेशकृतिप्रियः ॥ ७५॥ भाष्यादिशेषसम्पूर्तिपरमोत्कर्षमोदकः । सुबोधिनीदुरूहोक्तिव्याख्यानप्रीतमानसः ॥ ७६॥ निगूढस्वाशयगतस्वतन्त्रार्थप्रियप्रियः । स्वरूपगुणनामोक्तिस्वीयसौभाग्यवर्द्धनः ॥ ७७॥ विद्वन्मण्डनवादोक्तिपरपक्षनिरासकृत् । सोपाधिब्रह्मवादार्थनिराकरणपण्डितः ॥ ७८॥ अप्राकृतानन्तगुणाधारब्रह्मस्वरूपवित् । सामान्यप्राकृतगुणानाश्रयत्वप्रकाशकः ॥ ७९॥ विरुद्धधर्माधारत्वस्थापनैकप्रयत्नकृत् । असम्भवनिरासार्थानन्तानिर्वाच्यशक्तिवित् ॥ ८०॥ प्राकृतेन्द्रियसामर्थ्याव्यवहार्यत्वदर्शकः । भगवद्दत्तसामर्थ्यसुखवेद्यत्ववित्तमः ॥ ८१॥ तर्कशास्त्रोक्तसिद्धान्तनिरासवरयुक्तिमान् । सोपाधिजीववादैकनिराकर्ता महाशयः ॥ ८२॥ आत्मव्यापकतातर्कपराहतविचक्षणः । श्रुतिसूत्रादिसंसिद्धजीवाणुत्वप्रदर्शकः ॥ ८३॥ चिद्रूपब्रह्मधर्मात्मजीवनित्यनिदर्शकः । भेदवादनिराकर्ता ब्रह्मांशत्वनिरूपकः ॥ ८४॥ नित्यानन्दब्रह्मधर्मधर्म्यभेदप्रकाशकः । सद्रूपब्रह्मधर्मात्मजगन्नित्यत्वदर्शकः ॥ ८५॥ मिथ्यात्वजन्यतावादा वैदिकत्वप्रकाशकः । अविद्याकार्यसंसारमिथ्यात्वपरिदर्शकः ॥ ८६॥ प्रपञ्चसंसारभिदाप्रदर्शनसुयुक्तिमान् । आविर्भावतिरोभावसिद्धान्तपरिशोधकः ॥ ८७॥ मूलेच्छाशक्तिसर्वार्थसामञ्जस्य प्रदर्शकः । कार्यप्रपञ्चभगवद्विभूत्यात्मत्वदर्शकः ॥ ८८॥ लीलाप्रपञ्चभगवत्स्वरूपात्मत्ववित्तमः । द्वारिकामथुरागोष्ठलीलानित्यत्वदर्शकः ॥ ८९॥ वृन्दावनगोवर्द्धनकालिन्दीकेलिकौतुकः । अन्यथाभानसञ्जातसन्देहविनिवारकः ॥ ९०॥ श्रुतिदृष्टान्तरचनाविस्पष्टार्थनिरूपकः । श्रुतिस्मृतिवरप्राप्तिप्रकारपरिदर्शकः ॥ ९१॥ श‍ृङ्गाररसरूपत्वस्थापनातिविशारदः । अनेकनित्यनामात्मक्रियावद्ब्रह्मदर्शकः ॥ ९२॥ अत्यनुग्रहवद्भक्तनित्यलीलाप्रवेशवित् । आसुरव्यामोहलीलावश्यकत्वनिदानवित् ॥ ९३॥ मायैकमूलभगवद्विमोहकचरित्रवित् । निर्दोषानन्दरूपैककृष्णतत्त्वप्रकाशकः ॥ ९४॥ स्फुरद्विहृतिनित्यत्वभावनानन्ददायकः । भक्त्युपास्तिविवेकार्थभक्तिहंसप्रकाशकः ॥ ९५॥ मन्त्राद्यगम्यभक्त्येकगम्यश्रीकृष्णरूपवित् । अनुग्रहविमर्शार्थभक्तिहेतुप्रकाशकः ॥ ९६॥ कृष्णानुग्रहलभ्यैकभक्तितत्त्वप्रकाशकः । मर्यादानुगृहीतात्मभक्त्यर्थाचारदर्शकः ॥ ९७॥ पुष्ट्यनुग्रहवद्भक्तधर्मान्तरनिषेधवित् । भक्तिमार्गीयभगवत्प्रतिष्ठारीतिबोधकः ॥ ९८॥ कृष्णजन्माष्टमीरामनवमीव्रतशोधकः । मुक्तावलीप्रकाशोक्तिसिद्धान्तपरिशोधकः ॥ ९९॥ नवरत्नप्रकाशोक्तिचिन्तासन्ताननाशकः । न्यासादेशीयविवृतिधर्मत्यागोक्तिचिन्तकः ॥ १००॥ जीवन्मुक्तितारतम्यसिद्धान्तपरिशोधकः । गीतातात्पर्यसद्वक्ता गायत्र्यर्थप्रकाशकः ॥ १०१॥ मुख्यश्रीस्वामिनीकेलीश‍ृङ्गारोल्लासदर्शकः । स्वामिनीप्रार्थनास्तोत्रनानाभावविभावकः ॥ १०२॥ स्वामिन्यष्टकगूढोक्तिमार्गतत्त्वप्रकाशकः । प्रेमामृतरसास्वादाऽनुपानपरिदर्शकः ॥ १०३॥ उक्तान्यपूर्वश‍ृङ्गारदानलीलाप्रकाशकः । कुमारिकाऽनन्यसिद्धव्रतचर्यानिरूपकः ॥ १०४॥ तदेकरससर्वस्वनिभृतात्मा रसार्णवः । यमुनास्तोत्रविवृतिर्यशःशक्तिप्रकाशकः ॥ १०५॥ सकृष्णयमुनाभाववर्द्धिन्यष्टपदीप्रियः । चौरचर्यागुप्तरसाऽनन्दभावनिरूपकः ॥ १०६॥ रूपामृतैकचषकत्रिभङ्गललिताप्रियः । दशावताराष्टपदीश‍ृङ्गारार्थत्वदर्शकः ॥ १०७॥ श‍ृङ्गाररससन्दर्भाऽसङ्गतत्त्वनिरासकः । प्रबोधगद्यरचनाप्रत्यहश्रवणोत्सुकः ॥ १०८॥ मङ्गलाखिललीलाब्धिकृष्णगानरसप्रदः । प्रेङ्खपर्यङ्कशयनगीतनृत्यप्रियङ्करः ॥ १०९॥ सदारप्रेष्ठरतिकृत्प्रार्थनागीतभाववित् । असकृद्गोविन्ददासप्रभृत्यार्यसमन्वितः ॥ ११०॥ गोपीपरिवृढस्तोत्रव्रजाशीधरतिप्रदः । व्रजराजार्यतनयप्रीतिकृत्स्तोत्रकीर्तनः ॥ १११॥ गोकुलोत्कर्षबोधार्थगोकुलाष्टकदर्शकः । श्रीगोकुलसुखावासस्वकीयानन्दवर्द्धनः ॥ ११२॥ श्रीमन्नन्दालयक्रीडत्कृष्णलीलाप्रकाशकः । पुत्रपौत्रादिसौभाग्यसेवर्द्धिपरिदर्शकः ॥ ११३॥ श्रीकृष्णसेवाचातुर्यसीमासर्वशिरोमणिः । संसारसागरोत्तारनौकासत्कर्णधारकः ॥ ११४॥ शरणस्थानन्तजीवाऽपराधदलनक्षमः । कृष्णसेवाशिक्षणार्थं भक्तिमार्गप्रदर्शकः ॥ ११५॥ मर्यादामार्गविधिना गृहस्थाश्रममास्थितः । दारागारसुताप्तादिसर्वस्वात्मनिवेदकः ॥ ११६॥ वैदिकाचारनिपुणो दीक्षिताख्याप्रसिद्धिमान् । षड्गुणैश्वर्यसम्पत्तिराजमानः सतां पतिः ॥ ११७॥ विठ्ठलेशप्रभावज्ञः कृतकृत्यतमो हरिः । निवृत्तिधर्माभिरतो निजशिक्षापरायणः ॥ ११८॥ भगवद्भक्त्यनुगुणसन्न्यासाचारदर्शकः । अलौकिकमहातेजःपुञ्जरूपप्रकाशकः ॥ ११९॥ नित्यलीलाविहरणो नित्यरूपप्रकाशवान् । अदभ्रसौहार्दनिधिः सर्वोद्धारविचारकः ॥ १२०॥ शुकवाक्सिन्धुलहरीसारोद्धारविशारदः । श्रीभागवतपीयूषसमुद्रमथनक्षमः ॥ १२१॥ श्रीभागवतप्रत्यर्थमणिप्रवरभूषितः । अशेषभक्तसम्प्रार्थ्यचरणाब्जरजोधनः । शरणस्थसमुद्धारः कृपालुस्तत्कथाप्रदः ॥ १२२॥ इति मथुरानिवासिगोस्वामि श्रीरमणलालजीमहाराजविरचितं श्रीवल्लभनामस्तोत्रं सम्पूर्णम् ।