अक्षर आकार:

श्रीवल्लभनामावली

shrIvallabhanAmAvalI

श्रीवल्लभनामावली

अविर्भाव-प्रकरणम् १। श्रीवल्लभाय नमः । २। सदानन्दाय नमः । ३। सच्चिदानन्दविग्रहाय नमः । ४। दैवोद्धारप्रयत्नात्मने नमः । ५। प्राकट्यानन्ददायकाय नमः । ६। देवश्रीलक्ष्मणसुताय नमः । ७। परमानन्दवर्द्धनाय नमः । ८। श्रीमदिल्लमगारुप्राक्पुष्कलेन्दवे नमः । ९। अखण्डिताय नमः । १०। चम्पारण्यवनस्थानाविर्भावानन्दकारकाय नमः । ११। अग्नये नमः । १२। लीलाब्धिजनकाय नमः । १३। श्रीकृष्णास्याय नमः । १४। कृपानिधये नमः । १५। अद्भुतस्वीयशिशुताजनन्यानन्दकारकाय नमः । १६। बाललीलातिसुखदाय नमः । १७। जनन्युत्सङ्गलालिताय नमः । १८। परमोदारचरिताय नमः । १९। जनतारतिवर्द्धनाय नमः । २०। स्वलीलाश्रवणात्यन्तशुद्धाश्यायवशंवदाय नमः । २१। स्वयशोगानसंहृष्टहृदयाम्भोजविष्टराय नमः । २२। अतिसौन्दर्यनिकरप्राप्तकौमारशोभनाय नमः । २३। पञ्चमाब्दोपनयनाय नमः । २४। गायत्रीव्रतधारकाय नमः । २५। गुरुब्रह्मकुलावासंज्ञापिताखिलसत्क्रियाय नमः । २६। सकृन्निगदसम्प्राप्तसर्वविद्याविशारदाय नमः । २७। महातेजःप्रकटनाय नमः । २८। महामाहात्म्यदर्शकाय नमः । २९। सर्वरम्याय नमः । ३०। भावगम्याय नमः । ३१। पितृकीर्तिविवर्द्धनाय नमः । ३२। ब्रह्मानन्दरसासक्ततातभक्तिपरायणाय नमः । विजय-प्रकरणम् । ३३। भक्तिमार्गप्रचारार्थविद्यानगरपावनाय नमः । ३४। कृष्णदेवाख्यसद्राजसमाचरणधारकाय नमः । ३५। स्वरूपानन्तशोभाढ्याय नमः । ३६। सर्वलोकैकपावनाय नमः । ३७। स्वदर्शनसुधासिक्तराजसौभाग्यवर्द्धनाय नमः । ३८। अत्युत्तममणिव्रातहेमसिंहासनस्थिताय नमः । ३९। उग्रप्रतापाय नमः । ४०। सर्वेशाय नमः । ४१। नमन्नृपतिमण्डलाय नमः । ४२। अनेकभूतिशोभाढ्याय नमः । ४३। चराचरनमस्कृताय नमः । ४४। विद्वज्जनपरीवारमण्डिताय नमः । ४५। अखिलमण्डिताय नमः । ४६- अनल्पसङ्कल्पजल्पवादश्रवणसादराय नमः । ४७। अनेकमतसन्देहनिराकर्त्रे नमः । ४८। निराकुलाय नमः । ४९। नवनीरदगम्भीरध्वनये नमः । ५०। उल्लसिताखिलाय नमः । ५१। अखण्डपण्डितव्रातप्रोद्यत्पाखण्डनाय नमः । ५२। निवारिततमःपुञ्जजगदान्ध्यनिवर्तकाय नमः । ५३। मायावादनिराकर्त्रे नमः । ५४। सर्ववादनिरासकृते नमः । ५५। साकारब्रह्मवादैकस्थापकाय नमः । ५६। वेदपारगाय नमः । ५७। सर्वस्तुत्याय नमः । ५८। अभिसङ्गम्याय नमः । ५९। वेदमूर्तये नमः । ६०। शिवङ्कराय नमः । ६१। विजयोत्सवसाद्यन्तदेवराजप्रसादकृते नमः । ६२। अत्यादरसमानीतकनकस्थानशोभिताय नमः । ६३। जयादिमङ्गलोद्घोषविद्वज्जनसमादृताय नमः । ६४। अदेयदानदक्षाय नमः । ६५। महोदारचरित्रवते नमः । । भक्तिप्रस्तावप्रकरणम् । ६६। पुण्डरीकवरेण्यश्रीविठ्ठलप्रेक्षणोत्सुकाय नमः । ६७। तद्दर्शनमहानन्दाय नमः । ६८। प्राप्तान्योन्यमनोरथाय नमः । ६९। चन्द्रभागोपकण्ठस्वस्थितितत्कीर्तिवर्द्धनाय नमः । ७०। पाण्डुरङ्गेशपरमोदारेक्षण कृतक्षणाय नमः । ७१। स्वानन्दतुन्दिलाय नमः । ७२। पद्मदलायतविलोचनाय नमः । ७३। अचिन्त्यानन्तरूपाय नमः । ७४। सन्मनुष्याकृतये नमः । ७५। अच्युताय नमः । ७६। भक्तेच्छापूरकाय नमः । ७७। सर्वाज्ञातलीलाय नमः । ७८। अतिमोहनाय नमः । ७९। स्वार्थोज्झिताखिलप्राणप्रियाय नमः । ८०। तादृशवेष्टिताय नमः । ८१। अनेकदेशसञ्चारपवित्रीकतभूतलाय नमः । ८२। ध्वजवज्राङ्कुशादिश्रीकृतभूमिमहोत्सवाय नमः । ८३। त्रिलोकीभूषणाय नमः । ८४। भूमिभाग्याय नमः । ८५। सहजसुन्दराय नमः । ८६। भक्तिमार्गाङ्गशरणमन्त्रतत्त्वोपदेशकाय नमः । ८७। अन्याश्रयनिराकर्त्रे नमः । ८८। भक्तिक्षेत्रविशुद्धिकृते नमः । ८९। ब्रह्मसम्बन्धकृज्जीवसर्वदोषनिवारकाय नमः । ९०। पञ्चाक्षरमहामन्त्रविरहात्मफलप्रदाय नमः । ९१। पृथक्शरणमार्गोपदेष्ट्रे नमः । ९२। श्रीकृष्णहार्दविदे नमः । ९३। दिङ्मूढजनताभीतिनिवारणपराय नमः । ९४। गुरुवे नमः । ९५। निजशिक्षार्थश्रीकृष्णभक्तिकृते नमः । ९६। निखिलेष्टदाय नमः । ९७। स्वसिद्धान्तप्रबोधार्थानेकग्रन्थप्रवर्तकाय नमः । ९८। व्याससूत्राणुभाष्योक्तिवेदान्तार्थप्रकाशकाय नमः । ९९। भक्तिमार्गाविरुद्धैकसिद्धान्तपरिशोधकाय नमः । १००। जैमिनीयसूत्रभाष्यवक्त्रे नमः । १०१। वेदार्थदर्शकाय नमः । १०२। वैयासजैमिनीयोक्तप्रमेयैकार्थ्यवित्तमाय नमः । वादग्रन्धः । १०३। पत्रावलम्बनकृतये नमः । १०४। वादिसन्देहवारकाय नमः । १०५। काशीस्थलालङ्करणाय नमः । श्रीभागवतविषयकसाहित्यम् । १०६। विश्वेशप्रीतिकारकाय नमः । १०७। श्रीभागवततत्त्वार्थदीपप्राकट्यकारकाय नमः । १०८। स्वान्तध्वान्तनिराकर्त्रे नमः । १०९। प्रकाशसुखदायकाय नमः । ११०। सच्चिदानन्दसन्दोह-शास्त्रार्थविनिरूपकाय नमः । १११। मनोवाक्कायकर्तव्यसेवातत्त्वप्रकाशकाय नमःन् । ११२। मुख्यसिद्धान्तशुद्‍ध्यर्थसर्वनिर्णयदर्शकाय नमः । ११३। प्रमाणादितत्त्वरूपपदार्थपरिशोधकाय नमः । ११४। भक्तिमार्गीयभगवत्सेवारीतिप्रकाशकाय नमः । ११५। श्रीभागवतरूपाख्यप्रक्रियाविनिरूपाकय नमः । ११६। शास्त्रस्कन्धप्रकरणाध्यायार्थपरिशोधकाय नमः । ११७। श्रीभागवतसारार्थनामसाहस्रदर्शकाय नमः । ११८। त्रिधालीलाप्रकाशश्रीकृष्णनामावलीप्रियाय नमः । ११९। निरोधार्थानुसन्धानकृतेऽनुक्रमदर्शकाय नमः । षोडशग्रन्थाः । १२०। कलिदोषाप्रवेशार्थकृष्णाश्रयनिरूपकाय नमः । १२१। प्रतिबन्धनिरासार्थयमुनाष्टकदर्शकाय नमः । १२२। समस्तसिद्धान्तमुक्तावलीग्रन्धनिरूपकाय नमः । १२३। सेवोपयिकसिद्धान्तरहस्यप्रतिपादकाय नमः । १२४। भक्तचिन्तानिरासार्थनवरत्नप्रकाशकाय नमः । १२५। अन्तःकरणबोधोक्तिस्वीयशिक्षाप्रदर्शकाय नमः । १२६। कृष्णाङ्गीकारविषयोत्कटसन्देहवारकाय नमः । १२७। सेवोत्कर्षप्रकाशार्थसेवाफलनिरूपकाय नमः । १२८। सेव्यनिर्द्धारसिद्‍ध्यर्थबालबोधप्रकाशकाय नमः । १२९। सेव्यस्वरूपोत्कर्षार्थमधुराष्टकदर्शकाय नमः । १३०। पुष्टिप्रवाहमर्यादामार्गत्रयविवेचकाय नमः । १३१। सर्वेन्द्रियनिरोधार्थतल्लक्षणनिरूपकाय नमः । १३२। बीजदार्ढ्यप्रकारेण भक्तिवर्द्धिन्युपायकृते नमः । १३३। विवेकधैर्याश्रयकृते नमः । १३४। बाहिर्मुख्यनिवारकाय नमः । १३५। सदसद्भवबोधार्थजलभेदनिरूपकाय नमः । १३६। दुःसङ्गाभावसत्सङ्गकारकाय नमः । १३७। करुणालयाय नमः । १३८। विरहानुभवार्थैकसन्न्यासाचारदर्शकाय नमः । १३९। भजनावश्यकत्वार्थचतुःश्लोकीप्रकाशकाय नमः । १४०। यशोदोत्सङ्गललितप्रभुसेवैकतत्पराय नमः । १४१। विस्कद्भर्जद्रासलीलादिरसामृतमहर्ष्णवाय नमः । १४२। निर्दोषगुणरत्नाढ्याय नमः । १४३। भावनान्तमहोर्मिमते नमः । १४४। कृष्णेन्दुविशदालोकपरमानन्दवर्द्धनाय नमः । १४५। स्वदासार्थकृताशेषसाधनाय नमः । १४६। सर्वशक्तिधृते नमः । फलप्रदर्शकप्रकरणम् । १४७। नित्यं प्रियव्रजस्थितये नमः । १४८ व्रजनाथाय नमः । १४९। व्रजार्तिभिदे नमः । १५०। व्रजीयजनजीवातवे नमः । १५१। व्रजमाहत्म्यदर्शकाय नमः । १५२। व्रजलीलाभावनात्मने नमः । १५३। श्रीगोपीजनवल्लभाय नमः । १५४। गो-गोप-गोपीषु प्रीताय नमः । १५५। गोकुलोत्सवाय नमः । १५६। उद्धवाय नमः । १५७। गोवर्द्धनाद्रिप्रवरप्रेक्षणातिमहोत्सवाय नमः । १५८। गोवर्द्धनस्थित्युत्साहाय नमः । १५९। तल्लीलाप्रेमपूरिताय नमः । १६०। श‍ृङ्गद्रोणीकन्दरादिकेलीस्थानप्रकाशकाय नमः । १६१। द्रुमपुष्पलतागुल्मदर्शनप्रीतमानसाय नमः । १६२। गह्वरप्रायदेशाढ्यगिरिकेलिकलोत्सवाय नमः । १६३। गोवर्द्धनाचलसखाय नमः । १६४। अनेकधा प्रीतिकारकाय नमः । १६५। हरिदाससर्वसेवासादराय नमः । १६६। हार्दवित्तमाय नमः । १६७। गोवर्द्धनाचलारूढाय नमः । १६८। स्मृताचलशिरोमणये नमः । १६९। सन्मुखस्वागतश्रीमद्गोवर्द्धनधराय नमः । १७०। प्रियाय नमः । १७१। अन्योन्ययोजितकराय नमः । १७२। हसद्वदनपङ्कजाय नमः । १७३। सूक्तिसारसुधावृष्टिस्वानन्दितव्रजाधिपाय नमः । १७४। श्रीगोवर्द्धनानुमतोत्तमाधिष्ठानकारकाय नमः । १७५। प्रसन्नाम्बुजसङ्काशकलशानन्दिताखिलाय नमः । १७६। कुङ्कुम्मारुणरागातिविलक्षणरसप्रदाय नमः । १७७। चतुर्दिग्दृष्टिमृगराड् बद्धस्थापनतत्त्वविदे नमः । १७८। सुदर्शननिरस्तार्तिप्रतिपक्षमहासुराय नमः । १७९। समुल्लसत्प्रेमपूरनानाध्वजवरप्रियाय नमः । १८०। निगूढनिजकुञ्जस्थमन्दिरस्थापितप्रभवे नमः । १८१। वृन्दावनप्रियतमाय नमः । १८२। वृन्दारण्यपुरन्दराय नमः । १८३। वृन्दावनेन्दुसेवैकप्रकारसुखदायकाय नमः । १८४। कृष्णकुम्भनदासादिलीलापरिकरावृताय नमः । १८५। गानस्वानन्दितश्रीमन्नन्दराजकुमारकाय नमः । १८६। सप्रेमनवधाभक्तिप्रचाराचरणक्षमाय नमः । १८७। देवाधिदेवस्वप्रेष्ठप्रियवस्तूपनायकाय नमः । १८८। बाल्यकौमारपौगण्डकैशोरचरितप्रियाय नमः । १८९। वशीकृतनिजस्वामिने नमः । १९०। प्रेमपूरपयोनिधये नमः । १९१। मथुरास्थितिसानन्दाय नमः । १९२। विश्रान्तस्वाश्रमप्रियाय नमः । १९३। यमुनादर्शनानन्दाय नमः । १९४। यमुनानन्दवर्द्धनाय नमः । १९५। यमुनातीरसंवासरुचये नमः । १९६। तद्रूपवित्तमाय नमः । १९७। यमुनानन्तभावात्मने नमः । १९८। तन्माहात्म्यप्रदर्शकाय नमः । १९९। अनन्यसेवितपदाय नमः । २००। स्वानन्यजनवत्सलाय नमः । २०१। सेवकानन्तसुखदाय नमः । २०२। अनन्यभक्तिप्रदायकाय नमः । जीवनप्रपत्तिः । २०३। कृष्णाज्ञापालनार्थस्वगृहस्थाश्रमदर्शकाय नमः । २०४। महालक्ष्मीप्राणपतये नमः । २०५। सर्वसौभाग्यवर्द्धनाय नमः । २०६। श्रुतिस्मृतिसदाचारपालनैकपरायणाय नमः । २०७। मर्यादास्थापनपराय नमः । २०८। कर्ममार्गप्रवर्तकाय नमः । २०९ कर्मस्वरूपवक्त्रे नमः । २१०। अनुष्ठानकृते नमः । २११। जनशिक्षकाय नमः । २१२। आधिदैविकसर्वाङ्गयज्ञकृते नमः । २१३। यज्ञपूरुषाय नमः । २१४। मूलमाहात्म्यबोधार्थविभूत्युत्कर्षपोषकाय नमः । २१५। ब्रह्मण्यदेवाय नमः । २१६। धर्मात्मने नमः । २१७। सर्वधर्मप्रवर्तकाय नमः । २१८। स्वाविर्भावितसन्मार्गप्रचारार्थस्ववंशकृते नमः । २१९। श्रीगोपीनाथजनकाय नमः । २२०। विश्वमङ्गलकारकाय नमः । २२१। दयानिधिविभुश्रीमद्विठ्ठलप्रियपुत्रवते नमः । २२२। जन्मोत्सवमहोत्साहाय नमः । २२३। स्मार्तसंस्कारसादराय नमः । २२४। प्रदर्शितनिजाचाराय नमः । २२५। सर्वधर्मैकपालकाय नमः । श्रीगोसा‍ईजी-ग्रन्थप्रवृत्तिः । २२६। स्वकीयापरमूर्तिश्रीविठ्ठलेशकृतिप्रियाय नमः । २२७। भाष्यादिशेषसम्पूर्तिपरमोत्कर्षमोदकाय नमः । २२८। सुबोधिनीदुरूहोक्तिव्याख्यानप्रीतमानसाय नमः । २२९। निगूढस्वाशयगतस्वतन्त्रार्थप्रियप्रियाय नमः । २३०। स्वरूपगुणनामोक्तिस्वीयसौभाग्यवर्द्धनाय नमः । २३१। विद्वन्मण्डनवादोक्तिपरपक्षनिरासकृते नमः । ब्रह्मस्वरूपनिर्णयः । २३२। सोपाधिब्रह्मवादार्थनिराकरणपण्डिताय नमः । २३३। अप्राकृतानन्तगुणाधारब्रह्यस्वरूपविदे नमः । २३४। सामान्यप्राकृतगुणानाश्रयत्वप्रकाशकाय नमः । २३५। विरुद्धधर्माधारत्वस्थापनैकप्रयत्नकृते नमः । २३६। असम्भवनिरासार्थानन्तानिर्वाच्यशक्तिविदे नमः । २३७। प्राकृतेन्द्रियसामर्थ्यसुखवेद्यत्ववित्तमाय नमः । २३८। भगवद्दत्तसामर्थ्यसुखवेद्यत्ववित्तमाय नमः । २३९। तर्कशास्त्रोक्तसिद्धान्तनिरासवरयुक्तिमते नमः । जीवनस्वरूपनिर्णयः । २४०। सोपाधिजीववादैकनिराकर्त्रे नमः । २४१। महाशयाय नमः । २४२। आत्मव्यापकतातर्कपराहतविचक्षणाय नमः । २४३। श्रुतिसूत्रादिसंसिद्धजीवाणुत्वप्रदर्शकाय नमः । २४४। चिद्रूपब्रह्मधर्मात्मजीवनित्यत्वदर्शकाय नमः । २४५। भेदवादनिराकर्त्रे नमः । २४६। ब्रह्मांशत्वनिरूपकाय नमः । २४७। नित्यानन्दब्रह्मधर्मधर्म्यभेदप्रकाशकाय नमः । जगत्स्वरूपनिर्णयः । २४८। सद्रूपब्रह्मधर्मात्मजगन्नित्यत्वदर्शकाय नमः । २४९। मिथ्यात्वजन्यतावादाऽवैदिकत्वप्रकाशकाय नमः । २५०। अविद्याकार्यसंसारमिथ्यात्वपरिदर्शकाय नमः । २५१। प्रपञ्चसंसारभिदाप्रदर्शनसुयुक्तिमते नमः । २५२। आविर्भावतिरोभावसिद्धान्तपरिशोधकाय नमः । २५३। मूलेच्छाशक्तिसर्वार्थसामञ्जस्य प्रदर्शकाय नमः । २५४। कार्यप्रपञ्चभगवद्विभूत्यात्मत्वदर्शकाय नमः । लीलासृष्टिनिरूपणम् । २५५। लीलाप्रपञ्चभगवत्स्वरूपात्मवित्तमाय नमः । २५६। द्वारिकामथुरागोष्ठलीलानित्यत्वदर्शकाय नमः । २५७। वृन्दावनगोवर्द्धनकालिन्दीकेलिकौतुकाय नमः । २५८। अन्यथाभानसञ्जातसन्देहविनिवारकाय नमः । २५९। श्रुतिदृष्टान्तरचनाविस्पष्टार्थनिरूपकाय नमः । २६०। श्रुतिस्मृतिवरप्राप्तिप्रकारपरिदर्शकाय नमः । २६१। श‍ृङ्गाररसरूपत्वस्थापनातिविशारदाय नमः । २६२। अनेकनित्यनामात्मक्रियावद्ब्रह्मदर्शकाय नमः । २६३। अत्यनुग्रहवद्भक्तनित्यलीलाप्रवेशविदे नमः । २६४। आसुरव्यामोहलीलावश्यकत्वनिदानविदे नमः । २६५। मायैकमूलभगवद्विमोहकचरित्रविदे नमः । २६६ निर्दोषानन्दरूपैककृष्णतत्त्वप्रकाशकाय नमः । २६७। स्फुरद्विहृतिनित्यत्वभावनानन्ददायकाय नमः । भक्तिहंसोक्त-सिद्धान्त-निरूपणम् । २६८। भक्त्युपास्तिविवेकार्थभक्तिहंसप्रकाशकाय नमः । २६९। मन्त्राद्यगम्यभक्त्येकगम्यश्रीकृष्णरूपविदे नमः । भक्तिहेतुग्रन्थ-निरूपणम् । २७०। अनुग्रहविमर्शार्थभक्तिहेतुप्रकाशकाय नमः । २७१। कृष्णानुग्रहलभ्यैकभक्तितत्त्वप्रकाशकाय नमः । २७२। मर्यादानुगृहीतात्मभक्त्यर्थाचारदर्शकाय नमः । २७३। पुष्ट्यनुग्रहवद्भक्तधर्मान्तरनिषेधविदे नमः । पुरुषोत्तमप्रतिष्ठाप्रकारादिग्रन्थनिरूपणम्- । २७४। भक्तिमार्गीयभगवत्प्रतिष्ठारीतिबोधकाय नमः । २७५। कृष्णजन्माष्टमीरामनवमीव्रतशोधकाय नमः । २७६। मुक्तावलीप्रकाशोक्तिसिद्धान्तपरिशोधकाय नमः । २७७। नवरत्नप्रकाशोक्तिचिन्तासन्ताननाशकायन मः । २७८। न्यासादेशीयविवृतिधर्मत्यागोक्तिचिन्तकाय नमः । २७९। जीवन्मुक्तितारतम्यसिद्धान्तपरिशोधकाय नमः । २८०। गीतातात्पर्यसद्वक्त्रे नमः । २८१। गायत्र्यर्थप्रकाशकाय नमः । २८२। मुख्यश्रीस्वामिनीकेलीश‍ृङ्गारोल्लासदर्शकाय नमः । २८३। स्वामिनीप्रार्थनास्तोत्रनानाभावविभावकाय नमः । २८४। स्वामिन्यष्टकगूढोक्तिमार्गतत्त्वप्रकाशकाय नमः । २८५। प्रेमामृतरसास्वादानुपानपरिदर्शकाय नमः । २८६। उक्तान्यपूर्वश‍ृङ्गारदानलीलाप्रकाशकाय नमः । २८७। कुमारिकानन्यसिद्धव्रतचर्यानिरूपकाय नमःन् । २८८। तदेकरससर्वस्वनिभृतात्मने नमः । २८९। रसार्णवाय नमः । २९०। यमुनास्तोत्रविवृतितुर्यशक्तिप्रकाशकाय नमः । २९१। सकृष्णयमुनाभाववर्द्धिन्यष्टपदीप्रियाय नमः । २९२। चौरचर्यागुप्तरसानन्दभावनिरूपकाय नमः । २९३। रूपामृतैकचषकत्रिभङ्गललितप्रियाय नमः । २९४। दशावताराष्टपदीश‍ृङ्गारार्थत्वदर्शकाय नमः । २९५। श‍ृङ्गाररससन्दर्भासङ्गतत्त्वनिरासकाय नमः । २९६। प्रबोधगद्यरचनाप्रत्यहश्रवणोत्सुकाय नमः । २९७। मङ्गलाखिललीलाब्धिकृष्णगानरसप्रदाय नमः । २९८। प्रेङ्खपर्यङ्कशयनगीतनृत्यप्रियङ्कराय नमः । २९९। सदारप्रेष्ठरतिकृत्प्रार्थनागीतभावविदे नमः । ३००। असकृद्गोविन्ददासप्रभृत्यार्यसमन्विताय नमः । ३०१। गोपीपरिवृढस्तोत्रव्रजाधीशरतिप्रदाय नमः । ३०२। व्रजराजार्यतनयप्रीतिकृत्स्तोत्रकीर्तनाय नमः । ३०३। गोकुलोत्कर्षबोधार्थगोकुलाष्टकदर्शकाय नमः । ३०४। श्रीगोकुलसुखावासस्वकीयानन्दवर्द्धनाय नमः । ३०५। श्रीमन्नन्द्रालयक्रीडत्कृष्णलीलाप्रकाशकाय नमः । ३०६। पुत्रपौत्रादिसौभाग्यसेवर्द्धिपरिदर्शकाय नमः । ३०७। श्रीकृष्णसेवाचातुर्यसीम्ने नमः । ३०८। सर्वशिरोमणये नमः । ३०९। संसारसागरोत्तारनौकासत्कर्णधारकाय नमः । ३१०। शरणस्थानन्तजीवापराधदलनक्षमाय नमः । ३११। कृष्णसेवाशिक्षणार्थभक्तिमार्गप्रदर्शकाय नमः । ३१२। मर्यादामार्गविधिना गृहस्थाश्रममास्थिताय नमः । ३१३। दारागारसुताप्तादिसर्वस्वात्मनिवेदकाय नमः । ३१४। वैदिकाचारनिपुणाय नमः । ३१५। दीक्षिताख्याप्रसिद्धिमते नमः । ३१६। षड्गुणैश्वर्यसम्पत्तिराजमानाय नमः । ३१७। सतां पतये नमः । स्वतन्त्रनामानि । ३१८। विठ्ठलेशप्रभावज्ञाय नमः । ३१९। कृतकृत्यतमाय नमः । ३२०। हरये नमः । ३२१। निवृत्तिधर्माभिरताय नमः । ३२२। निजशिक्षापरायणाय नमः । ३२३। भगवद्भक्त्यनुगुणसन्न्यासाचारदर्शकाय नमः । ३२४। अलौकिकमहातेजःपुञ्जरूपप्रकाशकाय नमः । ३२५। नित्यलीलाविहरणाय नमः । ३२६। नित्यरूपप्रकाशवते नमः । ३२७। अदभ्रसौहार्दनिधये नमः । ३२८। सर्वोद्धारविचारकाय नमः । ३२९। शुकवाक्सिन्धुलहरीसारोद्धारविशारदाय नमः । ३३०। श्रीभागवतपीयूषसमुद्रमथनक्षमाय नमः । ३३१। श्रीभागवतप्रत्यर्थमणिप्रवरभूषिताय नमः । ३३२। अशेषभक्तसम्प्रार्थ्यचरणाब्जरजोधनाय नमः । ३३३। शरणस्थसमुद्धाराय नमः । ३३४। कृपालवे नमः । ३३५। तत्कथाप्रदाय नमः । इति मथुरावासिगोस्वामिश्रीरमणलालजीमहाराजविरचिता श्रीवल्लभनामावली समाप्ता ।