अक्षर आकार:

श्रीवल्लभगीतम्

shrIvallabhagItam

श्रीवल्लभगीतम्

(अथ श्रीवल्लभगीतग्रन्थांशः) श्रीमद्गोकुलमण्डनं वरतनुं कल्याणवारान्निधिं विध्नौघोन्मदनागकुम्भदलनातिप्रौढसिंहाक्रमम् । भक्तापत्तितमःसमूहहरणे श्रीसूर्यकोटिप्रभं वन्देऽहं कमलाधवं द्विजवरं श्रीवल्लभं सत्प्रियम् ॥ १॥ यो भक्तप्रियमादरेण कुरुते विन्दन्ति यं नामरा येनैवापहृतं जनस्य कलुषं तस्मै नमो नित्यशः । यस्मात्सौख्यपदं गता हि सुजना यस्यास्त्यनन्ता गति- स्तस्मिन्मे मतिरस्तु गोकुलपतौ श्रीवल्लभे सर्वदा ॥ २॥ नाहं काव्यविचक्षणः सुविमला बुद्धिर्न मे स्वोद्भवा नालङ्कारगतिर्न मे गणिगतिर्नैवान्यदेवाश्रयः । श्रीमद्गोकुलनाथ विठ्ठलसुत श्रीविप्ररूपाकृते श्रीमद्वल्लभनाथ ते पदसरोजस्यास्ति वै मे बलम् ॥ ३॥ क्वाहं मन्दमतिस्तथाल्पविषयासक्तो मनुष्योऽप्यथ क्वेदं क्षीरसमुद्रकस्य मथनं सद्रत्नकोत्पादकम् । पङ्गुर्मेरुगिरेस्तु हीच्छति यथाप्युल्लङ्घनं मन्दधीः श्रीमद्वल्लभवर्णनं खलु तथेतीच्छामि मोहाश्रितः ॥ ४॥ तथापि वै गोकुलनाथपादपङ्केरुहस्यातिबलं प्रगृह्य च । तस्याज्ञया वल्लभगीतमुद्रसं करोति सङ्क्षेपत एव माहबः ॥ ५॥ अथ प्रथमः प्रबन्धः कल्याणरागेण गीयते । श्रीमल्लोलविलोचनलोकनलज्जितकोटिमनोजम् । आनन्दितममराजभवादिविनम्य सुपादसरोजम् ॥ १॥ नमामि श्रीवल्लभमेकरसं रमते सततं वै सरसम् ॥ ध्रु०॥ श्रीगोकुलमण्डितललितानहासविमोहितविश्वमजम् । आनन्दाम्बुजमुखवचनामृतजीवितकलिग्रसिताखिलमनुजम् ॥ २॥ नमामि श्रीवल्लभमेकरसं रमते सततं वै सरसम् । ध्रु०॥ आजानुभुजयुगजनाभयदं शरणागतकालभयापहरम् । स न कलिमलतूलकदम्बसमग्रविदाहकरं नृवरम् ॥ ३॥ नमामि श्रीवल्लभमेकरसं रमते सततं वै सरसम् ॥ ध्रु०॥ श्रीवल्लभकुलकुमुदावलिसुखराशिकरामलचन्द्रमसम् । कोटिमदनबलदर्पहरं मधुराधरहासविलासरसम् ॥ ४॥ नमामि श्रीवल्लभमेकरसं रमते सततं वै सरसम् ॥ ध्रु०॥ हीरकमणिगणजटितकुण्डलरुचिशोभितलोलकपोलवरम् । कलिकालार्तिजनितभवतापजनामृतपूरकपद्मकरम् ॥ ५॥ नमामि श्रीवल्लभमेकरसं रमते सततं वै सरसम् ॥ ध्रु०॥ वेदागम्यमनङ्गालयहृदयाम्बुजमद्भुतकेलिकरम् । त्रिभुवननिरुपमविमलोदरहृतमानिनीमानसमतिमधुरम् ॥ ६॥ नमामि श्रीवल्लभमेकरसं रमते सततं वै सरसम् ॥ ध्रु०॥ शीतलसुभगचरणकमलाश्रितवल्लभनिजसुखराशिमलम् । निर्मलचामीकरवरकलेवररूपविमर्दितकामखलम् ॥ ७॥ नमामि श्रीवल्लभमेकरसं रमते सततं वै सरसम् ॥ ध्रु०॥ मनुजाकृतिधारिणमतिललितं द्विजकुलमण्डनमङ्गनिवासम् ॥ मन्मथमन्मथललितगतिं चरणाम्बुजरक्षितमाहवदासम् ॥ ८॥ नमामि श्रीवल्लभमेकरसं रमते सततं वै सरसम् ॥ ध्रु०॥ श्रीमद्वल्लभवारिधिं ह्यगणितानन्दोदकालङ्कृतम् । वगृमि खलु मुक्तिशुक्तिममलोद्भवाहुसद्भोगिनम् ॥ १॥ मुक्ताभक्तिमलं हि मीननयनं चावर्तनाभिं ॥॥।??दीम् । भक्तश्रेणिममोघनामतरणं स्वेच्छागतिं तं भजे ॥ २॥ इति श्रीमाधवदासविरचितं श्रीवल्लभगीतं सम्पूर्णम् ।